SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ FO एव स्थातव्यं भवति भवता खलु । कञ्चित् कालं कथाश्रवणं यदि न स्यात् तहि तत्र F का नाम हानि: भवतः ? एतादृशं वचनं श्रुत्वा पिता स्तब्धः अभवत् । किन्तु मनुः वार्तातन्तुं हस्तेकृत्य EY उक्तवान् - आगामिनि रविवासरे अस्माकं महाविद्यालयात् अजंता-इलोरा-दोलताबादादीनां स्थलानां प्रवास: आयोजितः अस्ति । सर्वेऽपि प्राध्यापकाः पत्नीभिः सह आगमिष्यन्ति..... भवतु, भवतु । तर्हि त्वं रमा चाऽपि अवश्यं गच्छताम् - तस्य वार्तायाः भावार्थम् अवबुध्य मध्ये एव पिता अवदत् । किन्तु तत्र व्ययः अधिकः भविष्यति । एतेन च भवतः उपनेत्रस्य कार्येऽपि विलम्बः भविष्यति । किं तावद् धैर्यं शक्यम् अस्ति ? - अपराधभावेन मनुः उक्तवान्। पिता तु सहसा आम् आम् इति स्वसम्मतिं सूचयित्वा कथमपि स्वस्थतां | प्राप्तवान् । किन्तु तूष्णीं स्थातुम् अशक्ता रमा पुनरपि तत्र स्वाभिप्रायं दत्तवती - 'मासपर्यन्तं प्रतीक्षाकरणात् तु महाजनसञ्चालिते चिकित्सालये यदि अगमिष्यत् तर्हि विना मूल्यम् एव कार्यम् अभविष्यत् इत्येव शोभनम्' इति । पित्रा तु सर्वम् अपि एतत् स्वस्थतया श्रुतं सोढं च । ___ मनुः रमा च मित्रपरिवारेण सह प्रवासार्थम् अगच्छताम् । प्रवासं कुर्वन्तः | सर्वेऽपि दोलताबादम् प्राप्तवन्तः । तत्रत्यं प्राचीनं प्राकारं निरीक्ष्य सर्वेऽपि चर्चा कुर्वन्तः उपविष्टाः आसन् । प्राकारस्य भग्नां जीर्णाम् उपेक्षितां च अवस्थां दृष्ट्वा सर्वेषां खेदः जातः । तदा एव एकः विद्यार्थी अवदत् - "यथा वयम् अस्माकं वृद्धानां मातापितृचरणानां परिचर्यां सप्रेम कुर्मः तथैव किम् एतादृशां पुरातनानाम् ऐतिहासिकदृष्ट्या च महत्त्वपूर्णानां स स्थलानां रक्षण-संवर्धनादिकम् अस्माकं कर्तव्यं नास्ति खलु ?" एषा चर्चा तु दीर्घ प्रवृत्ता । किन्तु 'मातापितृचरणानां सप्रेम परिचर्या' इति विद्यार्थिना सहजम् आर्द्रभावेन उच्चारिताः शब्दा: मनोः हृदये व्यथाम् उत्पादयन्त: आसन् । सः शून्यमनस्कः जातः । कस्याम् अपि चर्चायां सः भागं वोढुं न अशक्नोत् । तस्य हृदयसमक्षं स्वकीयः भूतकालः उपस्थितः अभूत्-'स्वविकासार्थं पिता किं किं न 980363 ८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy