Book Title: Nyayasamucchaya
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 171
________________ [ द्वितीयोल्लासे न्यायः २५ ] सारं यत्र सम्पूर्णस्य धातोर्द्वित्वं भवति तत्रैव सन्वद्भावो दीर्घश्च भवतः । अनेकस्वराणाम् 'ऊर्णु- अर्थापि चकास् प्रभृतीनां धातूनां च न सम्पूर्णस्य द्वित्वमिति तत्र सन्वद्भावो दीर्घव न भवतः । द्वितीयव्याख्यानुसारं चोणतेदी चौऽर्थापयतेश्च दीर्घ सन्वद्भाव 5 स्त एवेति सर्वं कारिकाभिः संगृहीतं सिद्धान्तकौमुद्यां दीक्षितेन, तथा हि न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । 10 | " संज्ञायाः कार्यकालत्वादङ्गं यत्र द्विरुच्यते । तत्रैव दीर्घः सन्वच्च नानेका त्रिति माधवः ॥ चकास्त्यर्थापयत्यूर्णोत्यादौ नाङ्गं द्विरुच्यते । किन्त्वस्यावयवः कश्चित् तस्मादेकाक्ष्विदं द्वयम् ॥ वस्तुतोऽङ्गस्यावयवो योऽभ्यास इति वर्णनात् । ऊण दीर्घोऽर्थापयतों द्वयं स्यादिति मन्महे || चकास्तौ तूभयमिदं न स्यात् स्याच व्यवस्थया । पोर्विशेष्यं सन्निहितं लघुनीलङ्गमेव वा ॥" इति ‘व्याख्याविकल्पस्य कैयटेनैव वर्णनात्” इति । अस्या यमाशय: - अस्मिन् शास्त्रे कार्यकाल संज्ञा- परिभाषम् इत्येकः पक्षः, तस्य च 'संज्ञा च परिभाषा चोभे कार्यप्रदेशके' इत्यर्थः, तथा चास्मिन् पक्षे तत्तत्कार्यविधिप्रदेशेषु संज्ञाशास्त्रस्य परिभाषाशास्त्रस्य चोपस्थितिर्भवति । यथोद्देशं संज्ञा - परिभाषम् * 20 इति च पक्षान्तरम् । उद्देशाः संज्ञाशास्त्र - परिभाषाशास्त्रयोः पाठप्रदेशाः, तानतिक्रम्य न तिष्ठतीति यथोद्देशम्, संज्ञाशास्त्रं परिभाषाशास्त्रं च स्वप्रदेशे स्थितमेव तत्तद्विध्यपेक्षितं स्वं स्वमर्थं समर्पयतीति तदर्थः, अस्मिन् पक्षे च कार्यप्रदेशेषु संज्ञा-परिभाषाशास्त्रविधेयांशस्यैवोपस्थितिर्न तु कृत्स्नस्य शास्त्रस्येति स्थितिः । 25 सन्वद्भावाविधायके “सन्वलघुनि चढ्परेऽनग्लोपे” [ पा० सू० ७. ४. ९३. ] इति सूत्रे, दीर्घविधायके “दीर्घो लघोः" [ पा० सू० ७.४९४ ] इति सूत्रे च तत्रत्य[पाणिनीयमतस्थ]प्रक्रियानुसारम् 'अङ्गस्य' [ प्रत्यये परतः प्रकृतिभूतस्य ] 'अभ्यासस्य' [ द्विर्त्य पूर्वस्य ] इति च पदद्वयमनुवृत्तम् पदद्वयमपि च 30 संज्ञाधकम्, तत्र 'अभ्यासस्य' इति संज्ञाबोधकपदसम्बन्धेन अभ्याससंज्ञाविधायकं “पूर्वोऽभ्यासः " [पा० सू० ६.१.४.] इति सूत्र कार्यकालपक्षे सन्निहितम्, ततश्च 'अङ्गस्य' इति पद सहितस्य सम्बद्भावविधायकस्य सूत्रस्यार्थ एवं सम्पद्यते - अस्य ये द्वे उच्चारणे तयोः पूर्वोऽभ्याससंज्ञः, स सन्वद् भवतीति । 35 तत्र कृदन्तस्योच्चारणशब्दस्य योगे 'अङ्गस्य' इति कर्मणि षष्ठी, न त्ववयवपष्ठी कारकविभक्तेर्बलवत्वात् । अङ्गं च प्रत्यये परतः कृत्नमेव प्रकृतिरूपं न तु तदेकदेशः, ततश्च कृत्स्नमयं यत्र द्विरुच्यते तत्रैव सन्वद्भावो दीर्घश्च भवतः, न त्वेकदेशमात्रस्य द्वित्वे सति । एवं च प्रकृतेरेकस्वरत्व एव कृत्स्नायाः प्रकृतेर्द्वित्व40 संभावना तत्रैव च तयोः प्रवृत्तिः, अनेकखरासु प्रकृतिषु च न । | । 