SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ व्यङ्गकथा मुनिरत्नकीर्तिविजयः दिल्लीनगरे संसदभवनस्य पुरोभागे भिक्षुकः एकः पत्न्या सह उपविष्टः आसीत् । भिक्षुकाणां भिक्षास्थानानि प्राय: नियतानि भवन्ति । सः अपि नित्यं तत्र एव आगत्य उपविशति स्म । तत्र अनेकराजकीयपुरुषाणां विभिन्नानाम् अधिकारिजनानाम् आरक्षकगणस्य च गमनागमनं सततं प्रवर्तते स्म । सः अपि तेषां यातायातं दृष्ट्वा मनसि किम् अपि विचारयन् उपविशति स्म । तेऽपि जनाः तस्मै न्यूनाधिकं किम् अपि ददति स्म । एवं च तस्य स्वस्थित्यनुरूपं सुखेन दिनानि गच्छन्ति । नित्यम् इव प्रधानमन्त्रिमहोदयः अन्यैः मन्त्रिभिः आरक्षकगणैः च परिवृतः अद्याऽपि आगतः । तस्य तादृशं वैभवं प्रभावं च दृष्ट्वा किम् अपि विचार्य सः स्वपत्नीम् अवदत् * भोः ! कदाचित् एवं स्यात् यत् अहम् अपि एतादृश: प्रधानमन्त्री स्याम्, तर्हि ..... * किम् ? किम् ? तं वाक्यमध्ये एव तूष्णीं कृत्वा पत्नी अवदत् - किम् ? प्रधानमन्त्री ? सः अपि भवान् भवेत् ? तूष्णीं तिष्ठतु, तूष्णीम् ! गगनविहारं त्यक्त्वा पृथिव्याम् एव चलतु ! * शृणु रे तावत् ! अहं तु केवलं मम विचारं श्रावयामि यत्.... अरे ! किन्तु कः अर्थः एतस्य अशक्यविचारस्य ? अयि मुग्धे ! अहम् अपि जानामि यत् एतत् न शक्यम् । किन्तु, एतत् तु काल्पनिकम् एव केवलं यत् कदाचित् एवं स्यात्..... । तस्य श्रवणे तव का नाम हानि: ? समययापनम् अपि भविष्यति । भवतु नाम, श्रावयतु । मन्यस्व यत् यदि अहं प्रधानमन्त्री स्याम्, तर्हि किं स्यात् तत् जानासि ? Jain Education International ९३ For Private & Personal Use Only www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy