Book Title: Nyayasamucchaya
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
४२
न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः ।
वाविति शक्यमिति शङ्का निरालम्बनैव, तथाsस्याः शङ्कायाः 'यतः स्थानिवद्भावेन स्थानिवत् कार्यमेव स्यात् न तु स्थानिवद्रूपम्, वत्करणस्यैतावन्मात्रार्थकत्वात्' इति समाधानमापे चिन्त्यमेव, स्थानिवद्भावेन स्थानिकार्याति देशे आदेशप्रयुक्तकार्यस्याभावात्, आदेशस्वरूपसच्चेऽपि तस्याकिञ्चित्करत्वात् । 45 अतिदिश्यमानधर्मविरुद्ध स्वाश्रयधर्मप्रयुक्त कार्याभावस्यातिदेशस्वभावसिद्धत्वात्' इत्येवमत्रत्यत्तह्रन्थः सर्वोऽपि काशकुशावलम्बनमिव प्रतीयते । अन्ते च 'स्थानिवद्भावपुंवद्भाव" इत्यादिन्यायेन नानिष्टार्थी शास्त्रप्रवृत्तिः इति न्यायेन वा यत् समाधानमुक्तं तत् कथञ्चित् स्वीकार्य स्यात् ; किन्त्वत्र सूत्रारम्भ- 50 सामर्थ्यादेव स्थानिवद्भावाभावस्योपपादयितुं शक्यत्वेन वृथागतिकगत्याश्रयणम् । अत एव परिभाषेन्दुशेखरे नागेशेन “पूर्वस्यास्चेस्वरे० " [ ४. १.३७. एतत्सूत्र स्थानीयस्य “अभ्यासस्यासवर्णे" [वा. सू. ६.४.७८.] इति सूत्रस्यारम्भसामर्थ्यादेवाभ्यासकार्ये [ द्वित्वे पूर्वस्य कार्ये ] तदुत्तरखण्ड- 55 स्वरादेशस्य न स्थानिवत्त्वमिति सामान्येनैव ज्ञापितम् ॥ २१ ॥
|
।
[ ७.४. ११०. ] इति परिभाषयोः सजातीयः पूर्वन्यायस्तथा तत्परिभाषयोर्निषेधरूपाया " न सन्धि०" [ ७. ४. १११] इति परिभाषायाः सजातीयोऽयं न्याय इति बोद्धव्यम् । वस्तुतस्तु 'इयेष' इत्यत्र स्वे स्वरे परे इयुवा देशविधान - 5 सामर्थ्यादेव तत्र नासिद्धत्वं न वा "स्वरस्य परे प्राविधौ” [ ७. ४. ११० ] इति स्थानिवद्भाव इति विनाऽपि न्यायं तत्र सिद्धिरिति 'बभूवुषा' इत्येव न्यायोदाहरणं विज्ञेयम् । यत्विह “स्थानिवद्भावमाशङ्क्य " स्वरस्य परे०" [ ७. ४. १०० ] इत्यत्र सप्तमीनिर्देशेन "सप्तम्या [ निर्दिष्टे ] पूर्वस्य" 10 [ ७. ४. १०५. ] इति परिभाषया अनन्तरपरनिमित्त एवादेशः स्थानिवत्, इह च णवा सह गुणस्थानिन इकारस्य व्यवहितत्यान स्थानिवद्भावः इति केचिदूचुः, तन्न युक्तम् - "लघोरु पान्त्यस्य” [४. ३. ४. ] इति सूत्रे समुपस्थितस्याक्तितीत्यस्य क्विद्भिन्नप्रत्ययवाचकस्य सप्तम्यन्तत्वेन तत्र च "सप्तम्या पूर्वस्य” 15 [ ७. ४. १०५. ] इत्यस्योपस्थितिरवश्यं स्वीकार्येति तद्विहितो गुणोsपि प्रत्ययानन्तरस्यैव भवति, किन्तु उपान्त्यस्य कदाचिदपि प्रत्ययान्तरत्वासम्भवेन येन नाव्यवधानं तेन व्यवहितेsपि भवति इति न्यायेनैकवर्णव्यवधानेऽपि प्रवृत्तिर्भवति, न तावता तस्य परनिमित्तकादेशाभावत्वम् । किञ्च "स्वरस्य 20 परे० " [ ७. ४. ११० ] इति सप्तम्या पूर्वस्य" [ ७. ४. १०५. ] इति चोभे अपि परिभाषे, परिभाषाणां च विधिसूत्राणि प्रति शेषतया गुणत्वम् गुणानां व न परस्परं सम्बन्धः, गुणानां च परार्थत्वादसम्बन्धः समत्वात् स्यादिति न्यायात्; युक्तं चैतत् यथा राजसेवकानां राजानं प्रत्येव सेव्यसेवकभावो 95 न परस्परं सेव्यसेवकभावः, तथा परिभाषासूत्राणामपि परस्परमुपकार्योपकारकभावाभावात् । इत्थं च “स्वरस्य परे०" [ ७. ४. ११०.] इत्यत्र “सप्तम्या [ निर्दिष्टे ०" ७. ४. १०५] इत्यस्योपस्थितिरसम्भविनी, तथा च नात्र तत्परिभाषाया उपस्थितिः । किञ्च 'अस्व' इत्यस्य नमा निर्दिष्टत्वेनानित्यत्वेन समा30 धानमपि न रमणीयम्, नजा निर्दिष्टस्यानित्यत्वे मानाभावात्, प्रत्युत निषेधाश्च बलीयांस इत्यस्यैव युक्तत्वात् किञ्च तथा सति ईषतुः, ईषुः' इत्यादावपि समानदीर्घं प्रबाध्येयादेश एव स्यात् : एवं भवतु वा स्थानिवद्भावस्तथापि स्वेऽपि परेऽत्रेयादेशो भविष्यतीत्यपि निर्युक्तिकमतिप्रसङ्गावहं च वचनम् । पर्जन्यब35 लक्षणप्रवृत्त्या समाधानमपि निरालम्बनमेव, तेन हि न्यायेन
निमित्तसद्भावे फलाभावेऽपि लक्षण प्रवृत्तिरित्यायाति, यथा पर्जन्यो जले स्थले वा फलमसमीक्ष्यैव जलं वर्षति तथैव फलाभावेऽपि लक्षणानां प्रवृत्तिरित्यत्रैव तत्तात्पर्यात् । एवं नत्रा निर्दिष्टस्यानित्यत्वेन पूर्वं समाधाय पश्चात् “न च स्थानि40 वद्भावेनादेशस्य स्थानिस्वरूपभवनादस्वस्व रास्थित्या कथमियु
*न स्वरानन्तर्ये* ॥ २१ ॥
त० - अत्र वृत्तौ पूर्वन्यायस्थपदयोः 'वहिरङ्गम्, अन्तरङ्गे' इत्यनयोरनुवृत्तिः सूचिता सा चावश्यक्येव । यद्यपि न्यायाना परस्परनिरपेक्षत्वं ज्ञापकसिद्धत्वेन भिन्नदेशस्थत्वं च तथा हि- 60 पूर्वन्याय: “न सन्धिडी ० " [ ७. ४. १११.] इति सूत्रस्थद्विग्रहणेन ज्ञापितः, अयं च "वृत्त्यन्तोऽस” [ १. १. २५.] इति निर्देशेनेति *यथोद्देशं संज्ञा - परिभाषम् इति पक्षेऽनयोबहुव्यवहितत्वमिति नानुवृत्तिः सम्भवति, तथाप्याचार्यैरुभयोन्यययोः सहैव पठिततयाऽव्यवहितत्वमिति तदभिसन्धा- 85 यैव पदानुवृत्तिः स्वीकृता । दृश्यते चैतन्यायस्थानीये * नाजानन्तर्ये बहिष्प्रकृप्तिः * इति न्याये नागेशादिनापि 'अन्त' रने' इति पदानुवृत्त्याश्रयणम् । तथा हि- तथ्यायव्याख्याने तेनोतम् " परिभाषार्थस्तु – अचोऽन्यानन्तर्यनिमित्त केऽन्तरङ्गे कर्तव्ये जातस्य बहिरङ्गस्य बहिष्ट्वप्रकृतिर्न, बहिष्पदेन बहिरङ्गम्, तस्य 70 Tata हरवं [तस्य ], तत्प्रयुक्तासिद्धत्वस्य न प्रकृतिःन प्राप्तिरिति । 'असिद्धं वहिरङ्गम्' [ अन्तरङ्गे ] इत्युक्त्वा नाजानन्तर्येः इति वक्ष्यामीति भाष्योत्त्या तत्रत्यस्य 'अन्तरङ्गे' इत्यस्यानुवृत्तिसूचनात् " इति । तथा च यथा तत्र नये भाष्योक्तिप्रामाण्यादनुवृत्तिः कल्प्यते तथा खमतेऽपि सहपाठसामर्थ्यात 75
साध्या । केचित्तु - "न्याययोर्ज्ञापकदेशस्थत्वस्यौचित्येनोभयोर्भिन्नदेशस्थतया तत्र परस्परमसामीप्यान्न पदानुवृत्तिसम्भवः । * नाजानन्तर्ये बहिष्टुप्रकृप्तिः इति न्याये च 'अन्तरङ्गे' इत्यतावन्मात्रमेवानुवर्तनीयं तच बहियपदार्थस्य नित्यसाकाङ्क्षत्वेन
सा

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206