SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ अनुवादः प्राज्ञपुरुषस्य उत्तराः ISSUNNY ('मिलिन्द-पन्हा' तः) मुनिकल्याणकीर्तिविजयः (१) आर्यनागसेन ! यस्य पुनर्जन्मग्रहणं न अस्ति, तादृशस्य पूर्णपुरुषस्य कदाचित् 7 किञ्चिद् अपि दुःखं भवति किल ? तस्य एकप्रकारकं दुःखं कदाचित् स्याद् अपि । परन्तु द्वितीयप्रकारकं दुःखं तु न कदाचित् कथञ्चिद् अपि सम्भवेत् । कृपया स्पष्टीकरोतु । तस्य शारीरिकं दुःखं तु स्याद् अपि महाराज ! किन्तु मानसिकं दुःखं न एव भवेत् । कथम् ? शारीरिकदुःखस्य दवीयांसि नेदीयांसि वा कारणानि न अद्य अपि तस्य सर्वथा प्रणष्टानि । अतः तस्य शरीरसम्बन्धि दुःखं तु भविष्यति । किन्तु मानसिकदुःखस्य तु - सर्वाणि अपि निमित्तानि तेन सर्वथा विनाशितानि । अतः तस्य मनोनिमित्तकं दुःखं तुम न कदाचिद् अपि भविष्यति । भगवता बुद्धेन अपि कथितम् - "स: दैहिकं दुःखम् अनुभवति न तु मानसिकम्" इति । ननु तहि कथं सः देहत्यागं न करोति ? महाराज ! तस्य न का अपि आसक्तिः ईर्ष्या वा काचित् विद्यते । तथा सः अपक्वानि फलानि अवचेतुं न इच्छति किन्तु तेषां पाककालं प्रतीक्षते । अत एव भिक्षुसङ्घस्य धर्मसेनापतिना ‘सारिपुत्त' इत्यनेन कथितम् - ___ 'न अस्ति मे मृत्योः स्पृहा, न च अपि जीवनस्य लालसा । केवलं निःस्पृहतया सावधानतया च अहं कालं गमयामि ।' इति । सुष्ठ स्पष्टीकृतम् आर्य ! ॥ स THE ८० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy