________________
-
कथा
देवधनभक्षणदोष
मुनिधर्मकीर्तिविजयः
इन्द्रपुर नाम नगरम् आसीत् । तत्र देवसेनाभिधः श्रेष्ठी वसति स्म । परिवारेण सह सः श्रेष्ठी सानन्दं ससुखं च कालं गमयति स्म ।
अथ तस्य गृहे प्रत्यहम् एका उष्ट्रिका आयान्ती आसीत् । तस्याः स्वामी गोपालः अपि नित्यं तत्र आगत्य तां कुट्टयित्वा स्वस्थानं प्रति नयन् आसीत् । तथा अपि सा पुनः पुनः स्वस्वामिनं वञ्चयित्वा देवसेनश्रेष्ठिनः सदनम् एव उपाविशती आसीत् । एषः तस्याः नित्यक्रमः आसीत् ।
एकदा नगरे पूज्यपादाः सूरिपुङ्गवाः समवासरन् । सः श्रेष्ठी तान् वन्दितुं गतः । तेन पृष्टम् - प्रभो ! एका उष्ट्रिका मद्भवने एव प्रतिदिनम् आगच्छति, तत्र एव च रतिं प्राप्नोति, किम् अत्र कारणम् ?
सूरीश्वराः आहुः - पूर्वभवे एषा तव माता आसीत् । सा पूर्वभवे प्रतिदिनं जिनेश्वरस्य अग्रे स्थितेन दीपेन एव स्वगृहस्य दीप प्रज्वाल्य सर्वाणि अपि कार्याणि कुरुते स्म, तथा च तत्रत्येन एव धूपाङ्गारेण चुल्लीम् अपि प्रज्वालयति स्म । तत्कारणेन मृत्वा अधुना सा उष्ट्रिका जाता। एवं पूर्वजन्मनः स्नेहात् भवादृशः स्नेहिजनान् संदृश्य इदानीम् आनन्दं प्राप्नोति ।।
एतत् श्रुत्वा एव श्रेष्ठी उद्वेगीबभूव । पश्चात् तेन पृष्टम् - प्रभो ! किं कः अपि उपाय: अत्र अस्ति?
तदा गुरवः ऊचुः - 'त्वं तस्याः समीपं गत्वा पूर्वभवनाम्ना आह्वय, तथा कर्णयोः मध्ये देवधनभक्षणस्य वृत्तान्तं श्रावय, तेन सा बोधं प्राप्स्यति" ।।
तेन श्रेष्ठिना अपि गुर्वादेशानुसारेण सर्वं कृतम् । ततः सा बोधं जातिस्मृति च प्राप्तवती। अन्ते सा अपि सज्ज्ञानम् अवाप्य सचित्तभक्षणादित्यागनियमं गृहीत्वा, मनसः अनुतापेन पूर्वभवकृतं पापं विनाश्य च देवत्वं : |
Jain Education International
For Private Personal Use Only
www.jainelibrary.org