1 15 १५१ तयोः प्रवृत्तिः, तत्रैकस्वरस्यांशस्यैव द्वित्वविधानादिति माधवस्य मतम् । एवं च 'चकास्' धातोः, अर्थमाचष्ट इत्यर्थेऽशब्दाछ्णावात्वे प्वागमे चार्थापिधातोः, ऊर्णोश्चेत्येवंविधानामनेकस्वराणां ण्यन्तानां हे कृत्स्ना प्रकृतिर्न द्विरुच्यत इति न तत्र दीर्घत्वं सन्वङ्गावश्च प्रवर्त्ततेः किन्वस्मिन् माधवाभिप्रेते 45 व्याख्याने समाश्रिते "सन्वलघुनि चङ्परेऽनग्लोपे" [ पा० सू० ७. ४. ९३ ] इति सूत्रे महाभाष्ये 'अजजागरत्' इत्यत्र सन्वद्भावमाशङ्कय णिपर कलघोर्गकाराकारस्य मध्यस्थितेन 'जा' इत्यनेन व्यवधानात् समाधानं कृतं तद् विरुध्येत, 'जागृ' - धातोरप्यनेकस्वरत्वेन तत्र माधवव्याख्यानरीत्या सन्वद्धावस्य 50 प्राप्तेरभावेन शङ्का समाधानयोरुभयोरनालम्बनत्वापत्तेस्तत्र कृत्स्नस्याङ्गस्य[संपूर्णायाः प्रकृतेः ] द्वित्वाभावात् । तथा चात्र न कार्यकालपक्षेण व्यवहारो भाष्यकृदभिमत इति यथोद्देशपक्षमाश्रित्याह-वस्तुतोऽङ्गस्यावयव इत्यादि । अयमाशयः - अङ्गस्येत्यवयववष्ठी, न कर्मषष्ठी तथा चाङ्गावयवस्य [ प्रकृत्यवयवस्य ] 55 अभ्याससंज्ञकस्य [ द्विरुक्तौ पूर्वस्य ] इत्यर्थो लभ्यते । ततश्चोर्णुधातोर्ण्यन्तस्य के 'नु' इत्येकदेशे द्विस्तेऽपि दीर्घस्य प्रवृत्तिरिति और्गुनवदिति रूपम्, सन्वत्वस्य चेह प्रयोजनमेव नास्ति, तत्प्रयोजनभूतस्येत्त्वस्यात्रा प्राप्तेः द्वित्वे पूर्वस्याकारस्याभावात् । अर्थमाचष्ट इत्यर्थे णिन्चि आत्वे प्वागमे च डे परे तदेकदेशस्य 60 द्वित्वेऽपि सम्वद्भावदीर्यौ भवत एवेति 'आतथिपत्' इति रूपं भवति । परं त्वत्र पक्षे 'चकास्' धातोर्ण्यन्तस्य के विशेषः, स चायम्- 'लघुनि चङ्परे' इत्ययमंशः कैयटेन द्विधा व्याख्यातः, 'चङ्परे' [ 'उपरे' ] इत्यनेनान्यपदार्थतया लब्धस्य 'नौ' इत्यस्य सन्निहितं 'लघुनि' इत्येत् पदं विशेष्यम्, तथा च चङ्परे णौ 65 [ डपरे णौ ] यलघु तत्परो योऽङ्गावयवोऽभ्यास इत्यादि प्रथमव्याख्यानम् । अङ्गमेव [ प्रकृतिरेव ] वा मेर्विशेष्यम्, तथा च चङ्परे णौ यदङ्गं [ या प्रकृतिः ] तस्य योऽस्यासो लघुपर इत्यादि द्वितीयं व्याख्यानम् [ इदं च व्याख्यानद्वयं सिद्धान्तकौमुद्यामपि प्रदर्शितम् ] इति पक्षद्वयेन सन्वद्भावो दीर्घश्च 70 'वकास' धातोर्ण्यन्तस्य न स्यात् स्याच्च, यतः प्रथमे व्याख्यानेऽत्र तयोर्न प्राप्तिर्कपरे णौ लघोरभावात्, द्वितीये व्याख्याने चाभ्यासस्य [ द्वित्वे पूर्वस्य } लघुपरत्वादुभयोः प्राप्तिरिति 'अचवकासतू' 'अचीचका सत्' इति रूपद्वयम् ॥ प्रकृतमनुसरामःस्वमते नित्यत्वादयः पूर्वं प्रवृत्तौ स्वरादित्वापत्त्या दीर्घाप्राप्त्या - 75 ऽचीकर दित्यादिरूपाणामसिद्धयाऽस्य न्यायस्यान्तिमोंऽश आवश्यक एव, और्जुनवदित्यादौ च दीर्घो मा भूदेतदर्थमत्रा स्वरादित्वग्रहणस्यावश्यकत्वात् । 'इय्' विधायकशास्त्रं च [ " धातोरिवर्णस्येयुव्०” २. १५०.] वृद्धिविधायकशास्त्रस्य [ "स्वरादेस्तासु" ४. ३. ३१.] इत्यस्यापेक्षया पूर्वमिति तस्यैतदपेक्षया सर्वथा 80


Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206