SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ आचरणेन सिद्धिः कथा मुनिधर्मकीर्तिविजयः एकेन साधकेन पृष्टम् - प्रभो ! जीवने कीदृशी साधना करणीया ? तथागतः आह- आन्तरदृष्ट्या जीवने निर्दोषता उदारता च अभ्यसनीया । तथा बाह्यदृष्ट्या व्यवहारे सर्वान् जीवान् प्रति दयाभावना करणीया । तथा च मुख्यतः सत्यम् आचरणीयम् । साधकः उवाच- अहो ! एतत् तु सप्तवर्षीयः बालः अपि जानाति । तथागतः अब्रवीत् - सत्यं ते कथनम् । सत्यस्य आचरणं करणीयम्, निर्दोषम् उदारं च जीवनं जीव्यम्, सर्वेषां जीवानां दया पालनीया, इत्यादिकं सर्वं सप्तवर्षीयः बालः जानाति । किन्तु वृद्धजनाः अपि तस्य आचरणे तु न प्रभवन्ति । अतः वस्तुतः आचरणम् एव मुख्यम् । न तु ज्ञानमात्रम् । .. % 3 EMENTHREAi Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy