________________
प्रास्ताविकम्
वर्तमानः युगः अयं चिन्तन-लेखन-विचार-भाषणप्रधानः युगः अस्ति । कतिकतिविषयेषु कियत् कियत् वा चिन्त्यते उच्यते च इत्यत्र न अस्ति अनभिज्ञता कस्य अपि । उत्तमः एषः प्रयासः मार्गः वा यत् वयं विचाराणां लेखन-कथनादिरूपेण परस्परम् आदानप्रदानेन सत्यस्य उद्घाटने प्रयत्नशीलाः स्मः । एवं सति अपि एकः प्रश्नः सततम् उद्वेजयति यत् एतावति भवति सत्यपि किमर्थं मनुष्यः क्षीणतेजाः अनुभूयते ? केन कारणेन अस्माकं तेजः सततं क्षीयमाणम् एव दृश्यते ? इति ।
सर्वे अपि सर्वं घटमानं निरीक्षन्ते तत्रगतं शोभनम् अशोभनं च अपि समीक्षन्ते । पश्चात् स्वस्वविचारानुगुणं दृष्ट्यनुरूपं च तत् अभिव्यक्तम् अपि कुर्वन्ति, लेखनेन भाषणेन वा । पश्चात् किम् ? न किम् अपि । पुनः अपि अरहट्टघटीन्यायेन अपरिवर्तितम् एव सर्वं यथापूर्वं प्रचलति; पुनः का अपि घटना, तन्निरीक्षणम्, समीक्षणम्, विवेचनम्.... इति । अनन्तः अयं क्रमः । एतत् दृष्ट्वा अपरः अपि प्रश्नः समुपतिष्ठते यत् किं वयं विचारशीलाः उत विचारमूढाः ? विचारशीलः फलनिरपेक्षं न किम् अपि आचरति परं विचारमूढः तु निष्फलम् एव प्रवर्तते, विचारेषु एव सः मग्नः इव तिष्ठति । वर्तमानकाले एतादृशां विचारमूढानाम् एव साम्राज्यं सर्वत्र प्रसृतं दृश्यते । तेषां कोलाहले तु विचारशीलानां शब्दरवः विलीनाति । एतादृश्यां स्थितौ कः नाम एनं प्रश्न पुरस्कृत्य चिन्तयेत् यत् कथं नाम वयं हीनतेजसः भवामः ? इति । सर्वे अपि परस्य विषये अङ्गलिनिर्देशेन किम् अपि सूचयितुम् उत्सुकाः किन्तु स्वविषये न कः अपि । परोपकारिणः खलु वयम् ? किन्तु अद्य तु स्वोपकारः एव उपकारकः न परोपकारः । यथा वयं विचारशूराः तथा एव आचारशूरैः अपि अस्माभिः भवितव्यम्, तदा एव विच्छायतां गता अस्माकं तेजस्विता पुनः प्रादुर्भविष्यति न अन्यथा । एवम् एव च संस्कृतस्य संस्कृतेः वा कृते क्रियमाणं किम् अपि अर्थवत् फलवत् च अपि भविष्यति । किन्तु प्रथमं तावत् परिवर्तनं स्वस्मिन् एव करणीयम्, एतेन एव 'दीपात् दीपशतम्' इव सर्वम् अपि तेजस्विनं प्रकाशमानं च अनुभविष्यामः । कः खलु अत्र प्रथमः भवेत् ?
आचाररहितैः केवलं विचारैः न कः अपि तेजस्वितां प्राप्तुं शक्नुयात् । इति शम्। | वि.सं. २०६०
कीर्तित्रयी कार्तिकशुक्ला पञ्चमी, चेन्नई
iiii For Private & Personal Use Only
Jain Education International
www.jainelibrary.org