________________
Jain Education International
पञ्चमः प्रबन्धः पञ्चदशोऽधिकारः योगस्वरूपम् [प्रहर्षिणी]
अविदितवरयोगसत्स्वरूपो,
भ्रमति भवे कुशलां क्रियां दधानः । न हि भवति गतामयः कुपथ्यं,
त्यजति न यावदुपायसावधानः ॥१॥
विविधविधिविधानवर्यभावां,
चरति शरीरविलेखिनीं क्रियां सत् । स हि सुखमधिगच्छतीद्धरूपं,
सुरगतिसम्भवमाशु बाह्ययोगात् ॥२॥
यदपि वसति संसृतौ क्रियाया,
विरमति नैव तथाऽपि कर्मबन्धात् । तदपकृतिकृते नितान्तमात्मा,
शुभविधिमाचरति प्रशान्तचित्तः ॥३॥
क्रमश उदयमाप्नुवन् सुयोगात्,
प्रविशति सत्तमयोगवर्त्मनीष्टम् ।
भ्रमणमिह ततस्ततं विनश्येत्,
शिवपदमुत्तममाश्रयेत् सुखेन ॥४॥
कलुषितहृदयो भवेत् कषायाद्
हृदयविशुद्धिरनाविला न मोहात् ।
For Private & Personal Use Only
c* c* c*
www.jainelibrary.org