________________
[ द्वितीयोल्लासे न्यायः २५ ]
सारं यत्र सम्पूर्णस्य धातोर्द्वित्वं भवति तत्रैव सन्वद्भावो दीर्घश्च भवतः । अनेकस्वराणाम् 'ऊर्णु- अर्थापि चकास् प्रभृतीनां धातूनां च न सम्पूर्णस्य द्वित्वमिति तत्र सन्वद्भावो दीर्घव न भवतः । द्वितीयव्याख्यानुसारं चोणतेदी चौऽर्थापयतेश्च दीर्घ सन्वद्भाव 5 स्त एवेति सर्वं कारिकाभिः संगृहीतं सिद्धान्तकौमुद्यां दीक्षितेन, तथा हि
न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः ।
10
|
" संज्ञायाः कार्यकालत्वादङ्गं यत्र द्विरुच्यते । तत्रैव दीर्घः सन्वच्च नानेका त्रिति माधवः ॥ चकास्त्यर्थापयत्यूर्णोत्यादौ नाङ्गं द्विरुच्यते । किन्त्वस्यावयवः कश्चित् तस्मादेकाक्ष्विदं द्वयम् ॥ वस्तुतोऽङ्गस्यावयवो योऽभ्यास इति वर्णनात् । ऊण दीर्घोऽर्थापयतों द्वयं स्यादिति मन्महे || चकास्तौ तूभयमिदं न स्यात् स्याच व्यवस्थया । पोर्विशेष्यं सन्निहितं लघुनीलङ्गमेव वा ॥" इति ‘व्याख्याविकल्पस्य कैयटेनैव वर्णनात्” इति । अस्या यमाशय: - अस्मिन् शास्त्रे कार्यकाल संज्ञा- परिभाषम् इत्येकः पक्षः, तस्य च 'संज्ञा च परिभाषा चोभे कार्यप्रदेशके' इत्यर्थः, तथा चास्मिन् पक्षे तत्तत्कार्यविधिप्रदेशेषु संज्ञाशास्त्रस्य परिभाषाशास्त्रस्य चोपस्थितिर्भवति । यथोद्देशं संज्ञा - परिभाषम् * 20 इति च पक्षान्तरम् । उद्देशाः संज्ञाशास्त्र - परिभाषाशास्त्रयोः पाठप्रदेशाः, तानतिक्रम्य न तिष्ठतीति यथोद्देशम्, संज्ञाशास्त्रं परिभाषाशास्त्रं च स्वप्रदेशे स्थितमेव तत्तद्विध्यपेक्षितं स्वं स्वमर्थं समर्पयतीति तदर्थः, अस्मिन् पक्षे च कार्यप्रदेशेषु संज्ञा-परिभाषाशास्त्रविधेयांशस्यैवोपस्थितिर्न तु कृत्स्नस्य शास्त्रस्येति स्थितिः । 25 सन्वद्भावाविधायके “सन्वलघुनि चढ्परेऽनग्लोपे” [ पा० सू० ७. ४. ९३. ] इति सूत्रे, दीर्घविधायके “दीर्घो लघोः" [ पा० सू० ७.४९४ ] इति सूत्रे च तत्रत्य[पाणिनीयमतस्थ]प्रक्रियानुसारम् 'अङ्गस्य' [ प्रत्यये परतः प्रकृतिभूतस्य ] 'अभ्यासस्य' [ द्विर्त्य पूर्वस्य ] इति च पदद्वयमनुवृत्तम् पदद्वयमपि च 30 संज्ञाधकम्, तत्र 'अभ्यासस्य' इति संज्ञाबोधकपदसम्बन्धेन अभ्याससंज्ञाविधायकं “पूर्वोऽभ्यासः " [पा० सू० ६.१.४.] इति सूत्र कार्यकालपक्षे सन्निहितम्, ततश्च 'अङ्गस्य' इति पद सहितस्य सम्बद्भावविधायकस्य सूत्रस्यार्थ एवं सम्पद्यते - अस्य ये द्वे उच्चारणे तयोः पूर्वोऽभ्याससंज्ञः, स सन्वद् भवतीति । 35 तत्र कृदन्तस्योच्चारणशब्दस्य योगे 'अङ्गस्य' इति कर्मणि षष्ठी, न त्ववयवपष्ठी कारकविभक्तेर्बलवत्वात् । अङ्गं च प्रत्यये परतः कृत्नमेव प्रकृतिरूपं न तु तदेकदेशः, ततश्च कृत्स्नमयं यत्र द्विरुच्यते तत्रैव सन्वद्भावो दीर्घश्च भवतः, न त्वेकदेशमात्रस्य द्वित्वे सति । एवं च प्रकृतेरेकस्वरत्व एव कृत्स्नायाः प्रकृतेर्द्वित्व40 संभावना तत्रैव च तयोः प्रवृत्तिः, अनेकखरासु प्रकृतिषु च न
।
|
।
1
15
१५१
तयोः प्रवृत्तिः, तत्रैकस्वरस्यांशस्यैव द्वित्वविधानादिति माधवस्य मतम् । एवं च 'चकास्' धातोः, अर्थमाचष्ट इत्यर्थेऽशब्दाछ्णावात्वे प्वागमे चार्थापिधातोः, ऊर्णोश्चेत्येवंविधानामनेकस्वराणां ण्यन्तानां हे कृत्स्ना प्रकृतिर्न द्विरुच्यत इति न तत्र दीर्घत्वं सन्वङ्गावश्च प्रवर्त्ततेः किन्वस्मिन् माधवाभिप्रेते 45 व्याख्याने समाश्रिते "सन्वलघुनि चङ्परेऽनग्लोपे" [ पा० सू० ७. ४. ९३ ] इति सूत्रे महाभाष्ये 'अजजागरत्' इत्यत्र सन्वद्भावमाशङ्कय णिपर कलघोर्गकाराकारस्य मध्यस्थितेन 'जा' इत्यनेन व्यवधानात् समाधानं कृतं तद् विरुध्येत, 'जागृ' - धातोरप्यनेकस्वरत्वेन तत्र माधवव्याख्यानरीत्या सन्वद्धावस्य 50 प्राप्तेरभावेन शङ्का समाधानयोरुभयोरनालम्बनत्वापत्तेस्तत्र कृत्स्नस्याङ्गस्य[संपूर्णायाः प्रकृतेः ] द्वित्वाभावात् । तथा चात्र न कार्यकालपक्षेण व्यवहारो भाष्यकृदभिमत इति यथोद्देशपक्षमाश्रित्याह-वस्तुतोऽङ्गस्यावयव इत्यादि । अयमाशयः - अङ्गस्येत्यवयववष्ठी, न कर्मषष्ठी तथा चाङ्गावयवस्य [ प्रकृत्यवयवस्य ] 55 अभ्याससंज्ञकस्य [ द्विरुक्तौ पूर्वस्य ] इत्यर्थो लभ्यते । ततश्चोर्णुधातोर्ण्यन्तस्य के 'नु' इत्येकदेशे द्विस्तेऽपि दीर्घस्य प्रवृत्तिरिति और्गुनवदिति रूपम्, सन्वत्वस्य चेह प्रयोजनमेव नास्ति, तत्प्रयोजनभूतस्येत्त्वस्यात्रा प्राप्तेः द्वित्वे पूर्वस्याकारस्याभावात् । अर्थमाचष्ट इत्यर्थे णिन्चि आत्वे प्वागमे च डे परे तदेकदेशस्य 60 द्वित्वेऽपि सम्वद्भावदीर्यौ भवत एवेति 'आतथिपत्' इति रूपं भवति । परं त्वत्र पक्षे 'चकास्' धातोर्ण्यन्तस्य के विशेषः, स चायम्- 'लघुनि चङ्परे' इत्ययमंशः कैयटेन द्विधा व्याख्यातः, 'चङ्परे' [ 'उपरे' ] इत्यनेनान्यपदार्थतया लब्धस्य 'नौ' इत्यस्य सन्निहितं 'लघुनि' इत्येत् पदं विशेष्यम्, तथा च चङ्परे णौ 65 [ डपरे णौ ] यलघु तत्परो योऽङ्गावयवोऽभ्यास इत्यादि प्रथमव्याख्यानम् । अङ्गमेव [ प्रकृतिरेव ] वा मेर्विशेष्यम्, तथा च चङ्परे णौ यदङ्गं [ या प्रकृतिः ] तस्य योऽस्यासो लघुपर इत्यादि द्वितीयं व्याख्यानम् [ इदं च व्याख्यानद्वयं सिद्धान्तकौमुद्यामपि प्रदर्शितम् ] इति पक्षद्वयेन सन्वद्भावो दीर्घश्च 70 'वकास' धातोर्ण्यन्तस्य न स्यात् स्याच्च, यतः प्रथमे व्याख्यानेऽत्र तयोर्न प्राप्तिर्कपरे णौ लघोरभावात्, द्वितीये व्याख्याने चाभ्यासस्य [ द्वित्वे पूर्वस्य } लघुपरत्वादुभयोः प्राप्तिरिति 'अचवकासतू' 'अचीचका सत्' इति रूपद्वयम् ॥ प्रकृतमनुसरामःस्वमते नित्यत्वादयः पूर्वं प्रवृत्तौ स्वरादित्वापत्त्या दीर्घाप्राप्त्या - 75 ऽचीकर दित्यादिरूपाणामसिद्धयाऽस्य न्यायस्यान्तिमोंऽश आवश्यक एव, और्जुनवदित्यादौ च दीर्घो मा भूदेतदर्थमत्रा स्वरादित्वग्रहणस्यावश्यकत्वात् । 'इय्' विधायकशास्त्रं च [ " धातोरिवर्णस्येयुव्०” २. १५०.] वृद्धिविधायकशास्त्रस्य [ "स्वरादेस्तासु" ४. ३. ३१.] इत्यस्यापेक्षया पूर्वमिति तस्यैतदपेक्षया सर्वथा 80