SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ अष्टादशमायस्थानकालोचनाशतकम् ॥ आ. विजयहेमचन्द्रसूरिः वीरं भक्त्या जगद्वन्द्यं, नत्वा स्मृत्वा च सद्गुरुम् । पापभारापनोदाय, प्रयतेऽहं यथामति ॥१॥ (अनुष्टुप्-वृत्तम्) अनाद्यनेहसो योऽसौ, संयोगो जीवकर्मणोः । दुःखरूपस्तथा दुःख-फलो दुःखानुबन्धकः રો शुद्धधर्मं विना न स्या-त्तद्विच्छेदः कथञ्चन । तदवाप्तिर्भवेज्जन्तो-विंगमात् पापकर्मणः स्यात्पापकर्मविगम-स्तथाभव्यत्वपाकतः । तत्पाकसाधनान्येवं, जगुस्त्रीणि जिनेश्वराः चतुःशरणसम्प्राप्ति-स्तथा दुष्कृतगर्हणा । अर्हत्सिद्धादितत्त्वानां सदा सुकृतसेवना द्वितीयं साधनं तत्र, प्रोक्तं दुष्कृतगर्हणम् । विशेषेणेह संक्लिष्ट-पापनाशाय गद्यते દો इहाउनारतसंसार-परिभ्रमणहेतवः । अष्टादशाऽपि हिंसादि-पापस्थानानि जन्मिनाम् ॥७॥ प्रथमपापस्थानकालोचना तत्र प्राणातिपाताऽख्यं, पापस्थानकमग्रिमम् । सर्वदोषकरं सर्व-गुणहानिकर मतम् ૮ त्रसस्थावरजीवानां, प्राणानां यद्वियोजनम् । प्रमत्तयोगतः स्यात्तद्-हिंसा शास्त्रे निरूप्यते ॥९॥ १७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy