Book Title: AradhanasaraSatika
Author(s): Devsen Acharya, Ratnakirtidev
Publisher: Manikchand Digambar Jain Granthamala Samiti
Catalog link: https://jainqq.org/explore/002535/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ NEETALERA इन सदृशं पवित्रा हि विद्यत। HILLLLLLLLLLLLLLLLU न हि ज्ञानेन JilastiSIS माणिकचन्द-दिगंबर-जैनग्रन्थमाला। आराधनासारः सटीकः। , Page #2 -------------------------------------------------------------------------- ________________ माणिकचंद-दिगम्बरजेन-ग्रंथमा ला. या श्रीमद्-देवसेनाचार्यविरचितः आराधनासारः। श्रीरत्नकीर्तिदेवविरचितटीकासमेतः । -Se+ पाढमनिवासि-पण्डितमनोहरलालशास्त्रिणा संशोधितः । प्रकाशिकामाणिकचंद-दिगम्बरजेन-ग्रन्थमालासमितिः। मा श्री केसामनागर सरि जान मदिर. श्री महावीर मन भाराधना कन्द्र, कोषा मा फागन, वीरनिर्वाण सं० २४४३ विक्रमाब्द १९७३ Page #3 -------------------------------------------------------------------------- ________________ Printed by Chintaman Sak haram Deole, at the Bombay Vaibhav Press, Servants of India Society's Home, Sandhurst Road, Girgaon, Bombay. Publisbed by Nathuram Premi, Honourary Secretary, Manikchand Dig ambar Jain Granthmala Samiti, Hirabag, Bombay. Page #4 -------------------------------------------------------------------------- ________________ कृतज्ञता-प्रकाश । इस ग्रन्थकी केवल एक ही प्रति जैनमित्र - सम्पादक श्रीयुक्त शीतलप्रसादजी ब्रह्मचारीजीकी कृपा से प्राप्त हुई और उसी परसे इसका सम्पादन किया गया, अतएव हम ब्रह्मचारी महोदय के प्रति हार्दिक कृतज्ञता प्रकट करते हैं । - मंत्री । Page #5 -------------------------------------------------------------------------- ________________ माणिकचंद-दिगम्बरजैनग्रंथमालासमिति । (प्रबन्धकारिणी सभाके सम्य ।) neintressensese sese Aranandanarannnn و १ राय बहादुर सेठ स्वरूपचन्द हुकुमचन्द । २ , , , तिलोकचन्द कल्याणमल । ३ ,, , , ओंकारजी कस्तूरचन्द । सेठ गुरुमुखरायजी सुखानंद । ५ , हीराचंद नेमिचंद आ० मजिस्ट्रेट । ६ मि० ललूभाई प्रेमानंद परीख एल्. सी. ई.। ७ सेठ ठाकुरदास भगवानदास जौहरी । ८ ब्रह्मचारी शीतलप्रसादनी । ९ पं० धन्नालालजी काशलीवाल । १० पं० खूबचंदजी शास्त्री। ११ नाथूराम प्रेमी ( मंत्री). PSIRRRRRIAssistaserarararararasaaraaaaaaa Page #6 -------------------------------------------------------------------------- ________________ श्रीपरमात्मने नमः। श्रीमद्देवसेनाचार्यविरचितः राधनासारः सटीकः । सिद्धानाराधनासार--फलेन फलितात्मनः । ध्यात्वा व्याख्यानतीर्थेन स्वस्यात्मानं पुनाम्यहम् ॥१॥ जिनेन्द्रहिमवद्वकपद्मह्रदविनिर्गता । सप्तभंगमयी गंगा मां पुनातु सरस्वती ॥ २ ॥ गुरूणां चरणद्वन्दं महामंत्रोपमं वसन् । सदा मद्धृदयांभोजे हयाद्विघ्नपरंपराम् ॥ ३॥ . अथ संसारमहापारावारपारासन्नप्रदेशस्थेन निरुपाधिनिरुपद्रवाविनश्वरसनातनानंतसौख्यसमुदायोपायचिंतनं निमितनिरंतरकालेन सिद्धालयवेलापत्तनं जिगमिषुणा जिनोदितभेदाभेदरत्नत्रयपोतसमारूढन स्वभावोत्थितपरमकरुणारसपूरप्रभावेण भवदुःखाग्निदंदह्यमानानन्यानपि भव्यजीवांस्तद्योग्योपदेशवचनैस्तत्रारोप्य पारं कर्तुकामेन स्वयं कर्णधारायमानेन स्वयमेव सार्थवाहाधिपायमानेन तन्मार्गलग्नशीघ्रतरप्रधावमानमहामोहाभिधानचौरन Page #7 -------------------------------------------------------------------------- ________________ आराधनासारः रेन्द्रकिंकरीभूतविषयकषायलंटाकभीतिनिराकरणाय समाश्रितसकलसिद्धांतरहस्यभूतनिश्चयव्यवहारभेदभिन्नचतुर्विधाराधनाग्रंथसंग्रथितपरमशब्दब्रह्मप्रयलेन अनेकांतमरुन्मार्गस्तयमानेन श्रेयोमार्गसंसिद्धिशिष्टाचारप्रपालननास्तिक्यपरिहारार्थनिर्विघ्नपरिसमाप्तिफलचतुष्टयाभिलाषुकेण परमसम्यक्त्वाद्यटप्रसिद्धविमलतरगुणसमृद्धानां सिद्धानां महावीरविशेषणयुक्तानां द्रव्यभावभेदभिन्नं द्विविधं नमस्कारं कुर्वाणन आराधनासारं वक्ष्येहमिति प्रतिज्ञां विरचयता च श्रीमत्परमभट्टारकश्रीदेवसेनाचार्येण स्तोत्रामदं विधीयते;-- विमलयरगुणसमिद्धं सिद्धं सुरसेणवंदियं सिरसा। णमिऊण महावीरं वोच्छं आराहणासारं ॥१॥ विमलतरगुणसमृद्धं सिद्धं सुरसेनवंदितं शिरसा । नत्वा महावीरं वक्ष्ये आराधनासारम् ॥ १ ॥ वक्ष्ये । कोसौ। अहं देवसेनाचार्यः । कं । आराहणासारं आराधनासारं मुमुक्षुभिराराध्यते या सा आराधना आराधनायाः सारः आराधनासारः तं आराधनासारं सम्यग्दर्शनादिचतुष्टयरूपेण सारीभूतं । किं कृत्वा । णमिऊण नत्वा नमस्कृत्य । कं। सिद्धं सिद्धं केवलज्ञानाद्यनंतगुणप्रादुर्भावलक्षणं परमात्मानं । किंविशिष्टं । विमलयरगुणसामद्धं निर्मलतरशुद्धचैतन्यगुणसंपूर्ण । पुनः किंविशिष्टं । सुरसेणवंदियं सुरसेनवंदितं सौधर्मेन्द्रप्रमुखचतुर्णिकायामरानीकनमस्कृतं । पुनरपि किंविशिष्टं । महावीर अन्येषामप्याराधकपुरुषाणां ध्यानरंणरंगभूमावनादिलग्नकर्माष्टकविपक्षचक्रविनाशनैकसुभटं । केन । सिरसा मस्तकेन । यदि च महावीरमिति विशेष्यपदपक्षं कक्षीकृत्य व्याख्यायते तदा । नत्वा । कं । महावीरं, ई इति चतुर्थस्वररूपमेकाक्षराभिधानं प्रसिद्धं लक्ष्मीनामा ' रा ला इति धातुद्वयं, आदाने ग्रहणे इत्यस्मिन्नर्थे वर्तते । विशिष्टां बाह्यचतुस्त्रिंशदतिशयप्रादुर्भूति Page #8 -------------------------------------------------------------------------- ________________ टीकासाहतः। विराजमानसमवशरणपरमविभूत्यभ्यंतरसहजवस्तुस्वभावीभूतानंतचतुष्टयव्यक्तिलक्षणामी लक्ष्मी रात्यादत्ते गृह्णातीति वीरः, महांश्चासौ वीरश्च महावीरस्तं महावीरं चरमतीर्थकरपरमदेवं अर्हद्भट्टारकं श्रीवर्धमानस्वामिनामानं । किंविशिष्टं । विमलतरगुणसमृद्धं प्रसिद्धघातिकचतुष्टयरूपसंतमसविनाशप्रादुर्भूतयुगपत्प्रतापप्रकाशाभिव्यक्तिसूर्योदयदृष्टांतास्पदीभूतातीतानागतवर्तमानत्रिकालगोचरोत्पादव्ययध्रौव्यलक्ष्मत्रितयालिंगितत्रिभुवनोदरविवरवर्तिशुद्धचैतन्यविलासप्रवर्तमानपरमात्मपदार्थादिसमस्तवस्तुस्वभावबोभूयमानकालकलानिदर्शनाश्लिष्टैकसमयग्रहणसमर्थसामान्यविशेषरूपवर्तमाननिर्मलतरज्ञानदर्शनाभिधानसर्वज्ञगुणसंपूर्ण । पुनः किंविशिष्टं । सिद्धं प्रसिद्धं । पुनरपि किंविशिष्टं । सुरसेनवंदितं गर्भादिमहाकल्याणमहोत्सवेषु पितृभ्यां सह सकलगीर्वाणचक्रनमस्कृतं । केन । शिरसा मस्तकेनेति योजनिकाद्वारः । विमलतरगुणसमृद्धं सुरसेन वंदितं महावीरं सिद्धं, पक्षे विमलतरगुणसमृद्धं सिद्धं सुरसेनवंदितं महावीरं शिरसा नत्वा आराधनासारमहं वक्ष्य इति संक्षेपान्वयद्वारः। सुरसेनवंदितमित्यत्र सिद्धविशेषणपदे अभिधानसामर्थ्यात् केचन छायार्था अपि निष्पाद्यते । कथं । सुराणां देवानां ग्रहणेन यद्यप्यूज़लोकस्वामित्वमालिनः पंचविधाः ज्योतिष्काः, सौधर्मेन्द्रप्रमुखाः कल्पवासिनो भावनां कुर्वाणाः कल्पातीता अपि, अधोलोकस्वामित्वमालिनो भवनवासिदेवनिकायत्वाद्धरणेंद्रप्रमुखाश्च केचन व्यंतराधिपतयोऽपि, तथा व्यंतरास्तिर्यग्लोकनिवासिनोपि सर्वे त्रिभुवनोदरविवरवर्तिनो देवा गृह्यते मध्यलोकस्वामित्वमालिनः चक्रवर्तिप्रमुखा नराः, तिरश्चां स्वामित्वमाली सिंहः तन्मुखा अन्येपि पशवो गृहीताः। " भवणालय चालीसा वितरदेवाण हुंति बत्तीसा । कप्पामर चउवीसा चंदो सूरो णरो तिरिओ" इति गाथा कथितशतेन्द्रवंदितत्यं । कथं भविष्यति । अयमप्यर्थोऽत्रैवांतर्भवतीति । कथं । रसा पृथ्वी पूर्वोपार्जितविशिष्टपततमागण्य Page #9 -------------------------------------------------------------------------- ________________ आराधनासारः पुण्यकर्मोदयाश्लिष्टनायकप्रतापा जनधनधान्यकनकसमृद्धत्वाच्छोमनविशेषणयुक्ता शोभनरसा सुरसा तस्या इनः स्वामी सुरसेनः, अथवा सर्वराजाधिराजमहाराजमंडलेश्वरमुकुटबद्धमूर्द्धभूतत्वात् शोभनो रसेनः सुरसेनः सुरसेनेन चक्रवर्तिना वंदितं । सिंहपक्षेप्ययमेवार्थः । कथं । शोभना पुष्पितफलितशावलितवनराजिमंडिता वनभूमिरिति सुरसा तस्या इनः सकलवनेचरमृगवृंदनायकत्वात्स्वामी सुरसेनः सिंहस्तेन वंदितं. सुरसेनवंदितमिति समर्थनतया मानवेंद्रतिर्यगिंद्रग्रहणसमर्थ इत्येकश्छायार्थः ॥ अनेन कायवाग्भ्यां द्रव्यनमस्कारः सूचितो, भावनमस्कारः कथं घटिष्यते । वाचा अर्हत्सिद्धप्रमुखपरमेष्ठिस्वरूपशुद्धपरमात्मद्रव्यवस्तुस्तवगुणस्तवनगंभीरोदारार्थविराजमानसकलेशब्रह्मबीजभूतनानास्तोत्ररूपः । कायेन । पंचांगनत्या प्रणमनरूपो द्रव्यनमस्कारः । इति द्रव्यनमस्कारलक्षणं। त्रिगुप्तिगुप्तमुनिनायकेनारभ्यमाणो दुःकर्मोदयसंपादितनानासंकल्पविकल्पजालेप्याधिविरहितस्य शुद्धपरमात्मनः सकलचराचरमिदं जगत्सुप्तं लोष्टनिष्पन्नं वेति प्रतिभासकारणेन निर्विकल्पसमाधिनानुभवनं भावनमस्कार इति भावनमस्कारलक्षणं । द्रव्यनमस्कारसूचितो भावनमस्कारः कथं घाटष्यते इत्यशंका भवतां चेतसि वर्तते तदुत्तरं शृण्वंतु भवंतः। रसा शंगारादयो लोके प्रसिद्धास्तेषां मध्ये चरमः शांतरसः अनादिकालप्रज्वलितपंचप्रकारसंसारदुःखमहादावानलविध्यापनसमर्थत्वात् परमानंदोत्पादकत्वाच्च शोभनविशेषणविशिष्टो भवति । ततः संसारशरीरभोगेषु परमानर्वेदमापन्नैः परमयोगीश्वरैः सुरसेन सकलाध्यात्मकलाविलासास्पदीभूतेन शांतरसेन निर्विकल्पसमाधिना वंदितमनुभूतं सुरसेनवंदितं । वंदितमनुभूतमित्येतस्मिनर्थे कथमिति चेत् । सत्यं । वदि आभिवादनस्तुत्योः,वदि इत्ययं धातुरभिवादने नमस्कारे स्तुतौ स्तवने चेत्यर्थद्वये वर्तते । स्तुतिस्तु वचसा मनसा च कृत्वा द्विविधा । यत्र केवलेन वस्तुतत्त्वैकनिष्ठेन मनसा योगेन स्तुतिविधीयते तत्र तस्या अनुभूतिपर्यायः केन निषिध्यते ततो वदितमनुभूतमित्यर्थः कथं न Page #10 -------------------------------------------------------------------------- ________________ टीकासहितः। घटते । समाध्यवस्थास्वीकृतशांतरसेन मनसानुभूतामति ताडितार्थः । तथा च द्वितीयपक्षे रसशब्दः स्वादोपि वर्तते । ये किल पंचेंद्रियविषयामिषस्वादास्ते जीवस्य जलौकाजंतुविशेषस्य दुष्टरुधिरपानवदतृप्तिजनकत्वाच्च न शोभनाः। अयं तु वीतरागनिर्विकल्पसमाधिनानुभत्यमानः स्वस्वभावोत्थः परमातींद्रियसुखरसास्वादः संसारतृष्णास्फेटकत्वाद्वैरस्याभावात् प्रतिसमय साररसस्य संपादकत्वाच्च विशेषतः शोभनविशेषणेन विशेष्यते । ततः सुरसेन निर्विकल्पसमाधिजन्यमानपरमानंदातींद्रियसुखस्वादेन वंदितमनुभूतमित्यर्थद्वयाश्लिष्टभावनमस्कारप्रतिपादको द्वितीयश्छायार्थः ॥ तृतीयपक्षे सुरसेण वंदियमित्येकविभक्त्यंतस्य खंडनत्रयं विभज्य व्याख्या विधीयते कथं । सुरसेणवंदियं सुरसे णवं दियं सुरसे नवं द्विजमिति । कथंभूतं सिद्धं । द्विजं द्विजमिव द्विजं ब्राह्मणं । क । सुरसे स्वस्वभावामृतजले । रसशब्दो जलेप्यस्ति जलं तु स्नानपानशौचकारणं स्यात् । ततः सिद्धात्मनां स्नानपानशौचकारणगुणोपचारात् स्वस्वभावोत्थममृतजलं शोभनविशेषणविशिष्टमभिधीयते तस्मिन्,नान्यास्मन् लौकिकक्षीरसागरगंगादितीर्थसमुद्भूते। ब्राह्मणा हि स्नानाचमनशौचपरायणा गंगादिमहातीर्थजलेषु निलीना भवंति । ततः सिद्धात्मनां सर्वकालस्वस्वभावामृतजलनिलीनानां ब्राह्मणोपचाररूपकालंकारविशेषणमास्मिन् व्याख्याने न दोषाय । पुनः किंविशिष्टं । नवं प्रतिसमयस्वभावोत्थानंतगुणानामनुभवनमुख्यतया नवमिति यावत् । अथवा अनवं न नवः अनवस्तं अनवं द्रव्यस्वभावापेक्षया पुरातनमनादिकालीनमित्यर्थः । तथा चास्मिन्नेव पदखंडनत्रये अन्यापि व्याख्या भवति, शोभनो रसो जलं पानीयं विद्यते यस्मिन्निति सुरसो मानससरोवरः यतो लोके किलैषा सिद्धिः। " अस्ति यद्यपि सर्वत्र नीरं नीरजमंडितं । रमते न मरालस्य मानसं मानसं विना ॥" इति सुभाषितत्वात् । ततः सर्वेषु जलाशयेषु मानससरोवर एव Page #11 -------------------------------------------------------------------------- ________________ ६ सुरस इत्याख्यायते । अत्र तु स्वस्वभावोत्थपरमामृतरसपूरपरिपूर्णत्वात् सुरसो मोक्षाभिधानमानससरोवरो गृह्यते । किंविशिष्टं सिद्धं । द्विजं पक्षित्वात् द्विजग्रहणेन सामान्यत्वात्सर्वे पक्षिणां गृह्येते । कुतः । हंसविशेषग्रहणविशेषणसामर्थ्येन । किंविशिष्टं द्विजं । अनवं पुरातनं पुरातनशब्दस्तु ज्येष्ठगरिष्ठोत्तमप्रधानार्थेषु प्रवर्तते । ततोऽनवमिति विशेषणेन सकलपक्षिज्येष्ठत्वाद्गरिष्ठत्वादुत्तमत्वात्प्रधानत्वाच्च द्विजो हंस एव लभ्यते । क । सुरसे । मोक्षमानससरोवरे । यथा मानससरोवरे हंसास्तिष्ठति तथा मोक्षमानससरोवरे सिद्धहंसास्तिष्ठति इत्यभिप्रायः । इति पदखंडनत्रयसमुद्भूतार्थइयगर्भस्तृतीयश्छायार्थः । तथा च चतुर्थपक्षे रसशब्देन वीर्य ततः सुष्टु अतिशयवान् कर्मारिचक्रशातनत्वात् रसो वीर्य बलं यस्य स सुरसः अर्थसामर्थ्यान्मुनिसमुदयः तस्यैव तत्र प्रधानत्वात् नान्ये रणशूरा सुभटाः रौद्रध्यानाधीनतया नारकगतिसाधकत्वात्, सुरसेन मुनिसमुदायेन वंदितं निर्विकल्पसमाधिनानुभूतं सुरसेन वंदितमिति चतुर्थश्छायार्थः ॥ पंचमे पक्षे रसशब्द रागेपि वर्तते । शोभनः संवेगास्तिक्यानुकंपादिगुणविशिष्टलक्षणो रसो रागो यस्य स सुरसः अर्थाच्चतुर्थगुणस्थानादिवर्ती सरागसम्यग्दृष्टिजीववृंदं तस्यैव तत्र प्रवर्तनत्वात् । न तु संसारसमुद्रसंपातकारणस्रक्चंदनवनितादिविषयसुखरागरसलंपटो महामिथ्यात्वाविष्टो जंतूत्कर: किंतु स कुरस एव अनंतभवभ्रांतिसाधकत्वात् तेन सुरसेणं वंदितं नमस्कृतं स्तुतमनुभूतं सुरसेन वंदितं यतः सरागसम्यग्दृष्टयो जीवा संवेगास्तिक्यपरमानुकंपादानपूजाषडावश्यक क्रियामूलोत्तरगुणपरायणाः शास्त्रे व्यावर्णिताः । वीतरागसम्यग्दृष्टयस्तु प्रतिगुणस्थानमनंतगुणविशुद्धितोयप्रक्षालितपरिणामत्वात् केवलेन सकलक्रियाकांडगर्भेण निविकल्पसमाधिना परमात्मानमनुभवति । एवं सरागवीतरागयोः सम्यग्दृशो आराधनासारः दो भवतीत्यभिप्रायः इति पंचमश्छायार्थः ॥ तथा च षष्ठे पक्षे सुरसेण वंदियमित्यस्य पदत्रयं विधायार्थं समर्थ्यते : सुरसेण वं दियं, रसशब्देन विषं Page #12 -------------------------------------------------------------------------- ________________ टीकासहितः। "विषः क्ष्वेडो रसस्तीक्ष्यमिति" विश्वः । ततोऽनंतानंतजन्ममहामूर्छाबीजत्वप्राणापहारकत्वात् सुष्टु अतिशयवान् योऽसौ रसो विषः स सुरसः सुविषः व्युत्पत्त्या कर्मैव नतु हालाहलादिः तस्य एकजन्मन एव प्राणापहारकत्वात् । ततः कथंभूतं सिद्धं । तेन सुरसेन कर्मणा दितं खंडितं ' दो अवखंडने' वियोजितमिति यावत् । यथा किल खंडितः पदार्थः उभयापेक्षया वियोजितः स्यात् तथा चायं सिद्धः कर्मणा वियोजितः पृथग्मूत इत्यर्थः । पुनः किं विशिष्टं । वं पश्चिमदिगीशं "वः पश्चिमदिगीशे स्यादित्यभिधानात्" । पश्चिमदिगीशमित्युक्ते कोर्थो लभ्यते । पश्चिमश्चासौ दिक् पश्चिमदिक तस्या ईशः स्वामी । इह दिकशब्दो गत्यर्थे गृह्यते यतो जीवस्य सर्वाभ्यो गतिभ्यः पश्चिमा चरमा गतिमुक्तिर्भवति ततः पश्चिमदिगीशं मुक्तिस्वामिनमित्यभिप्रायः इति षष्ठश्छायार्थः । सप्तमेपि पक्षे रसशब्दो देहधातुषु वर्तते अत्राप्युपरितनपदखंडनत्रयं विगृह्य व्याख्या विधीयते । सुष्टु अतिशयेन रसा असृझज्जामेदोस्थिप्रमुखाः शरीरधातवो यस्मिन् स सुरसः शरीरमेव । किंविशिष्टं सिद्धं । दितं खंडितं हितं वियोजतमिति यावत् । केन । सुरसेन शरीरेण । पुनः किंविशिष्टं । वं पश्चिमदिगीशं मुक्तीशमिति सप्तमश्छायार्थः । अष्टमेपि पक्षे रसशब्दो बोले वर्तते बोलशब्दस्तुगंधरसे प्राणार्थेपि वर्तते “बोलो गंधरसे प्राणे इत्यभिधानात्" इह तु प्रयोजनवशात् प्राणार्थ गृह्यते, सुष्ठु अतिशयवता रसेन बोलेन पंचेंद्रियादिदशप्राणसमुदायेन दितं खंडितं वियोजितमिति वमिति पूर्वोक्तमेवेत्यष्टमश्छायार्थः ॥नवमे पक्षे रसशब्दस्तिक्तादौ वर्तते तिक्ताम्लमधुरकटुकषायरसनेंद्रियविषयाः सर्वजनप्रसिद्धाः। तिक्तादिरित्युपलक्षणं रूपादीनां ग्राहकत्वात् शोभनस्तिक्तादिरसोपलक्षणः स्पर्शरसगंधवर्णशब्दसमुदयः सुरसः सुरसेन तिक्तादिरसोपलक्षणेन स्पर्शरसगंधवर्णशब्दसमुदायेन दितं खंडित रहितं वियोजितमिति यावत् । उक्तं च परमात्मप्रकाशे " जासु ण वण्णु ण गंधु रसु जासु ण सद्दु ण फासु । जासु ण जम्मणु मरणु णवि णामु णिरंजणु तासु ॥" Page #13 -------------------------------------------------------------------------- ________________ आराधनासारः __इति। पुनः किं विशिष्टं । वमिति पूर्वोक्तमिति नवमश्छायार्थः ॥ दशमे पक्षे रसशब्दो वेपि वर्तते सुष्टु द्रवति शुद्धगुणपर्यायान् परिणमतीति सुद्रवः सुद्रवेण शुद्धद्रव्यगुणपर्यायपरिणमनशीलेन वंदितमभिनंदितं समृद्धमिति यावत् । धातूनामनेकार्थत्वात्, धातवो हि गजेन्द्रलक्षणाः स्वच्छंदचारित्वात् अनेकार्थविंध्याचलवनं पर्यटंतीति दशमश्छायार्थः ॥ तथैकादशेपि पक्षे रसशब्दः पारदेपि वर्तते पारदस्य वस्तुविशेष विमुच्य निरुक्तिवशादर्थातरं गृह्यते, नामानि हि समस्याप्रहेलिकाछलादिकौतुकप्रयोजनेन बलादर्थातरेण नीयंते न दोषाय । सुष्टु अतिशयेनाजवंजवसागरं पारं ददातीति पारदः स्वपरोद्धरणशीलः पंचाचारविराजमान आचार्यसमुदायः सुपारदः सुरसस्तेन वंदितमभिनंदितमित्येकादशश्छायार्थः । “जले वीर्ये विषे रागे तिक्तादौ देहधातुषु । द्रवे त्रिनेत्रवीर्ये च रसशब्दः प्रकीर्तितः" इत्यनेकार्थः । द्वादशे पक्षे ग्रंथकारेण श्रीसुरसेनाचार्येण निजनाम सूचितमिति प्रसिद्धं। आगमार्थो हि प्रसिद्ध एव यत एवं गुणविशिष्टाः सिद्धा भवत्येव । मताथस्तु सकलमतनिराकरणशीलो विशेषणद्वारेण विजयते। यद्यपि परमतेषु मिथ्यादृष्टिसुरसमुदायनमस्कृताः किंचिञ्चमत्कारमात्रपराक्रमेण महावीराः अंजनगुटिकादिसिद्धाः प्रसिद्धा न ते विमलतरगुणसमृद्धमंडिताः ततो विमलतरगुणसमृद्धमिति विशेषणं स्वमतोपात्तसिद्धलक्षणविजयेन परमतोपात्तपराजयेन निःशंकं प्रद्योतते । भावार्थश्चायं, यो यद्गुणार्थी भवति स तद्गुणविशिष्टपुरुषविशेष नमस्कुरुते अयं तु स्वामी श्रीसुरसेनाचार्यः मुमुक्षुरन्यांश्च मुमुक्षून् मोक्षमार्ग नेता चतुर्विधाराधनासारफलप्राप्तं सिद्धपरमात्मानं नमस्कृत्य ग्रंथारंभे प्रवर्तते । अनेन द्वारेण प्रोक्तार्थसमुदायः स्वावसरे स्वावसरे सर्वत्र ज्ञातव्यः । गाथा छंदः । गाथापादत्रयेण स्वेष्टदेवतानमस्कारप्रतिपादनेन चरमपादेनाराधनासारं वक्ष्येऽहमिति प्रतिज्ञाकरणे प्रथमगाथासूत्रं गतं ॥१॥ अथ निर्दिष्टाराधनासारस्य गाथापूर्वार्धेन लक्षणमपरार्धेन तद्विभागं च दर्शयति; Page #14 -------------------------------------------------------------------------- ________________ टीकासाहतः। आराहणाइसारो तवदंसणणाणचरणसमवाओ। सो दुब्भेओ उत्तो ववहारो चेव परमठो ॥२॥ आराधनादिसारस्तपोदर्शनज्ञानचरणसमवायः । स द्विभेद उक्तो व्यवहारश्चैव परमार्थः ॥ २ ॥ भवतीति क्रियापदमध्याहृत्य व्याख्या विधीयते । भवति । कोसौ । आराहणाइसारो आराधनादिसारः आदिपदग्रहणस्य गाथाछंदसः प्रथमपादस्य द्वादशमात्रापूरणार्थमेव प्रयोजनं नान्यत् । यथा दशादिरथः दशपूर्वकंधरः भीमादिसेन इत्यादिप्रयोगात् छंदःपूरणार्थ कवयः प्रयुंजते न दोषाय । आराधनेति पदमादौ यस्य सारस्य असौ आराधनासारः इति लक्ष्यनिर्देशः कृतः । किंलक्षणः। तवदसणणाणचरणसमवाओ तपोदर्शनज्ञानचरणसमवायः । आदौ तपोग्रहणमपि छंदःपूरणाय तपश्च दर्शनं च ज्ञानंच चरणं च तपोदर्शनज्ञानचरणानि एतेषां समवायः समुदायस्तपोदर्शनज्ञानचरणसमवायः तपोदर्शनज्ञानचरणान्येतानि चत्वार्यपि आस्मिन्नेवाराधनासारे समवेताज्ञवकासमतिजातानि(?)ततस्तपोदर्शनज्ञानचरणसमवाय इति सम्यग्लक्षणमाराधनासारस्य भवति। अथायमभेदः सभेदो वेत्याशंकायां विभागं सूचयति । उत्तो उक्तः । कोऽसौ यः । स आराधनासारः । कतिभेदः । दुब्भेओ द्विभेदः द्वौ भेदौ यस्यासौ विभेदः । को तावित्याह । ववहारो एको व्यवहारः परमहो एकश्च परमार्थः व्यवहाराराधनासारः परमार्थाराधनासार इत्यर्थः इति योजनिकाद्वारः ( तपोदर्शनज्ञानचरणसमवाय आराधनासारो भवति स व्यवहारः परमार्थश्चैवेति द्विभेद उक्तः इति संक्षेपान्वयद्वारः इत्याराधनासारलक्षणविभागप्रतिपादकं द्वितीयं गाथासूत्रं गतं ॥ २ ॥ अथादावुद्दिष्टस्य प्रथमभेदस्य व्यवहाराराधनासारस्य लक्षणं सविभागं प्रतिपादयति; Page #15 -------------------------------------------------------------------------- ________________ १० आराधनासारः ववहारेण य सारो भणिओ आराहणाचउक्कस्स । दंसणणाणचरितं तवो य जिणभासियं णूणं ॥ ३ ॥ व्यवहारेण च सारो भणित आराधनाचतुष्कस्य । दर्शनज्ञानचरित्रं तपश्च जिनभाषितं नूनम् ॥ ३ ॥ भणिओ भणितः प्रोक्तः । कोऽसौ । सारो सारः रहस्यो धारः । कस्य आराहणाचउक्कस्स आराधनाचतुष्कस्य । केन । ववहारेण व्यवहारेण व्यवहरणं व्यवहारः यथोक्तक्रियाचारस्तेन चकारोन्नुक्तसमुच्चयार्थः तेन परमात्माध्यानावस्थायां निश्वयेन च । यदुक्तं " ज्ञानदर्शनचारित्रतपोभिर्जिनभाषितैः । आराधनाचतुष्कस्य व्यवहारेण सारता " ॥ तैरेव परमब्रह्म ध्यानात्तन्मयतां गतैः आराधनाचतुष्कस्य निश्चयेन च सारता । किं तत् आराधनाचतुष्कं । दंसणणाणचरित्तं दर्शनज्ञानचारित्रं न केवलं दर्शनज्ञानचारित्रं । तपश्च । किंविशिष्टं । जिणभासियं जिनभाषितं जिनेन वीतरागेन सर्वज्ञेन भाषितं प्रतिपादितं जिनभाषितं अत एव नूनं निश्चितं । यदेव हि जिनोक्तं तदेव नूनं जितरागादिद्वेषत्वात् । यदुक्तं - रागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते ह्यनृतं । नैते दोषास्तस्यानृतकरणं नास्ति " ॥ (6 यस्य तु ततो जिनभाषितान्येव दर्शनज्ञानचारित्रतपांस्युपादेयानि सम्यग्दर्शनं सम्यग्ज्ञानं सम्यक् चारित्रं सम्यक् तपश्वेत्यस्य चतुष्कस्य यदाराधना उपासना विधीयते तदाराधनाचतुष्कं । अत्र प्रवृत्तिर्व्यवहाराराधनासारो भवतीति रहस्यामिति योजनिकाद्वारः । आराधनाचतुष्कस्य व्यवहारेण सारो भणित: नूनं जिनभाषितं दर्शनज्ञानचारित्रं तपश्चेति चतुष्कं भवतीति विशेष इति संक्षेपान्वयद्वारः ॥ इति व्यवहाराराधनासारलक्षणप्रतिपादनेन तृतीयं गाथासूत्रं गतं ॥ ३ ॥ Page #16 -------------------------------------------------------------------------- ________________ टीकासहितः। ११ अथ व्यवहाराराधनासारसामान्यलक्षणं प्रतिपाद्य तस्य प्रथमभेदस्य सम्यग्दर्शनाराधनाया लक्षणं प्रतिपादयति; भावाणं सद्दहणं कीरइ जं सुत्तउत्तजुत्तीहि । आराहणा हु भणिया सम्मत्ते सा मुर्णिदेहिं ॥४॥ भावानां श्रद्धानं क्रियते यत्सूत्रोक्तयुक्तिभिः । आराधना हि भणिता सम्यक्त्वे सा मुनींद्रैः ॥ ४ ॥ भणिया भाणता । काऽसौ । सा आराहणा आराधना । कथं । हु खलु, हुशब्दः खल्वर्थे प्राकृतत्वात् । कैः । मुणिंदोहं मुनींद्रैः । क। सम्मत्ते सम्यक्त्वे । सेति का । कीरइ क्रियते । किं तत् । यत् । यदिति किं । सद्दहणं श्रद्धानं विश्वासो रुचिः प्रतीतिरिति यावत् । केषां । भावाणं भावानां जीवादिपदार्थानां । काभिः करणताभिः। सुत्तउत्तजुत्तीहिं सूत्रोक्तयुक्तिभिः सूत्रे परमागमे उक्ता या युक्तयः सूत्रोक्तयुक्तयस्ताभिः सूत्रोक्तयुक्तिभिरिति योजनिकाद्वारः । सूत्रोक्तयुक्तिभिर्यद्भावानां श्रद्धानं क्रियते सम्यक्त्वे सा आराधना मुनींद्रणिता खलु इति संक्षेपान्वयद्वारः । तथाहिद्रव्यगुणपर्याया एतेषु भवतीति भावा जीवादयो नव पदार्था भवंति । एतेषां किंचिनिर्देशः क्रियते । तत्र चेतनालक्षणो जीवः तद्विलक्षणः पुद्गलधर्माधर्माकाशकालस्वरूपपंचविधोऽजीवः, योगद्वारेण कर्मागमनमास्रवः, जीवकर्मणोरन्योन्यप्रदेशप्रवेशात्मको बंधः, आस्रवनिरोधः संवरः, कर्मणामकदेशगलनं निर्जरा, बंधहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षो मोक्षः, शुभायुर्नामगोत्राणि पुण्यं, अतोन्यत्पापं । अमी नव पदार्थसंज्ञां लभंते । उक्तस्य पंचविधस्याजीवस्य निर्देशो विधीयते । तत्र स्पर्शरसगंधवर्णवंतः पुद्गलाः, जीवपुद्गलानां गतेः सहकारिकारणं धर्मः, स्थानयुक्तानां स्थितेः सहकारिकारणमधर्मः, सर्वद्रव्याणामवकाशदानदायकमाकाशं, वर्तनालक्षणः कालः । अमी कालेन विना जीवेन सह पंचास्ति Page #17 -------------------------------------------------------------------------- ________________ आराधनासारः कायसंज्ञां लभते । पुण्यपापाभ्यां विना नव पदार्थाः सप्त तत्त्वसंज्ञां लभते । एतेषां सप्रपंचविशेषाः परमागमतो विज्ञेया अत्र तु नोच्यते ग्रंथगौरवमयात् बहुषु ग्रंथेषु प्रोक्तत्वाच्च । अमी यथा जिनेंद्रेण प्रतिपादितास्तथैव सम्यक्त्वलिंगिता भवंति नान्यथेति विश्वासः प्रतीतिः रुचिः श्रद्धानं भण्यते । तच्च तन्निसर्गादधिगमावति वचनात्कारणद्वयमद्भवति । जीवस्य अनादिकालकर्मपटलाष्टकमात्मानं मिथ्यात्वं वापि न परित्यजति । तद्विविधं अगृहीतगृहीतभेदात् । प्रथमं तावत्सकलस्य जीवराशेर्भवति तदुदयेन तत्त्वातत्त्वश्रद्धानं किमपि न भवति । तत्र सम्यग्वि. परीततत्त्वश्रद्धानयोयोरप्यनवकाशत्वात् । द्वितीयं तु विशिष्टपंचेद्रियजीवराशेर्भवति तदुदयेन जीवो विपरीतं तत्त्वं श्रद्धत्ते न सम्यक् । यदा तुलब्धकालादिलब्धिको भवति जीवस्तदा निसर्गाधिगमाख्यकारणद्वयं प्रामोति । निसर्गः स्वभावः आचार्यादीनां धर्मोपदेशविशिष्टोपायः अधिगमः । निसर्गेणापि पूर्वमधिगमेन भूत्वा भाव्यं अन्यस्मिन् जन्मनि भावितयोगत्वात् । ततः अधिगम एव सम्यक्त्वोत्पत्तिनिमित्तं प्रधानं निसर्गे अधिगमे वा सत्यपि जीव औपशमिकं क्षायोपशमिकं क्षायिकं चेति कारणत्रयं समाश्रित्य तत्त्वश्रद्धानं विधत्ते । अथैतेषां औपशमिकादीनां यथानुक्रमेण लक्षणमाह । लक्षणं द्विविधं सामान्यविशेषभेदात् । एकव्याक्तिनिष्ठं सामान्य अनेकव्यक्तिनिष्ठो विशेषः । तत्र तावत्सामान्यलक्षणमुच्यते । आत्मान कर्मणः स्वशक्तेः कारणवशादनुद्भूतिरुपशमः कतकादिद्रव्यसंबंधादंभसि पंकस्यानुभूतिवत् । आत्यंतिकी निवृत्तिः क्षयः तस्मिन्नेवांभसि शुचिभाजनांतरसंक्रांते पंकस्यात्यंताभाववत् । उभयात्मको मिश्र तस्मिन्नेवांभसि कतकादिद्रव्यसंबंधात् पंकस्य क्षीणाक्षीणवृत्तिवत् । उपशमः प्रयोजनमस्येत्यौपशमिक, क्षयः प्रयोजनमस्येति क्षायिकं, क्षयोपशमः प्रयोजनमस्यति क्षायोपशमिकं । मोहनीयकर्मणः अनंतानुबंधिचतुष्टयं मिथ्यात्वत्रयं चेति सप्तानां प्रकृतीनामुपशमादौपशमिकं सम्यक्त्वं भवति । तत्कथं भवतीति Page #18 -------------------------------------------------------------------------- ________________ टीकासहितः । १३ चेत् । अनादिमिथ्यादृष्टेर्भव्यस्य कर्मोदयापादितकालुष्ये सति । कुतस्तदुपशमः । काललब्ध्यादिनिमित्तवान् । तत्र काललब्धिस्तावत् कर्माविष्ट आत्मभव्यः काले अर्धपुद्गलपरिवर्तना ख्येऽवशिष्टे प्रथमसम्यक्त्वग्रहणस्य योग्यो भवति नाधिके इति । इयमेका काललब्धिः । अपरा काललब्धिः कर्मस्थितिक उत्कृष्टस्थितिकेषु कर्मसु जघन्यस्थितिकेषु प्रथमसम्यक्त्वलाभो न भवति । क्व तर्हि भवति । अंतः कोटाकोटीसागरोपमस्थितिकेषु कर्मसु बंधमापयमानेषु विशुद्धपरिणामवशात् सत्कर्मसु च ततः संख्येयसागरोपमसहस्रोनायामतः कोटीकोटी सागरोपमस्थितौ स्थापितेषु प्रथमसम्यक्त्वयोग्यो भवति । अपरा काललब्धिर्भवापेक्षया, भव्यः पंचेंद्रियः संज्ञी पर्याप्तः सर्वविशुद्धः प्रथमसम्यक्त्वमुत्पादयति | आदिशब्देन जातिस्मरणादि परिगृह्यते, इत्यौपशमिकसम्यक्त्वलक्षणं पूर्णं । अनंतानुबंधिचतुष्कस्य मिथ्यात्वसम्यक्त्वमिथ्यात्वयोश्वोदयक्षयात्तेषामेव सदवस्थारूपोपशमाञ्च सम्यक्त्वस्यैकदेशघातिन उदयात् क्षायोपशमिकं चेति सम्यक्त्वं । तासां पूर्वोक्तानां सप्तानां प्रकृतीनामत्यंतक्षयात् क्षायिकं सम्यक्त्वं । सम्यक्त्वलक्षणं व्याकृत्य कस्यां तो कति सम्यक्त्वानि भवंति इति सूच्यते । तत्र नरकगतौ सर्वासु पृथिवीषु नारकाणां पर्याप्तकानां क्षायिकं क्षायोपशमिकं चेति सम्यक्त्वद्वयं भवति । प्रथमायां पुनः पर्याप्ता पर्याप्तकानां क्षायिकं क्षायोपशमिकं चेति द्वयं भवतिः तिर्यग्गतौ तिरश्वां पर्याप्तकानामौपशमिकमस्ति तेषां पर्याप्तापर्याप्तकानां तु क्षायिकं क्षायोपशमिकं चेति द्वितयमस्ति तिरश्चीनां क्षायिकं नास्ति औपशमिकं क्षायोपशमिकं च पर्याप्तकानामेव नापर्याप्तकानां । एवं मनुष्यगतौ मनुष्याणां पर्याप्तापर्याप्तकानां क्षायिकं क्षायोपशमिकं चास्ति औपशमिकं पर्याप्तकानामेव नापर्याप्तकानां, मानुषीणां तु त्रितयमप्यस्ति पर्याप्तकानामेव नापर्याप्तकानां क्षायिकं पुनर्भाववेदेनैव । देवगतौ देवानां पर्याप्तापर्याप्तकानां त्रितयमप्यस्ति औपशमिकमपर्याप्तकानां । कथमितिचेत् । चारित्रमोहोपशमेन सहभूतान् प्रति भवनवासिव्यंतरज्योतिष्काणां देवानां देवीनां च 1 Page #19 -------------------------------------------------------------------------- ________________ १४ आराधनासारः सौधर्मशानकल्पवासिनीनां च क्षायिकं नास्ति तेषां पर्याप्तकानामौपशमिकं क्षायोपशमिकं चास्ति । अस्य साधनमपि कथ्यते । साधनं द्विविधमाभ्यंतरं बाह्यं च । आभ्यंतरं दर्शनमोहस्योपशमः क्षयःक्षयोपशमो वा । बाह्यं नारकाणां प्राक् चतुर्थ्याः सम्यग्दर्शनस्य साधनं केषांचिज्जातिस्मरणं केषांचिद्धर्मश्रवणं केषांचिद्वेदनाभिभवः, चतुर्थीमारभ्य आसप्तम्या नारकाणां जातिस्मरणं वेदनाभिभवश्च । तिरश्चां केषांचिज्जातिस्मरणं केषांचिद्धर्मश्रवणं केषांचिज्जिनविंबदर्शनं । मनुष्याणामपि तथैव । देवानामपि केषांचिज्जातिस्मरणं केषांचिद्धर्मश्रवणं केषांचिन्जिनमहिमदर्शनं केषांचिद्देवर्धिदर्शनं । एवं प्रागानतात् । आनतप्राणतारणाच्युतदेवानां देवर्धिदर्शनं मुक्त्वा अन्यत्रितयमप्यस्ति । नवौवेयकवासिनां केषांचिजातिस्मरणं केषांचिद्धर्मश्रवण । अनुदिशानुत्तरविमानवासिनामियं कल्पना न भवति प्रागेव गृहीतसम्यक्त्वानां तत्रोत्पत्तेः । अस्याधिकरणमपि कथ्यते ! अधिकरणं द्विविधं आभ्यंतरं बाह्यं च । आभ्यंतरं स्वामिसंबंधार्ह एवात्मा 'विवक्षातः कारकप्रवृत्तेः' बाह्यं लोकनाडी। सा कियती । एकरज्जुविष्कंभा चतुर्दशरज्ज्वायामा । स्थितिरप्यस्य कथ्यते । औपशमिकस्य जघन्योत्कृष्टा चांतहूिर्तिकी । क्षायिकस्य संसारिणः जघन्यांतर्मोहूर्तिकी उत्कृष्टा त्रयस्त्रिंशत्सागरोपमाणि सांतर्मुहूर्ताष्टवर्षहीनपूर्वकोटद्वियाधिकानि । मुक्तस्य सादिरप्यपर्यव. साना । क्षायोपशमिकस्य जघन्यांतमौहूर्तिकी उत्कृष्टा षट्षष्ठिसागरोपमाणि ॥ विधानमप्यस्य । विधानं सामान्यादकं सम्यग्दर्शनं द्वितयं निसर्गजाधिगमजभेदात् । त्रितयं औपशमिकक्षायिकक्षायोपशमिकभेदादेवं संख्येया विकल्पा असंख्येया अनंताश्च भवंति श्रद्धातृश्रद्धातव्यभेदात् । इत्युक्तलक्षणा नानाविधाः सूत्रोक्तयः संति अत्र तूपदेशो मुख्यवृत्त्या मनुव्यगतौ कथ्यते तद्भवमुक्तिसाधनत्वात् । मूढत्रयादिपंचविंशतिमलपरिहारेण हयस्य त्यागेनोपादेयस्योपादानेन जीवादितत्त्वश्रद्धानं विधीयते यत्र सा व्यवहारसम्यग्दर्शनाराधना सा च क्षपकेणाप्रमत्तेनाराधनीया भवतीति तात्पर्य । Page #20 -------------------------------------------------------------------------- ________________ टीकासहितः। "येनेदं त्रिजगद्वरेण्यविभुना प्रोक्तं जिनेन स्वयं सम्यक्त्वाद्भुतरत्नमेतदमलं चाभ्यस्तमप्यादरात् । भक्त्वा सप्रसभं कुकर्मनिचयं शक्त्या च सम्यक् पर ब्रह्माराधनमद्भुतोदितचिदानंदं पदं विंदते" ॥ इति सम्यग्दर्शनाराधनालक्षणप्रतिपादनेन चतुर्थगाथासूत्रं गतं ॥ ४ ॥ अथ व्यवहारज्ञानाराधनां प्रतिपादयति;सुत्तत्थभावणा वा तेसिं भावाणमहिगमो जो वा। णाणस्स हवदि एसा उत्ता आराहणा मुत्ते ॥५॥ सूत्रार्थभावना वा तेषां भावानामधिगमो यो वा। ज्ञानस्य भवत्येषा उक्ता आराधना सूत्रे ॥५॥ हवदि भवति । कासौ । आराहणा आराधना । कस्य । णाणस्य ज्ञानस्य । कासावाराधना। एसा एषा । किंविशिष्टा । उत्ता उक्ता प्रोक्ता । कस्मिन् । सुत्ते सूत्रे परमागमे । एति का । सुत्तत्थभावणा वा सत्रार्थभावना परमागमभावना । अथवा यः । य इति कः । अहिगमो अधिगमः सम्यक् परिज्ञानं केषां । भावाणं भावानां । तेसिं तेषां पूर्वोतानामिति योजनिकाद्वारः । सूत्रार्थभावाना वा तेषां भावनां यो वा अधिगमः एषा सूत्रे उक्ता ज्ञानस्याराधना भवतीति संक्षेपान्वयद्वारः । “काले विणये उवहाणे बहुमाणे तहेव णिण्हवणे । वंजण अत्थे तदुभय णाणाचारो दु अहविहो" ॥ इति गाथा कथितलक्षणाष्टविनयादिना ज्ञानमाराधनीयमिति भावार्थः ॥ "सिद्धांते जिनभाषिते नवलसत्तत्त्वार्थभावाद्भुते भावं यो विदधीत वाधिगमनं कुर्वीत तस्यानिशं । भक्त्या सप्रसभं कुकर्मनिचयं भक्त्वा च सम्यक्परब्रह्माराधनमद्भुतोदितचिदानंदं पदं विंदते ॥ ५ ॥ Page #21 -------------------------------------------------------------------------- ________________ आराधनासारः ज्ञानाराधना व्याख्याय चारित्राराधनां प्रतिपादयति;तेरहविहस्स चरणं चारित्तस्सेह भावसुद्धीए । दुविहअसंजमचाओ चारित्ताराहणा एसा ॥६॥ त्रयोदशविधस्य चरणं चारित्रस्येह भावशुद्धया । द्विविधासंयमत्यागश्चारित्राराधना एषा ॥ ६॥ अत्र भवतीति क्रिया अध्याहार्या । भवति । कासौ । चारित्ताराहणा चारित्राराधना । का । एसा एषा । एषेति का । चरणं चरण अनुष्ठानं । कस्य। चरित्तस्स चारित्रस्य । कतिविधस्य ।तेरसविहस्स त्रयोदशविधस्य त्रिभिराधिका दश तस्य पंचमहाबतपंचसमितित्रिगुप्तिलक्षणस्य । उक्तं च " महाव्रतानि पंचैव पंचैव समितीस्तथा । गुप्तीस्तिस्रश्च चारित्रे त्रयोदशविधे विदुः ॥" क । इह इहाराधनायां । कया । भावसुद्धीए भावशुद्ध्या भावश्चित्तानुरागस्तस्य शुद्ध्या नैर्मल्येन तामंतरेण चारित्रं गगनारविंदमकरंदवत्प्रतिभासते । यदुक्तम्- . " मावशुद्धिमबिभ्राणाश्चारित्रं कलयंति ये। त्यक्त्वा नावं भुजाभ्यां ते तितीर्षति महार्णवम् ॥" इति । अस्य त्रयोदशविधस्य चारित्रस्य यथावदनुष्ठानं कदा करिध्यामीति चित्तोल्लासेन शीतवातादिजनितशरीरखेदे सति मनसः संक्लेशरहितत्वेनेत्यर्थः । न केवलं चारित्रस्य चरणं चारित्राराधना भवति अन्यदपीत्याह । दुविहअसंजमचाओ द्विविधासंयमत्यागः । दो भेदौ प्रकारौ यस्यासौ द्विविधः द्विविधश्चासावसंयमश्च द्विविधासंयम द्विविधासंयमस्य त्यागः द्विविधासंयमत्यागः। द्विविधासंयमस्य किं लक्षणं । एकस्तावदिद्रियासंयमः अन्यः प्राणासंयमः । द्वयोर्लक्षणं निरूप्यते। यः स्पर्शनरसनघ्राणचक्षुःश्रोत्रलक्षणानां मनसश्च स्पर्शरसगंधवर्णशब्दलक्षणेषु स्वा Page #22 -------------------------------------------------------------------------- ________________ टीकासहितः । कीयविषयेषु स्वेच्छाप्रचारः स इंद्रियासंयमः कथ्यते । यच्च पृथिव्यप्तेजो वायुवनस्पतिलक्षणपंचस्थावराणां द्वींद्रियत्रींद्रियचतुरिंद्रयपंचेंद्रियलक्षणत्रसानां च प्रमादचारित्रत्वाज्जीवितव्यपरोपणं स प्राणासंयमः । यदुक्तं " मनसचेंद्रियाणां च यत्स्वस्वार्थे प्रवर्तनम् । यदृच्छयेव तत्तज्ज्ञा इंद्रियासंयमं विदुः " ॥ " स्थावराणां त्रसानां च जीवानां हि प्रमादतः । जीवितव्यपरोपो यः स प्राणासंयमः ," ॥ स्मृतः तस्य द्विविधासंयमस्य त्यागः परिहार इतियोजनिकाद्वारः । त्रयोदशविधस्य चारित्रस्य इह भावशुद्धयाचरणम् द्विविधासंयमत्याग, एषा चारित्राराधना भवतीति संक्षेपान्वयद्वारः । एवमसंयमं परिहृत्य पंचेंद्रियनिरोधसकलप्राणिदयालक्षणे संयमे स्थित्वा त्रयोदशविधं चारित्रमाराधनीयमिति भावार्थः ॥ द्वेधासंयमवर्जितं गुरुपदद्वंद्वाब्जसंसेवना 66 दाप्तं यश्चिनुते त्रयोदशविधं चारित्रमत्यूर्जितम् । भक्त्या सप्रसभं कुकर्मनिचयं भक्त्वा च सम्यक् परब्रह्माराधनमद्भुतोदितचिदानंदं पदं विंदते " ॥ ६ ॥ १७ चारित्राराधना व्याख्याय तप आराधनां प्रतिपादयति ;बारहविहतवयरणे कीरइ जो उज्जमो ससत्तीए । सा भणिया जिणसुत्ते तवम्मि आराहणा णूणं ॥ ७ ॥ द्वादशविधतपश्चरणे क्रियते य उद्यमः स्वशक्त्या । सा भणिता जिनसूत्रे तपसि आराधना नूनम् ॥ ७ ॥ भणिया भणिता प्रतिपादिता । कासौ । आराहणा आराधना । क । तवमि तपसि । कस्मिन् भणिता । जिणसुत्ते जिनसूत्रे सर्वज्ञागमे । कथं । पूर्ण नूनं निश्चितं । का । सा आराधना । सा इति का। कीरह क्रियते Page #23 -------------------------------------------------------------------------- ________________ १८ आराधनासारः कासौ । जो यः । य इति कः । उज्जमो उद्यमः उपक्रमः । कस्मिन् । बारसविहतवयरणे द्वादशविधतपश्चरणे षड़ाह्यषडभ्यंतरलक्षणे । कया। ससत्तीए स्वशक्त्या शक्त्या विना हि क्रियमाणतपोनिषेधत्वात् । तदुक्तं "तं चि तवो कायव्यो जेण मणोऽमंगलं ण चिंतेइ । जेण ण इंदियहाणी जेण य जोगा ण हायंति" ॥ तत्रानशनावमौदर्यवृत्तिपरिसंख्यानरसपरित्यागविविक्तशय्यासनकायक्लेशा बाह्यं तपः, प्रायश्चित्तविनयवैयावृत्त्यस्वाध्यायव्युत्सर्गध्यानान्युत्तरमाभ्यंतरं तपः इति द्वादशविधतपश्चरणे यः उद्यमः सा तपस्याराधना भवति। इयमपि दर्शनज्ञानचरित्राराधनावदाराधनीयैव यतो नैनामंतरेण निकाचितकर्मभ्यो मोक्षः ॥ यदुक्तं-- “निकाचितानि कर्माणि तावद्भस्मीभवंति न । यावस्प्रवचनप्रोक्तस्तपोवह्निर्न दीप्यते " ॥ तथाच निश्चयनयं जिज्ञासुनापि पाक्षिकेण पूर्वमप्रमत्तेनेयं व्यवहाराराधना सम्यगुपास्या यतो नैनां विना निश्चयनये प्रवृत्तिः । यदुक्तं“जीवोऽप्रविश्य व्यवहारमार्ग न निश्चयं ज्ञातुमुपैति शक्तिम् । प्रभाविकाशेक्षणमंतरेण भानूदयं को वदते विवेकी " ॥ एवं चतुर्विधाराधना भव्येनाराधनीयेति तात्पर्यार्थः । षोढाभ्यंतरषड्डिधोत्तरतपस्यहरैर्भाषिते शक्तिं स्वामनुपेक्ष्य यो वितनुते चारित्रपानोद्यमं । __ भक्त्या स प्रसभं कुकर्मनिचयं भक्त्वा च सम्यक् पर ब्रह्माराधनमद्भुतोदितचिदानंदं पदं विंदते ॥ ॥ ७ ॥ व्यवहाराराधनास्वरूपं प्रतिपाद्य निश्चयाराधनास्वरूपं प्रतिपादयति:सुद्धणये चउखंधं उत्तं आराहणाइ एरिसियं । सव्ववियप्पविमुक्को सुद्धो अप्पा णिरालंबो ॥८॥ Page #24 -------------------------------------------------------------------------- ________________ टीकासहितः। - शुद्धनये चतुःस्कंधमुक्तं आराधनाया ईदृशम् । . सर्वविकल्पविमुक्तः शुद्ध आत्मा निरालंबः ॥ ८॥ उत्तं प्रोक्तं । किं तत् । चउर्खधं चतुःस्कंधं चतुर्णा सम्यग्दर्शनादीनां समुदायः । कस्याः । आराहणाए आराधनायाः । कस्मिन् । सुद्धणये निश्चयनये । कीदृशमुक्तं । एरिसियं ईदृशं । ईदृशमिति कीदृशं । अप्पा आत्मा जीवः । कथंभूतः । सव्ववियप्पविमुक्को सर्वविकल्पविमुक्तः सर्वे च ते विकल्पाश्च कर्तृकर्मादयस्तैर्विमुक्तः विशेषेण मुक्तो रहितः । पुनः कथंभूतः । शुद्धः कर्ममलकलंकविवर्जितः । पुनरपि कथंभूतः । णिरालंबो निरालंबः पंचेंद्रियविषयसुखाद्यालंबनरहितः । किंतु चिच्चमत्कारशुद्धपरमात्मस्वरूपालंबन इत्यर्थ इति विशेषः ॥ ८॥ तस्या निश्चयाराधनाया विशेषमुपदर्शयन्नाह;-- सद्दहइ सस्सहावं जाणइ अप्पाणमप्पणो सुद्धं । तं चिय अणुचरइ पुणो इंदियविसए णिरोहित्ता॥९॥ श्रद्दधाति स्वस्वभावं जानाति आत्मानमात्मनः शुद्धम् । तमेवानुचरति पुनरिंद्रियविषयानिरुध्य ॥ ९ ॥ सद्दहइ श्रद्दधाति प्रत्योति । कं । सस्सहावं स्वस्वभावं शुद्धात्मानं । यदा स्वस्वभावं परमात्मस्वरूपं श्रद्धत्ते तदा दर्शनं भण्यते । पुनः किं करोतीत्याह । जाणइ जानाति । कं । अप्पाणं आत्मानं । कथंभूतं । शुद्ध रागादिमलरहितं । कस्मात् सकाशात् । अप्पणो आत्मनः निजात्मस्वरूपात् । यदा तु आत्मनः सकाशात् आत्मानं जानाति तदा ज्ञानं भण्यते पुणो पुनः पश्चात् तं चिय तमेव अणुचरइ अनुचरति तमेव शुद्धात्मानमनुचरति पुनः पुनराचरति अनुतिष्ठतीत्यर्थः। यदा तु तमेव शुद्धपरमात्मानमनुचरति तदा चारित्रं भण्यते । किं कृत्वा । णिराहिता निरुध्य । Page #25 -------------------------------------------------------------------------- ________________ आराधनासारः कान् । इंदियविलए इंद्रियविषयान पंचेंद्रियाणां विषया गोचराः सप्तविंशतिसंख्याताः । तत्र स्पर्शनेंद्रियस्य अष्टौ विषया भवंति । ते के। गुरुलघुस्निग्धरूक्षशीतोष्णमृदुकर्कशलक्षणाः। रसनायाः कटुकतीक्ष्णमधुराम्लक्षाराः पंच । घ्राणस्य सुगंधदुर्गधौ । चक्षुषोः श्वेतपीतरक्तनीलकृष्णाः पंच । श्रोत्रस्य निषादर्षभगांधारषड्जमध्यमधैवतपंचमलक्षणाः सप्त स्वराः इति सर्वे मिलित्वा सप्तविंशतिविषया भवंति तानिद्रियविषयान्निध्य संकोच्य । एतेन तपोप्यात्मैवेत्युक्तं स्यात् ॥ ९ ॥ इदमेव दर्शयति;तम्हा दंसण णाणं चारित्तं तह तवो य सो अप्पा । चइऊण रायदोसे आराहउ सुद्धमप्पाणं ॥१०॥ तस्मादर्शनं ज्ञानं चारित्रं तथा तपश्च स आत्मा। त्यक्त्वा रागद्वेषौ आराधयतु शुद्धमात्मानम् ॥ १० ॥ __ भवतीत्यध्याहार्य व्याख्यायते । भवति । कोसौ । सो अप्पा सः पूर्वोक्तः विश्वविख्यातो वा आत्मा। किं भवतीत्याह । दसण णाणं चरित्तं तह तवो य दंसणेति प्राकृतत्वादनुस्वारलोपः । दर्शनं ज्ञानं चारित्रं तथा तपश्च तस्मादर्शनशानचारित्रतपोमयकारणात् क्षपकःआराहउ आराधयतु।कं । अप्पाणं आत्मानं । कथंभूतं । शुद्धं रागादिमलमुक्तं । किं कृत्वा । चइऊण त्यक्त्वा परित्यज्य । को। रायदोसे रागद्वेषौ रागश्च द्वेषश्च रागद्वेषौ तौ रागद्वेषौ "तवि तं कुणइ अमित्तो सुटुवि सुविराहिओ समत्थोवि । जं दोयं आणिगाहिय करंति रागो य दोसो य" ॥ स आत्मा दर्शनज्ञानचारित्रतपोमयः कथमिति चेदुच्यते । यदायमात्मा तं परमात्मानं श्रद्दधाति तदा दर्शनं यदा जानाति तदा ज्ञानं यदानुचरति तदा चारित्रं यदा परद्रव्याभिलाषं परिहरति तदा तपः ॥ यदुक्तं Page #26 -------------------------------------------------------------------------- ________________ टीकासहितः। २१ " विशुद्ध स्वस्वभावे यच्छ्रद्धानं शुद्धिबुद्धितः । तन्निश्चयनये सम्यग्दर्शनं मोक्षसाधनं ॥ आत्मानमात्मसंभूतं रागादिमलवर्जितं । यो जानाति भवेत्तस्य ज्ञानं निश्चयहेतुजं ॥ तमेव परमात्मानं पौनःपुन्यादयं यदा । अनुतिष्ठेत्तदा त्वस्य ज्ञानं चारित्रमुत्तमं ॥ परद्रव्येषु सर्वेषु यदिच्छाया निवर्त्तनं । . ततः परममात्मानं तन्निश्चयनयस्थितैः ॥ इति निश्चयाराधनास्वरूपं परिज्ञाय क्षपकेण संसारशरीरभोगेभ्यो विरज्य शुद्धात्मस्वरूपमेवाराधनीयमिति तात्पर्यार्थः ॥ १०॥ ननु भगवन् निश्चयाराधनायात्मात्मस्वरूपे आराधिते आराधनाराध्याराधकफसमिति चत्वारो भेदाः कथं घटत इति पृष्टः स्पष्टमाचष्टे आचार्यः, आराहणमाराहं आराहय तह फलं च जं भणियं । तं सब्वं जाणिज्जो अप्पाणं चेव णिच्छयदो ॥११॥ आराधनमाराध्यं आराधकस्तथा फलं च यद्भणितम् । तत्सर्व जानीहि आत्मानं चैव निश्चयतः ॥ ११ ॥ हे क्षपक जाणिज्जो जानीहि । किं तत् । तं सव्वं तत्सर्वं पूर्वोक्तं निखिलं । कं । अप्पाणं चेव आत्मानमेतत् शुद्धात्मानमव । कस्मात् णिच्छयदो निश्चयतः परमार्थतः। तत् किमित्याह । जं भणियं यद्भणितं यत् उक्तं । किं स्वरूपं । आराहणं आराहं आराहय तह फलं च आराधनं सम्यग्दर्शनादिचतुष्टयोद्योतनोपायरूपं आराध्यं सम्यग्दर्शनादिकं आराधकः पुरुषविशेषः क्षपकः तथा फलं च सकलकर्मप्रक्षयो मोक्षः संवरनिर्जरे च, चकारोऽनुक्तसमुच्चयार्थः । कथमिति चेत् । आराधनं उद्योतनोपायरूपः स एवात्मा जीवः आराध्यं च तदेव परमात्मस्वरूपं आराधकच Page #27 -------------------------------------------------------------------------- ________________ आराधनासारः स एव जीवः फलं च यस्मिन् काले तस्यैव परमात्मस्वरूपस्योपलब्धिः स्यात्तदेव फलमिति भावार्थः । तथा च आराध्यश्चित्स्वरूपो यदयमयमुपायायितस्तस्य सम्य__ ग्बोधे चाराधनं च स्फुटं तदनुचरीभूत आराधकोऽयम् । कर्मप्रध्वंसभावाच्छिवपदमयितोयं च काम्यं फलं तत् ह्याराध्याराधनाराधकफलमखिलं प्रोक्त आत्मैक एव ॥ ११ ॥ ननु निश्चयाराधनायां सत्यां किमनया व्यवहाराराधनया साध्यमिति बदंतं प्रत्याह; पज्जयणयेण भणिया चउम्विहाराहणा हु जा सुत्ते। सा पुणु कारणभूदा णिच्छयणयदो चउक्कस्स॥१२॥ पर्यायनयेन भणिता चतुर्विधाराधना हि या सूत्रे । सा पुनः कारणभूता निश्चयनयतश्चतुष्कस्य ॥ १२ ॥ हे क्षपक भणिया भणिता । कासौ । जा आराहणा या आराधना । क । सुत्ते सूत्रे परमागमे । केन कारणभूतेन । पज्जयणयण पर्यायनयेन पर्यायो भेदः स चासौ नयश्च तेन पर्यायनयेन । कथंभूता। चउविहा चतुर्विधा चतस्रो विधाः प्रकारा यस्याः सा चतुर्विधा दर्शनज्ञानचारित्रतपोरूपा । कथं । हु खलु सा पुणु सा पुनः । अत्र पुनःशब्द एवार्थे अव्ययानामनेकार्थत्वात् । ततः सैव आराधना कारणभूदा कारणभूता हेतुरूपा । कस्य । चउक्कस्स चतुष्कस्य आराधनाचतुष्कस्य । कस्मात् । णिच्छयजयदो निश्चयनयतः शुद्धनयात् अर्थान समीलिते तु निश्चयनयाराधनाचतुकस्य । ननु चतुष्कस्य इत्युक्ते आराधनापदं कुतो लभ्यते । प्रसंगत्वात् । अत्र तावदराधनायाः प्रसंगः पूर्वोक्तत्वात् । तथाहि । कश्चिद्भव्यः प्राथमिकावस्थायां निश्चयाराधानायां स्थितिमलभमानस्तावक्ष्यवहाराराधनामारा Page #28 -------------------------------------------------------------------------- ________________ टीकासहितः। धयति पश्चान्मनसो दायं प्राप्य क्रमेण निश्चयाराधनामाराधयतीत्यभिप्रायः ॥ १२॥ ननु भगवन् क्षपकः कथं भवं मुंचतीति पृष्टे सत्याचार्य आह;कारणकज्जविभागं मुणिऊणं कालपहुदिलद्धीए । लहिऊण तहा खवओ आराहओ जह भवं मुवइ॥१३॥ कारणकार्यविभागं मत्त्वा कालप्रभृतिलब्धीः । लब्ध्वा तथा क्षपक आराधयतु यथा भवं मुंचति ॥ १३ ॥ आराधयतु ध्यायतु । कोसौ । खवओ क्षपकः । कं । अर्थात् परमात्मानमेव । कथं । तहा तथा तेन प्रकारेण जह यथा येन प्रकारेण मुवइ मुंचति त्यजति । कं । भवं संसारं । किं कृत्वाराधयतीत्याह । मुणिऊण मत्त्वा ज्ञात्वा । कं । कारणकज्जविभागं कारणकार्यविभागं विभजनं विभागः कारणं च कार्य च कारणकार्ये तयोविभागः कारणकार्यविभागस्तं कारणकार्यविभागं । कारणकार्ये हि पूर्वोत्तरगुणवैशिष्ट्यापेक्षयोत्पद्यते यथा कारणं व्यवहाराराधना कार्यरूपनिश्चयाराधनाया उत्पादकत्वात् । कार्य निश्चयाराधना कारणरूपव्यवहाराराधनाया उत्पाद्यत्वात् । तथा कारणं निश्चयाराधना कार्यरूपमोक्षस्योत्पादकत्वात् । कार्य मोक्षः कारणरूपनि. श्चयाराधनाया उत्पाद्यत्वात् । तथा कारणं मोक्षः कार्यरूपानंतचतुष्टयस्वरूपशुद्धपरमात्मोत्थातींद्रियानंतसुखस्योत्पादकत्वात् । न केवलं कारणकाविभागं ज्ञात्वा । किं च लहिऊण लब्ध्वा प्राप्य। का । कालपहुदिलद्धीए कालप्रभृतिलब्धीः कालादिलब्धीः । ननु कारणकार्यविभागे ज्ञाते किमेताभिः कालप्रभृतिलब्धिभिः । मैवं वादीः। कारणकार्यविभागज्ञा कालप्रभृतिलब्धिः कारणद्वयसाध्यस्य मोक्षकार्यस्यान्यथानुपपत्तेः । यदुक्तं कारणद्वयसाध्यं न कार्यमेकेन जायते । बंदोत्पाद्यमपत्यं किमेकेनोत्पयते कचित् ॥ Page #29 -------------------------------------------------------------------------- ________________ २४ आराधनासारः newmom यदा क्षपकः क्षपितकर्मा भव्यः कारणकार्यविभागं ज्ञात्वा कालप्रभृतिलब्धीश्च लब्ध्वा शुद्धपरमात्मानमाराधयति तदा सकलकर्मप्रक्षयं कृत्वा मोक्षं गच्छतीत्यभिप्रायः ॥ १३ ॥ ननु यद्यात्मानमाराधयितुं न लभते जीवस्तदा किं करोतीत्याशंक्याह;जीवोभमइ भमिस्सइ भमिओ पुव्वं तु णरयणरतिरियं । अलहंतो णाणमई अप्पाआराहणा णाउं ॥ १४ ॥ जीवः भ्रमति भ्रमिष्यति भ्रांतः पूर्व तु नरकनरतिर्यक् । अलभमानो ज्ञानमयीमात्माराधनां ज्ञातुम् ॥ १४ ॥ भमइ भ्रमति । कोसौ । जीवो जीवः वर्तमानकालापेक्षया चतुर्गतिसंसारं पर्यटति तथा भविष्यत्कालापेक्षया भमिस्सइ भ्रमिष्यति पर्यटिष्यति । ननु कथं भ्रमति भ्रमिष्यतीति संभाव्यते । तदेवाह । पुव्वं तु पूर्व तु भमिओ भ्रांतः । यदि पूर्व भ्रांतो नाभविष्यत् तदा वर्तमानं भाव्यं च भ्रमणं नाकरिष्यत् पूर्व भ्रांतश्चायं तस्मात् वर्तमाने भाविनि काले च भ्रमणं सिद्धमेवास्य । अलमिति विस्तरेण । यदुक्तं कालास्त्रयोप्यतीताद्या तानपेक्ष्य मिथोप्यमी । प्रवर्तेरन् यतो नैक: केवलं कापि दृश्यते ॥ क । णरयणरतिरियं नरकनरतिर्यग्गतौ अर्थत्वादनुक्तोऽपि गतिशब्दो लभ्यते सुखावबोधार्थ । यहा शब्दस्य लाक्षणिकत्वादपि, यथा गंगायां घोष इत्युक्ते तटो लभ्यते । तथा नरक इत्युक्ते नरकगतिः नर इत्युक्ते नरगतिः एवं सर्वत्र उपलक्षणाद्देवगतौ च । किंकुर्वाणः ।अलहतो अलभमानः अप्राप्नुवन् । कां । आत्माराधनां शुद्धात्मध्यानं । किं कर्तुं । जाउं ज्ञातुं मंतुं अनुभवितुमित्यर्थः । कथंभूतामात्माराधनां । णाणमई ज्ञानमयीं चिन्मयीं । अनादिकाले हि अयं जीवः अनंतज्ञानमयनिश्चयाराधनालक्षणं परमात्मस्वरूपम Page #30 -------------------------------------------------------------------------- ________________ टीकासहितः। २५ लभमानः सन् संसाराटव्यां भ्रांतः भ्रमति भ्रमिष्यति च इति मत्वा क्षपकेण निजशुद्धात्मस्वरूपमाराधनीयमिति भावार्थः ॥ १४ ॥ ननु भगवन् पूर्व किं विधाय सा निश्चयाराधनाराधनीयेति पृष्ठे आचार्य अनुशास्ति संसारकारणाई अस्थि हु आलंबणाइ बहुयाई। · चइऊण ताई खवओ आराहओ अप्पयं सुद्धं॥१५॥ संसारकारणानि संति हि अलंबनानि बहुकानि । त्यक्त्वा तानि क्षपक आराधयतु आत्मानं शुद्धम् ॥ १५ ॥ अस्थि अस्तीत्यव्ययक्रियापदं संत्यर्थे बह्वर्थ प्रतिपादयति । उक्तं च । सदृशं त्रिषु लिंगेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तदव्ययमिति ॥ अस्ति संति । कानि । आलंबणाइ आलंबनानि स्रक्चंदनवनितागीतनृत्यवादित्रादीनि । बहुयाइं बहुकानि प्रचुराणि । कथंभूतानि । संसारकारणाई संसारकारणानि नरकतिर्यग्मनुष्यदेवचतुर्गतिनिबद्धस्य संसारस्य कारणानि हेतुभूतानि । कथं । हु निश्चितं ताइ तानि आलंबनानि चइऊण त्यक्त्वा आराहउ आराधयतु । कोसौ । खवओ क्षपकः। कं । अप्पाणं आत्मानं किंविशिष्टं । सुद्धं रागादिमलमुक्तं । अनादिकाले हि स्रक्चंदनवनितागतिनृत्यायनेकविधपंचेंद्रियविषयसुखाभिलाषुकेण निजशुद्धात्मोत्पन्नातींद्रियसुखात्पराङ्मखेन जीवेन संसाराटव्यां पर्यटितं संप्राप्तं संसारशरीरभोगवैराग्यभावनाबलेन तानि विषयसुखानि निरस्य निश्चयाराधनारूपं निजपरमात्मतत्त्वमाराधनीयमिति भावार्थः ॥ १५॥ ननु निश्चयाराधनैव मोक्षसाधिका किमनया भिन्नया चतुर्विधया व्यवहाराराधनया साध्यमिति वदंतं प्रत्याह; Page #31 -------------------------------------------------------------------------- ________________ २६ आराधनासारः भेयगया जा उत्ता चउविहाराहणा मुणिंदेहिं । पारंपरेण सावि हु मोक्खस्स य कारणं हवइ ॥१६॥ भेदगता या उक्ता चतुर्विधाराधना मुनींदैः । पारंपर्येण सापि हि मोक्षस्य च कारणं भवति ॥ १६ ॥ हवइ भवति । किं । कारणं कार्यस्य साधनं कारणमित्युच्यते । कस्य। मोक्खस्स मोक्षस्य कृत्स्नकर्मविप्रमोक्षस्वरूपस्य च । पुनः का। सावि सापि । सापीति का । चउव्विहाराहणा चतुर्विधाराधना चतस्रो विधाः प्रकारा यस्याः सा चतुर्विधा चतुर्विधासावाराधना च चतुर्विधाराधना सम्यग्दर्शनादिचतुष्टयोद्योतनोपायस्वरूपा चतुर्विधाराधनैव । का । या । किं कृत्वा । उत्ता उक्ता प्रतिपादिता । कैः । मुर्णिदेहिं मुनींद्रैः मुनीनामिंद्रा मुनींद्राः सर्वज्ञास्तैः मुनींद्रैः। किंविशिष्टा । भेयगया भेदगता सम्यग्द. शनादीन् चतुरो भेदान् गता प्राप्ता हु खलु स्फुटं । केन करणेन भूतेन मोक्षस्य कारणं भवति । पारंपरेण पारंपर्येण अनुक्रमेण । कुतः । यथा निश्चयाराधना साक्षान्मोक्षफलरूपकार्यसाधिका भवति तथैव या न भवति किंतु बीजत्वात् । बीजो हि क्रमेण वृक्षफलत्वापन्नो दृष्टः । कश्चिद्भव्यजीवः काललब्धिं समवाप्य कर्मणः क्षयोपशमत्वात् गुरुचरणकमलसमीपं संप्राप्योपदेशं लब्ध्वा आराधयितुं प्रवृत्तः प्रथमं भेदाराधनया अभ्यासं विधाय पश्चादभेदेन परमात्मानं सम्यग्दर्शनादिचतुष्टयमयं समाराध्य घातिकमैचतुष्टयक्षयं कृत्वा केवलज्ञानं समुत्पाय मोक्षं गच्छतीत्यभिप्रायः ॥ १६ ॥ नन्वाराधकः पुमान् किंलक्षणः कियत्कालं कृत्वा समाराधयतीति वदंतं प्रत्याह;णिहयकसाओ भव्वो दंसणवंतो हु णाणसंपण्णो। दुविहपरिग्गहचत्तो मरणे आराहओ हवइ ॥१७॥ Page #32 -------------------------------------------------------------------------- ________________ टीकासहितः । निहतकषायो भन्यो दर्शनवान् हि ज्ञानसंपन्नः । द्विविधपरिग्रहत्यक्तो मरणे आराधको भवति ॥ १७ ॥ 1 हवइ भवति । कोसौ | आराहओ आराधकः ध्याता पुरुषः । कथंभूतः । णिहयकसाओ निहतकषायः निहताः कषायाः येनासौ कदाचिदपि कषायैराविष्टो न भवतीत्यर्थः । पुनः कथंभूतः । भव्वो भव्यः मुक्तियोग्यः । पुनः कथंभूतः । दंसणवंतो दर्शनवान् सम्यग्दर्शन विराजमानः । पुनः किंविशिष्टः । णाणसंपण्णो ज्ञानसंपन्नः शुद्धपरमात्मपदार्थविलक्षणानि परद्रव्याणि हेयरूपाणि जानाति समस्तदेहादिपरद्रव्येभ्यो विविक्तं परमात्मनः स्वरूपमुपादेयं मनुते इति स्वसंवेदनज्ञानसंपन्नः । पुनः कथंभूतः । दुविहपरिंग्गचत्तो द्विविधपरिग्रहत्यक्तः द्विविधेन बाह्याभ्यंतरलक्षणपरिग्रहेण त्यक्त रहितः । क । मरणे मरणपर्यंतं । अत्र अभिव्याप्यार्थे सप्तमी निर्दिष्टा तिलेषु तैलवत् । कथं । हु खलु निश्वयेन एवंगुणविशिष्टः पुरुषो मरणकालपर्यंतमाराधको भवतीति तात्पर्यार्थः ॥ १७ ॥ नन्वाराधकपुरुषस्येमान्येव लक्षणानि किमन्यान्यपि भविष्यंति वा इति पृष्टे अपराण्यपि संतीत्याह ; Superio २७ संसारसुहविरत्तो वेरग्गं परमउवसमं पत्तो । विविहतचतवियदेहो मरणे आराहओ एसो ॥ १८ ॥ संसारसुखविरक्तो वैराग्यं परमोपशमं प्राप्तः । विविधतपस्तप्तदेहो मरणे आराधक एषः ॥ १८ ॥ अत्र क्रियाया अध्याहारः । भवति । कोसौ । आराहओ आराधकः । कः । एसो एषः । किं लक्षणः । संसारसुहविरत्तो संसारसुखविरक्तः संसारे यानि निर्मलचिदानंदानुभवनोत्थानुपमानिंद्रियसुखविलक्षणानि केवलमाकुलत्वोत्पादकत्वाद्दुःखरूपाणि इंद्रियविषयोत्पादित सुखानि तेषु विरक्तः Page #33 -------------------------------------------------------------------------- ________________ ૨૮ आराधनासारः अभिलाषरहितः । पुनः किंविशिष्टः । पत्तो प्राप्तः । किं । वेरग्गं वैराग्यं शरीरादौ परस्मिन्निष्टवस्तुनि प्रीतिरूपो रागः विनष्टो रागो यस्यासौ विरागः विरागस्य भावो वैराग्यं संसारशरीरभोगेषु निर्वेदलक्षणं । न केवलं वैराग्यं प्राप्तः परमउवसमं परमोपशमं च । अत्र रागादिपरिहारलक्षणमुपशमं आगमभाषया तु अनंतानुबंधिचतुष्टयमिथ्यात्वत्रयस्वरूपाणां मोहनीयकर्मणः सप्तप्रकृतीनामुपशमनादुपशमः परमश्चासौ उपशमश्च परमोपशमः तं परमोपशमं समुद्रे वाता नाववत् स्वभावे रागिणो रागादिजनितविकल्पोत्पत्तेरभावलक्षणं । पुनः कथंभूतः । विविहतवतवियदेहो विविधतपस्तप्तदेहः विविधैर्वीतरागसर्वज्ञागमप्रतिपादितैर्बाह्यांभ्यंतरलक्षणैर्मूलगुणोत्तरविशेषैर्नानाविधैस्तपोभिस्तप्तो देहः शरीरं यस्यासौ विविधतपस्तप्तदेहः । क । मरणे मरणपर्यंतं । एवं गुणविशिष्टलक्षण आराधको मरणपर्यंतं भवतीति तात्पर्यार्थः ॥ १८॥ उक्तानि कामिचिदाराधकलक्षणानि इदानीमन्यान्यपि वर्णयितुकाम आचार्य आह; अप्पसहावे णिरओ वज्जियपरदव्वसंगसुक्खरसो। णिम्महियरायदोसो हवई आराहओ मरणे॥१९॥ आत्मस्वभावे रितो वर्जितपरद्रव्यसंगसौख्यरसः । निर्मथितरागद्वेषो भवत्याराधको मरणे ॥ १९ ॥ हवइ भवति । कोसौ । आराहओ आराधकः । किंविशिष्टः । "णिरओ निरतः तत्परः । क । अप्पसहावे आत्मस्वभावे निर्मलतरपरमचिदानंदलक्षणे स्वस्वरूपे । पुनः कथंभूतः । वज्जियपरदव्वसंगसुक्खरसो वर्जितपरद्रव्यसंगसौख्यरसः वर्जितो निराकृतः सकलसंगरहितपरमात्मपदार्थविलक्षणानां परद्रव्याणां संगेन संयोगेन यानि पंचेंद्रियविषयोद्भवानि सुखानि तेषां रसोभिलाषो येन । पुनः कथंभूतः। णिम्महियरायदोसो Page #34 -------------------------------------------------------------------------- ________________ टीकासहितः । २९ निर्मथितरागद्वेषः आत्मसमानसमस्तजीवराशिविलोकनतया निर्मथितौ स्फेटितौ रागद्वेषौ इष्टानिष्टयोः प्रीत्यप्रीतिलक्षणौ येन । क । मरणे मरणपर्यंतं । एवंगुणविशिष्टो मरणं मर्यादीकृत्य आराधयतीति तात्पर्यार्थः ॥ १९ ॥ ननु रत्नत्रितयमयमात्मानं मुक्त्वा परद्रव्यचितां करोति यः कथंभूतो भवतीति पूच्छंतं प्राहुः— जो रयणत्तयमइओ मुत्तूर्णं अप्पणो विसुद्धप्पा | चिंतेइय परदव्वं विराहओ णिच्छयं भणिओ ॥२०॥ यो रत्नत्रयमयं मुक्त्वात्मनो विशुद्धात्मानम् । चिंतयति च परद्रव्यं विराधको निश्चितं भणितः ॥ २० ॥ 1 भणिओ भणितः प्रतिपादितः । केन । णिच्छयं निश्वयेन परमार्थल-क्षणेन । कोसौ । विराहओ विराधकः हेयोपादेयवस्तुपरिज्ञानविकल्पतया यथोक्तलक्षणाराधकः पुरुषविलक्षणः स पुरुषो विराधको भवतीत्यर्थः । यः किं करोति । जो चिंतेइ यश्चिंतयति । किं तत् । परदव्वं परद्रव्यं निजात्मनो भिन्नं यद्वस्तुस्वरूपं इह निजात्मन एवोपादेयत्वात् । ननु निजात्मन एवोपादानेन पंचपरमेष्टिनामप्याराधको विराधकः स्यात् निजात्मभिन्नात्मं-द्रव्यत्वादिति चेत्सत्यं । यः कश्विद्यथावद्वस्तुस्वरूपं परिज्ञाय स्वशुद्धात्मानमाराधयितुं प्रवृतोपि अदृष्टाश्रुताननुभूतत्वात्तत्राशु स्थितिमलभमानः सन् तन्निमित्तं विषयकषायवचनार्थे च तदाराधकानां भिन्नात्मस्वरूपाणां पंचपरमेष्ठिनां स्वरूपमाराधयन्न विराधकः । कुत इति चेत् । आत्मस्वरूपसाधकत्वात् । संसारपरिभ्रमणहेतुभूतै हलौकिकपारलौकिकख्यातिपूजालाभभोगेंद्रियविषयजन्यसुखामिलाषाभावात् । यस्तु इतरः । निजात्मस्वरूपस्यानुपादानेन निदाने नवग्रैवेयक मुखपर्यंत विपुलधिंदा यिविशिष्टपुण्यकारणं पंचपरमेष्ठिस्वरूपमाराधयन्नपि विराधकः पुनरपि संसारकारणत्वात् । यस्तु संसारकारणं तत्पुण्यमपि न भव्यं । Page #35 -------------------------------------------------------------------------- ________________ आराधनासारः मं पुणु पुण्णइ भल्लाइ णाणिय ताइ भणंति । जीवहं रज्जइ देवि लहु दुक्खइ जइ पाडंति ।. . परमात्मप्रकाशे इत्युक्तत्वात् । उक्तं च तेनापि पुण्येन कृतं कृतं यज् जंतोर्भवेत् संमृतिवृद्धिहेतुः । - तच्चार्वपीच्छेन्ननु हेम को वा क्षिप्तं श्रुती त्रोटयते यदाशु ॥ किं कृत्वा विराधको भवति। मुत्तूणं मुक्त्वा परित्यज्य। कं। विसुद्धप्पा विशुद्धात्मानं विशुद्धो रागादिरहित आत्मा तं । कथंभूतं ।रयणत्तयमइओ रत्नत्रयमय विषयभेदेन सम्यग्दर्शनादिरत्नत्रितयेन निवृतं । कुतः । अप्पणो आत्मनः निजात्मस्वरूपापादानभूतत्वात् । एवं ज्ञात्वा समस्तपरद्रव्यं विमुच्य भो भव्या निजदेहे निवसंतं परमात्मानमाराधयंतु इति तात्पर्यार्थः ॥ २० ॥ ___ नन भगवन् परमात्मानं मुक्वा परद्रव्यं चिंतयति यः स मया विराधको ज्ञातः यस्तु आत्मानं परमपि न बुध्यते तस्याराधना घटते न वेति पृष्टे आचार्यः प्राह;जो णवि बुज्झइ अप्पा णेय परं णिच्छयं समासिज्ज । तस्स ण बोही भणिया सुसमाही राहणा णेय ॥२१॥ यः नैव बुध्यते आत्मानं नैव परं निश्चयं समासृत्य । तस्य न बोधिः भाणिता सुसमाधिराराधना नैव ॥ २१ ॥ णवि बुज्झइ नैव बुध्यते न जानाति । कोसौ । जो यः कश्चिदपि पुरुषविशेषः । कं । अप्पा आत्मानं सम्यग्दर्शनज्ञानचारित्राणि अततीति आत्मा तं । न केवलं आत्मानं बुध्यते । णेय परं परं नैव आत्मनो विलक्षणं देहादिपरद्रव्यं नैव । किं कृत्वा । समासिज्ज समासृत्य अवलंब्य। कं । णिच्छयं निश्चयं परमार्थ तस्स ण भणिया तस्य न भाणता . आत्मपरभेदपरिज्ञानशून्यस्य न प्रतिपादिता । कासौ । बोही बोधिः । बोधेः किं लक्षणं । सम्यग्दर्शनज्ञानचारित्राणामप्राप्तिप्रापणं बोधिः। न केवलं Page #36 -------------------------------------------------------------------------- ________________ टीकासहितः । ३१ 1 बोधिः । सुसमाही सुसमाधिश्च । सुसमाधेः किं लक्षणं । तस्यैव बोधर्निर्विन भवांतरावाप्तिरिति समाधिः । न केवलं सुसमाधिः । आराहणा आराचना नैव पूर्वोक्तलक्षणं । उक्तं च "6 भेदविज्ञानतः सिद्धाः सिद्धा ये किल केचन । अस्यैवाभावतो बद्धा बद्धा ये किल केचन " ॥ आत्मपरावबोधरहितस्य बोधिः समाधिराराधना न भवतीत्येवं बुवा यथोक्तलक्षणनिजात्मद्रव्यपरद्रव्यस्वरूपं परिज्ञाय तत्र परद्रव्यं हेयमात्मद्रव्य-मुपादेयमिति तात्पर्यार्थः ॥ २१ ॥ एवमारा धकविराधकयोः स्वरूपं प्रकाश्येदानीं अरिह इत्यादिसप्तभिः स्थलैः कर्मरिपुं हंतुकामस्य क्षपकस्य वक्ष्यमाणसामग्री मेलयित्वा कर्माणि हंतु भवान् इति शिष्यं प्रयच्छन्नादौ तेषां सप्तस्थलानां गाथाद्वयें नामानि प्रकटयन्नाह ;अरिहो संगञ्चाओ कसायसल्लेहणा य कायव्वा । परिसहचमूण विजओ उवसग्गाणं तहा सहणं ॥ २२ ॥ इंदियमल्लाण जओ मणगयपसरस्स तह य संजमणं । काऊण हणउ खवओ चिरभवबद्धाइ कम्माई ॥ २३ ॥ अहः संगत्यागः कषायसल्लेखनां च कर्तव्यां । परिषहचमूनां विजयमुपसर्गाणां तथा सहनम् || २२ || इन्द्रियमलानां जयं मनोगतप्रसरस्य तथा च संयमनम् । कृत्वा हंतु क्षपकः चिरभववद्धानि कर्माणि ॥ २३ ॥ युग्मम् | हणउ हंतु निराकरोतु । कोसौ । खवओ क्षपकः कर्मक्षपणशीलः । किंविशिष्टः । अरिहो अहः संन्यासयोग्यः । कानि । कम्माइँ कर्माणि ज्ञानावरणादिलक्षणानि । किंविशिष्टानि । चिरभवबद्धानि पूर्वोपार्जितानि । किमारभ्य । काऊण कृत्वा संगञ्चाओ संगत्यागं । इहार्षेयत्वात्कर्मस्थाने Page #37 -------------------------------------------------------------------------- ________________ ३२ आराधनासारः प्रथमायां न दोषः । बाह्याभ्यंतरपरिग्रहलक्षणः संगस्तस्य त्यागः परित्यजनं तं । न केवलं संगत्यागं । कृत्वा कसायसल्लेहणा य कषायसल्लेखनां च कषायाः क्रोधमानमायालोभलक्षणास्तेषां सल्लेखना संन्यासः सर्वथा परिहारः तां कषायसल्लेखनां । किंविशिष्टां। कायव्वा कर्तव्यां मुमुक्षभिरवश्यमेव करणीयां तदकरणे साध्यसिद्धरभावात् । न केवलं कर्तव्यां कषाय-- सल्लेखनां च । कृत्वा । विजयमभिभवं । कासां । परीषहचमूनां बुभुक्षादिद्वाविंशतिपरीषहसेनानां । न केवलं परीषहचमूनां विजयं । कृत्वा सहणं सहनं मर्षणं क्षमणमिति यावत् । केषां । उवसग्गाणं उपसर्गाणां सचेतनाचेतनेभ्यः समुत्पन्नोपप्लवानां । कथं । तहा तथा । न केवलं उपसर्गाणां सहनं जओ जयं विजयलक्षणं । केषां । इंदियमल्लाण इंद्रियमल्लानां स्पर्शनादिलक्षणानि पंचेंद्रियाणि तान्येव महासुभटास्तेषां । न केवलं इंद्रियमल्लानां जयं । संजमणं संयमनं संकोचनं । कस्य । मणगयपसरस्स मनोगजप्रसरस्य मनश्चित्तं तदेव गजो हस्ती तस्य प्रसरः स्वेच्छापरिभ्रमणं तस्य प्रथमम) भूत्वा संगत्यागं करोति तदनु कषायसल्लेखनां करोति पुनः परीषहसेनां जयति तथा उपसर्गान् सहते इंद्रियमल्लानां च जयं करोति मनोगजप्रसरं च निरोधयति । एवं सामग्री संमील्य क्षपकः कर्माणि क्षपयतु। इति सप्तमस्थलसमुदायसूचनायां गाथाद्वयं गतं ॥२२॥२३॥ इदानीमादावेव निर्दिष्टस्याहस्य लक्षणमाह अस्यैव ज्येष्ठत्वात् ;छंडियगिहवावारो विमुक्कपुत्ताइसयणसंबंधो। जीवियधणासमुक्को आरिहो सो होइ सण्णासे ॥२४॥ त्यक्तगृहव्यापारः विमुक्तपुत्रादिस्वजनसंबंधः । जीवितधनाशामुक्तः अर्हः स भवति सन्न्यासे ॥ २४ ॥ होइ भवति । कोसौ। अरिहो अर्हः योग्यः । क्व । सण्णासे संन्यासे अयोग्यहानयोग्योपादानलक्षणसंन्यासः तस्मिन् । स किंविशिष्टो भवति । Page #38 -------------------------------------------------------------------------- ________________ टीकासहितः। छंडियगिहवावारो त्यक्तगृहव्यापारः त्यक्ता अनंतसंसारकारणकारिव्यापारावारपारगसहजशुद्धचिच्चमत्काररसास्वादविशेषव्यापृतपरमात्मपदार्थविलक्षणा असिमसिकृषिपशुपाल्यवाणिज्यादयो गृहव्यापारा येनासौ । पुनः कथंभूतः। विमुक्कपुत्ताइसयणसंबंधो विमुक्तपुत्रादिस्वजनसंबंधःजीवियधणासमुक्को जीवितधनाशामुक्तः स्वकीये काये ममत्वपरिणामवशादिदं मदीयमनेन सार्ध मम विघटनं माभूदित्यभिलाषो जीविताशा इत्युच्यते । निजनिरंजनशुद्धबुद्धकस्वभावस्वसंवेदनज्ञानकधनविलक्षणधनधान्यसुवर्णादिपरिग्रहग्रहाभिलाषो धनाशा इत्युच्यते इत्युक्तलक्षणाभ्यां जीवितधनाशाभ्यां मुक्तः परित्यक्तः । आदौ गृहव्यापारान् परित्यज्य पुत्रादिस्वजनसंबंधं मुंचति तदनु जीवितधनाशाद्वयं निरस्य संन्यासा) भवतीत्यर्थः ॥ २४ ॥ एवमर्हस्वरूपं निरूप्य बाल्ययौवनवार्धक्यावस्थात्रये कस्यामवस्थायामुत्तमस्थानस्याहः सपद्यते इति पृच्छंतं प्रति गाथाचतुष्कमाह;जरवग्विणी ण चंपइ जाम ण वियलाइ हुँति अक्खाई। बुद्धीजाम ण णासइ आउजलं जाम ण परिगलई॥२५॥ आहारासणणिदाविजओ जावत्थि अप्पणो णूणं ।। अप्पाणमप्पणोण य तरइ य णिज्जावओ जाम ॥२६॥ जाम ण सिढिलायति य अंगोवंगाइ संधिबंधाई। ज़ाम ण देहो कंपइ मिच्चुस्स भएण भीउव्व ॥२७॥ जा उज्जमो ण वियलइ संजमतवणाणझाणजोएसु । तावरिहो सो पुरिसो उत्तमठाणस्स संभवई ॥ २८॥ कलावयं । Page #39 -------------------------------------------------------------------------- ________________ आराधनासारः जराव्याघ्री न चंपते यावन्न विकलानि भवंति अक्षाणि । बुद्धिर्यावन्न नश्यति आयुर्जलं यावन्न परिगलति ॥ २५ ॥ आहारासननिद्राविजयो यावदस्ति आत्मनो नूनम् । आत्मानमात्मना च तरति च निर्यापको यावत् ॥ २६ ॥ यावत् न शिथिलायंते अंगोपांगानि संधिबंधाश्च । यावन्न देहः कंपते मृत्योर्भयेन भीत इव ॥ २७ ॥ यावदुद्यमो न विगलति संयमतपोज्ञानध्यानयोगेषु । तावदहः स पुरुषः उत्तमस्थानस्य संभवति ॥ २८ ॥ कलापकं। संहवइ संभवति संपद्यते । कोसौ । स पूर्वोक्तलक्षणः पुरिसो पुरुषः । कथंभूतः । अरिहो अर्हः । कस्य । उत्तमस्थानस्य बाह्याभ्यंतरसंगसंन्यासलक्षणविशेषस्य । कथं । ता तावत् । तावदिति कियत्कालं । जाव यावत् यावत्काले ण चंपेइ न चंपते नाक्रमति । कासौ । जरवग्घिणी यौवनद्विपदर्पदलनत्वात् जराव्याघ्री । न केवलं जराव्याघी यावन्नाकामति । जाम ण हुंति यावत् च न भवंति कानि । अक्खाइं अक्षाणि स्पर्शरसगंधवर्णशब्दग्रहणदक्षाणि इंद्रियाणि । किंविशिष्टानि यावच्च न भवंति । वियलाई विकलानि स्वकीयस्वकीयविषयसौष्ठवास्पष्टकारीणि । न केवलं विकलानींद्रियाणि यावन्न भवति जाम यावच्च ण णासइ न नश्यति । कासौ । बुद्धिः । नश्यतीति कोर्थः । अवस्थाविशेषेण सा इंद्रियमनोविकलतया हेयोपादेयपदार्थपरिज्ञानशून्यत्वेनात्मीयं स्वरूपं मुक्त्वा विपर्यस्तरूपमादाय अदृश्या भवति । न केवलं यावद्भुद्धिर्न नश्यति । जाम यावच्च ण परिगलइ न परिगलति । किं तत् । आउजलं आयुर्जलं निजोपार्जितकर्मबंधसामर्थ्येन संवत्सरायनर्तुमासपक्षदिवसघटिकादिविशेषैर्यावत्परिमाणं भवस्थित्या एकस्मिन् देहे प्राण धारण Page #40 -------------------------------------------------------------------------- ________________ टीकासहितः। लक्षणमायुरिति आयुरूप जलं आयुर्जलं । जलत्वेनायुर्निर्देशस्य किं प्रयोजनं। यथा सच्छिद्रकरांजलौ प्रक्षिप्तं जलं समयादिसहकारित्वेन सकलं परिगलति तथा आयुरपि समयघटिकादिवत् पक्षमासादिभिः कृत्वा समस्तं परिगलति । इदमत्र तात्पर्य । न केवलं आयुर्जलं यावन्न परिगलति । जावत्थि यावदस्ति च । कोसौ । आहारासणणिद्दाविजओ आहारासननिद्राविजयः आहारश्च आसनं च निद्रा च आहारासननिद्रास्तासामाहारासननिद्राणां विजयः आहारासननिद्राविजयः । आहारासननिद्राणां किं लक्षणं इति चेत् । निर्विकारपरमाह्लादकारिसहजस्वभावसमुद्भवसर्वकालसंतपणहेतुभूतस्वसंवेदनज्ञानानंदामृतरसप्राग्भारनिर्भरपरमाहारविलक्षणो निजोपार्जितासवेदनीयकर्मोदयेन तीवबुभुक्षावशाद्व्यवहारनयाधीनेनात्मना यदशनपानादिकमाद्रियते तदाहारः । निश्चयेनात्मनः अनन्येवस्थानं यत् तदासनमित्युच्यते । लोकव्यवहारेण तदवस्थानसाधनांगत्वेन यमनियमाद्यष्टांगेषु मध्ये शरीरालस्यग्लानिहानाय नानाविधतपश्चरणभारनिर्वाहक्षमं भवितुं तत्पाटवोत्पादनाय यनिर्दिष्टं पर्यंकापर्यंकबीरवज्रस्वस्तिकपद्मकादिलक्षणमासनमित्युच्यते। एतेषां प्रत्येकं लक्षणमाह " स्याज्जंघयोरधोभागे पादोपरि कृते सति । पर्यको नाभिगोत्तानदक्षिणोत्तरपाणिकः " अयमेवैकं जंघाया अधोभागे. पादोपरि कृतेऽर्धपर्यकः । " वामोंघ्रिदक्षिणोरूज़ वामोरूपरि दक्षिणः । क्रियते यत्र तद्वीरोचितं वीरासनं स्मृतं ॥" “ पृष्टे यत्राकृतीभूतदोभ्या वीरासने सति । गृह्णीयात् पादयोर्यत्रांगुष्ठौ वज्रासनं हि तत् ॥" " जंघाया मध्यभागेषु संश्लेषो यत्र जंघया। पद्मासनमिति प्रोक्तं तदासनविचक्षणैः ॥" इत्यादि । निद्रालक्षणं किं । सर्वदोन्निद्रकेवलज्ञानदर्शननेत्रपरमात्मप Page #41 -------------------------------------------------------------------------- ________________ आराधनासारः दार्थविलक्षणनिद्रादर्शनावरणकर्मोदयेन स्थापलक्षणा निद्रा । यावदाहारस्य विजयः आसनस्य विजयः निद्राया विजयः । आहारादीनां विजय इति कोर्थः इति चेत् । यथा यौवनावस्थायां पुमान अनशनावमौदर्यादिभिस्तीवतपोविशेषैराहारजयं तथा आसनविजयं निद्राविजयं करोति तथा वृद्धावस्थायां कर्तुं न शक्नोति इति तात्पर्यः। कुतः आहारासननिद्रादीनां विजयोस्ति । अप्पणो आत्मनः आत्मनः सकाशात् । कथं । पूर्ण नूनं निश्चयेन । न केवलं आहारासननिद्राणां विजयोस्ति । जाम ण तरइ य यावन्न तरति च । कोसौ। णिज्जावओ निर्यापकः शास्त्रोक्तलक्षणः । केन । अप्पणेण य आत्मनैव । कं । अप्पाणं आत्मानं आचारशास्त्रोक्ताष्टचत्वारिंशन्निर्यापकाननपेक्ष्य आत्मनैव निर्यापको भूत्वा आत्मानं तरति यावत् । न केवलमात्मनैव निर्यापको भूत्वा आत्मानं यावत्तरति । जाम ण सिढिलायति य यावन शिथिलायते यावत्कालं शिथिल इव नाचरंति । कानि । अंगोपांगानि । अंगानि शिरोभुजादिलक्षणानि । एतभ्यः अवशेषाणि उपांगानि । उक्तं च " चरणयुगं बाहुयुगं पृष्ठकटी मस्तकादि वक्षश्च । एतान्यंगान्यष्टौ देहे शेषाण्युपांगानि " इति । न केवलं अंगोपांगानि शिथिलायते संधिबंधाई संधिबंधाश्च शरीरेऽस्यां संधयः संधानानि तेषां बंधः शिरास्नायुजालेन परस्परजड़ीकरणानि । न केवलमंगोपांगसंधिबंधाः शिथिलायंते । जाम ण कंपइ यावचन कंपते । कोसौ । देहो देहः शरीरं । कस्मात् । भयेण भयात् । कस्य । मिच्चुस्स मृत्योः देहात् प्राणसमुदायविघटनसामर्थ्ययुक्तनिजार्जितायुःकर्मभवस्थितिपरिसमापकसमयलक्षणकालस्य । क इव । भीउच्च भीत इव त्रासयुक्त इव । यथा कश्चन अतिरौद्ररूपसिंहव्याघ्रताडनमारणादिकारणेभ्यो भीतः कंपते तथायं देहो मरणभयात्कंपते, वृद्धावस्थायां हि शरीरे स्वयं कंप: संजायते । यावदीगवस्थाकारिणी वृद्धावस्था न समायाति तावद्यौवनभ Page #42 -------------------------------------------------------------------------- ________________ टीकासहितः। ध्यावस्थायां सत्यां स संन्यासार्हो भवतु इत्यग्रे वक्ष्यतीति तात्पर्य । न केवलं देहो मृत्योर्भयात् कंपते । जाम ण वियलइ यावन्न विगलति । कोसौ। उज्जमो उद्यमः कार्यारंभाय समुत्साहलक्षणः। केषु। संजमतवणाणझाणजोएसु संयमतपोज्ञानध्यानयोगेषु । तत्र संयमः इंद्रियप्राणादिसंयमनलक्षणः, तपः अनशनावमौदर्यादिलक्षणैर्बहुप्रकारः, ज्ञानं श्रुतज्ञानं, ध्यानं धर्मशुक्लरूपं, योगः यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधिलक्षणः । संयमश्च तपश्च ज्ञानं च ध्यानं च योगश्च संयमतपोज्ञानध्यानयोगास्तेषु । वृद्धावस्थायां हि संयमादिविषये उद्यमः स समयं समय विगलति एव । यथा यौवनावस्थायां समुत्साहस्तेषु समुदयति तथा न भवतीति । यावद्वृद्धावस्था न समायाति तावत्स पुरुषः उत्तमस्थानस्याहः संपद्यते इति तात्पर्य । उक्तं च" यावत्स्वस्थमिदं कलेवरगृहं यावच्च दूरे जरा । यावच्चेंद्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः । आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान् संदीप्ते भवने च कूपखननं प्रत्युद्यमः कीदृशः" ॥२५।२६।२७।२८॥ व्यवहाराहलक्षणं प्रपंच्य इदानीं निश्चयाहलक्षणं कथयति;सो सण्णासे उत्तो णिच्छयवाईहिं णिच्छयणएण । ससहावे विण्णासो सवणस्स वियप्परहियस्स ॥ २९ ॥ स संन्यासे उक्तः निश्चयवादिभिर्निश्चयनयेन । स्वस्वभावे विन्यासः श्रमणस्य विकल्परहितस्य ॥ २९ ॥ उत्तो उक्तः कथितः । कैः। णिच्छयवाईहिं निश्चयवादिभिः । केन कृत्वा । णिच्छयणएण निश्चयनयेन । कोसौ । अर्हः अत्रास्याध्याहारः अस्यैवाधिकारप्रतिपादनत्वात् । क । संन्यासे समाधिलक्षणे । कः । सः । स इति कः । यस्य सवणस्स श्रमणस्य आचार्यस्य अस्ति । कोसौ। Page #43 -------------------------------------------------------------------------- ________________ आराधनासारः विण्णासो विन्यासः विन्यसनं स्थापनमित्यर्थः । क विन्यासः । ससहावे स्वस्वभावे समस्तदेहादिविभावपरिणामविलक्षणसहजशुद्धचिदानंदसंदोहनिर्भरे स्वस्वरूपे । किं विशिष्टस्य श्रमणस्य । विकल्परहितस्य शरीरकलत्रपुत्रादिजनितसमस्तविकल्पवर्जितस्य विकल्परहितश्रमणस्य यस्य स्वस्वभावे विन्यासः स निश्चयनयेन निश्चयवादिभिः संन्यासार्ह उक्त इत्यन्वर्थः ॥ २९ ॥ .. इत्युक्तलक्षणार्हो भूत्वा पुमान् अन्यत् किं कृत्वा निरालंबमात्मानं भावयति इति पृष्टे खित्ता इत्याह;खित्ताइबाहिराणं अभितर मिच्छ पहुदिगंथाणं । चाए काऊण पुणो भावह अप्पा णिरालंबो ॥३०॥ क्षेत्रादिबाह्यानामभ्यंतरं मिथ्यात्वप्रभृतिग्रंथानाम् । त्यागं कृत्वा पुनर्भावयतात्मानं निरालंबम् ॥ ३०॥ भावह भावयत आराधयंत । कथं । पुनः। कं । अप्पा आत्मानं । किं विशिष्टं । णिरालंबो निरालंब केवलस्वस्वरूपावलंबनत्वात्सकलपरद्रव्यचिंताजनितविकल्पपरित्यागेन निर्गतो विनष्टः पदस्थपिंडस्थरूपस्थरूपातीतादिरूपोप्यालंबो यस्मात् स निरालंबः तं निरालंबं । किं कृत्वा । चायं काऊण त्यागं कृत्वा मुक्तस्य वस्तुनच्छर्दितवत्पुनरादानाभावलक्षणस्त्यागः तं । केषां । खित्ताइबाहिराणं क्षेत्रादिबाह्यानां क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदासकुप्यभांडबाह्यपरिग्रहाणां । उक्तं च “ सयणासणघरछित्तं सुवण्णधणधण्णकुप्पभंडाई । दुपयचउप्पय जाणसु एदे दस बाहिरा गंथा" ॥ ननु खित्ताई बाहिराणमित्युक्ते ग्रंथशब्दः कुतो लभ्यते । अग्रे प्रयुक्तत्वेनोपलक्षणत्वात् । न केवलं क्षेत्रादिबाह्यग्रंथानां त्यागं कृत्वा । अभंतरमि Page #44 -------------------------------------------------------------------------- ________________ टीकासहितः । च्छपहुदिगंथाणं अभ्यंतरमिथ्यात्वप्रभृतिग्रंथानां अभ्यंतरेऽशुद्धनिश्वयनयं परित्यज्य शुद्ध निश्चयनयप्रवर्तित आत्मनि मिथ्यात्वप्रभृतिग्रंथा मिथ्यात्ववेदरागहास्यादिषड्रदोषचतुष्कषायलक्षणाश्चतुर्दश परिग्रहास्तेषां । उक्तं चमिच्छत्तवयराया हासादीया य तह य छद्दोसा | चत्तारि तह कसाया अब्भंतर चउदसा गंथा बाह्याभ्यंतरपरिग्रहं त्यक्त्वा निरालंबमात्मानमाराधय इति तात्पर्यम् ॥ ३० ॥ नन्वेतेन ग्रंथपरित्यागेनात्मनः किं फलं भवतीति वदंतं प्रत्याह; संगचाएण फुडं जीवो परिणवइ उवसमो परमो । उवसमगओ हु जीवो अप्पसरूवे थिरो हवइ ॥ ३१ ॥ संगत्यागेन स्फुटं जीवः परिणमति उपशमं परमम् । उपशमगतस्तु जीव आत्मस्वरूपे स्थिरो भवति ॥ ३१ ॥ ܕܪ 11 परिणमइ परिणमति प्राप्नोति । कोसौ । जवो जीवः आत्मा । के । उवसमो उपशमं रागादि परिहारलक्षणं । कथंभूतं । परमो परमं उत्कृष्टकोटिप्राप्तं । केन कारणेन । संगञ्च्चाएण संगत्यागेन बाह्याभ्यंतर संगपरित्यागेन फुडं स्फुटं निश्चितं । नंनु उपशमं प्राप्त आत्मा कथंभूतो भवतीति प्रश्नोत्तरमाह । हवइ भवति । कोसौ । जीवः । कथंभूतस्तु । उवसमगओ हु. उपशमं गतस्तु उपशमगतोयं जीवः । कथंभूतो भवति । थिरो स्थिरः प्रचालयितुमशक्यः । क्क | अप्पसरूवे स्वकीये परमात्मस्वरूपे यत उपशमगतोयमात्मस्वरूपे स्थिरभिवति । उपशमस्तु संगत्यागेन जन्यते तत उपशमहेतुभूतं संगत्यागं विधाय परमात्मानमाराधयतेति तात्पर्यार्थः ॥ ३१ ॥ ननु ग्रंथवानप्यात्माराधको घटते चित्तनिर्मलीकरणत्वात् किं ग्रंथपरित्यागविकल्पेनेत्याशंक्याह;जाम ण गंथं छंडइ तामण चित्तस्स मलिणिमा मुचइ । दुविहपरिग्गहचाए णिम्मलचित्तो हवइ खवओ ॥ ३२ ॥ ३९. Page #45 -------------------------------------------------------------------------- ________________ ४० आराधनासारः यावन्न ग्रंथं त्यजति तावन्न चित्तस्य मलिनिमानं मुंचति । द्विविधपरिग्रहत्यागे निर्मलचित्तो भवति क्षपकः ॥ ३२ ॥ ___ण छंडइ न त्यजति । कोसौ । स पूर्वोक्त आराधकः । कथं । जाव यावत् यावत्कालं । कं । गंथं ग्रंथं परिग्रहं ताम ण मुयइ तावत्काल न मुंचति । कं। मलिणिमा मलिमिमान मलिनत्वं । कस्यं । चित्तस्स चित्तस्य यावत्कालपारमाणं ग्रंथं न त्यजति तावत्कालं चित्तमलिनतां न मुंचति इत्यर्थः । द्विविधपरिग्रहत्यागी कथंभूतो भवतीत्याह । हवइ भवति। कोसौ । खवओ क्षपकः कर्मक्षपणशीलः । कथंभूतो भवति । णिम्मलचित्तो निर्मलचित्तः रागद्वेषादिजनितसकलकालुष्यरहितचेताः । किं कृते सति । दुविहपरिग्गहचाए द्विविधपरिग्रहत्यागे बाह्याभ्यंतरभेदाद् द्विविधपरिग्रहत्यागे कृते सति यः कश्चिदात्मानमाराधयितुकामः स पूर्व चित्तशुद्ध्यै चित्तकालुष्यहेतून् परिग्रहान् ममैते तेभ्यः समाधानं जायते इतीमां शंकामपि विहाय परमात्मानं भावयेति तात्पर्यम् ॥ ३२ ॥ - ननु सामान्यनिग्रंथलक्षणमवादि भवद्भिरिदानी परमार्थनिग्रंथस्वरूपं श्रोतुकामोऽहं भगवन् श्रावयेति वदंतं प्रत्याह;देहो बाहिरगंथो अण्णो अक्खाण विसयअहिलासो। तसिं चाए खवओ परमत्थे हवइ णिग्गंथो॥ ३३॥ .. देहो बाह्यग्रंथो अन्यो अक्षाणां विषयाभिलाषः । तयोस्त्यागे क्षपकः परमार्थेन भवति निग्रंथः ॥ ३३ ॥ हवइ भवति । कोसौ । खवओ क्षपकः । कथंभूतो भवति । णिग्गंथो निग्रंथः। “एको मे शाश्वतश्चात्मा ज्ञानदर्शनलक्षणः । शेषा बहिर्भवा भावाः सर्वे संयोगलक्षणाः ॥" Page #46 -------------------------------------------------------------------------- ________________ टीकासहितः। इति श्लोकार्थाभिप्रायप्रवर्तनतया केवलं निजात्मद्रव्योपादानत्वासर्वसंगसंन्यासी। केन । परमत्थे परमार्थेन निश्चयेन । किं कृते सति । चाए त्यागे कृते सति । कयोः । तेसिं तयोः । तयोरिति तौ द्वौ प्रत्येक कथयति । भवति । कोसौ । बाहिरगंथो बाह्यग्रंथः बाह्यपरिग्रहः । कः सः। देहः शरीरं भवति च । कोसौ । अण्णो अन्यः बाह्यादन्यत्वादन्यः अभ्यंतरग्रंथ इत्यर्थः । स कः । विसयअहिलासो विषयाभिलाषः विषयवांछा । केषां । अक्खाण अक्षाणां इंद्रियाणां परमार्थेन देह एव बाह्यग्रंथः सर्वैः प्रत्यक्षत्वात् परमार्थेनेंद्रियाणां विषयाभिलाष अभ्यंतरग्रंथः अकायवाग्व्यापारे परेंद्रियैरप्रत्यक्षत्वात् इत्युक्तलक्षणयोबाह्याभ्यंतरग्रंथयोस्त्यागे कृते सति परमार्थनिर्ग्रथो भवन स्वस्वरूपाराधको भवतीत्याभिप्रायः॥ ३३ ॥ एवं गाथाचतुष्टयेन संगत्यागो व्याख्यातः,अधुना क्रमायातायाः कषायसल्लेखनाया व्याख्यानं गाथाषट्रेन कृत्वा आचार्यों निरूपयतीति समुदायपातनिका। ननु कषायसल्लेखनाकारी क्षपको यः स कथंभूतो भवतीति वदंतं प्रत्याह;इंदियमयं सरीरं णियणियविसएसु तेसु गमणिच्छा । ताणुवरि हयमोहो मंदकसाई हवइ खवओ ॥ ३४ ॥ इंद्रियमयं शरीरं निजनिजविषयेषु तेषु गमनेच्छम् । तेषामुपरि हतमोहो मंदकषायो भवति क्षपकः ॥ ३४ ॥ हवइ भवति । कोसौ । खवओ क्षपकः । किं भवति । मंदकसाई मंदकषायी । किं विशिष्टः । क्षपकः । हतमोहो हतमोहः हतो निराकृतो मोहो मूछी ममत्वपरिणामो येन स हतमोहः । क । उवरि उपरि । केषां तेषां स्वस्वविषयाणां । तेषामुपरीति किं तदेवस्पष्टमाह । भवति तत् शरीरं। किं भवति । गमणिच्छा गमनेच्छं गमने इच्छा यस्य तत् गमनेच्छं जिगमिषु । क । णियणियविसएसु निजनिजविषयेषु स्वकीयस्वकीयस्पर्शरसगंधधर्णशब्दलक्षणेषु । विषयेषु इत्युक्ते शरीरादावतिव्याप्तिः तन्नि Page #47 -------------------------------------------------------------------------- ________________ आराधनासारः - रासार्थ इंदियमयं स्पर्शनादिलक्षणैरािंद्रियैर्निवतं इंद्रियमयं । तथा च मंदकषायी शब्दोत्र संज्ञात्वेन कल्पितः अन्यथा मंदाश्चते कषायाश्चेति कर्मधारयसमासे कृते मत्यर्थीयसमासो न घटते “ न कर्मधारयान्मत्वर्थीय इति निषेधसूत्रदर्शनात् । तस्मात्कषायाणां तीवोदयाभावादनंतानुबंधिचतुष्टयस्य क्षयात् क्षयोपशमादा मंदकषायत्व संकेतितं । मंदकषायो अस्यास्तीतिमंदकषायी । अथवा मंदाः कषाया यस्मिन् कर्मणि तत् मंदकषायं तदस्यास्तीति । य एव कषायान मंदान् करोति स एव इंद्रियाणामुपरि हतमोहो भवति । एवं ज्ञात्वा कषायान् जित्वा शरीरेंद्रियविषयेषु हतमोहो भूत्वा परमात्मानमाराधयेत्यर्थः ॥ ३४ ॥ ननु अजितकषायस्य बाह्ययोगेनैव शरीरस्यापि संन्यासं कुर्वाणस्य मुनेः या सल्लेखना सा किं विफला चेति वदंतं प्रत्याह;सल्लेहणा सरीरे बाहिरजोएहि जा कया मुणिणा। सयलावि साणिरत्था जाम कसाए ण सल्लिहदि ॥३५॥ सल्लेखना शरीरे बाह्ययोगैः या कृता मुनिना । सकलापि सा निरर्था यावत्कषायान्न सल्लिखति।। ३५ ॥ भवतीत्यध्याहार्य व्याख्यायते। भवति । कासौ । सा सल्लेहणा सा सल्लेखना । किं भवति । णिरत्था निर्गतः सकलक्षयमोक्षलक्षणोर्थः प्रयोजनो यस्याः सा निरर्था निष्फला । कथंभूतापि । सयलावि सकलापि समस्तापि सेति का । या । का या । या कृता । केन । मुणिणा मुनिना महात्मना । कैः कारण भूतैः । बाहिरजोएहिं बाह्ययोगैः अशेषकर्मधर्मजनितसंतापविनाशहेतुभूतसाम्यविराजमानशुद्धपरमात्मसंलीनमनोयोगविलक्षणैः शीतातपवातोर्ध्वसंस्थानादेशदानादिकायवाग्व्यापारनिरोधलक्षणैर्बाह्ययोगैः । क । शरीरे । कियत्कालं निरर्था स्यादित्याह । जाव ण सल्लिहइ यावन्न सल्लिखति यावन्न परित्यजति । कान् । कसाए कषायान् कति विनाशयंति Page #48 -------------------------------------------------------------------------- ________________ टीकासाहितः। mwww चारित्रपरिणाममिति कषायास्तान मुनिना बाह्ययोगेन सा सल्लेखना कृता अंतःकषायपरिणामसद्भावात् सकला विफला सा भवतीति मत्वा निष्कषायत्वं प्रपद्य परमात्मानमाराधयतेति तात्पर्यम् ॥ ३५॥ __ ननु भगवन् कषायेषु का शक्तिः एते जगतः किं कुर्वतीति पृच्छतं प्रत्याह;अस्थि कसाया बलिया सुदुज्जया जहि तिहुअणं सयलं। भमइ भमाडिज्जंतो चउगइभवसायरे भीमे ॥ ३६॥ अस्ति कषाया बलिनः सुदुर्जया यैत्रिभुवनं सकलम् । भ्रमति भ्राम्यमानं चतुर्गतिभवसागरे भीमे ॥ ३६ ॥ अस्ति संत्यर्थे वर्तते । अत्थि संति । के। कसाया कषायाः । कथंभूताः । बलिया बलिनः अनादिकर्मबंधवशादनंतशक्तेरात्मनः स्ववशीकरणत्वात् वीर्यवंत इत्यर्थः । पुनः कथंभूताः। सुदुर्जया चतुर्थगुणस्थानमारभ्योपशांतकषा- . यगुणस्थानावधिवर्तमानावस्थारणभूमौ मुनिमल्लैश्चिरस्वेच्छाचरणाधीनत्वानिजविनाशशंकामगणयंतं प्रतिसमयं दृष्टश्रुतानुभूतपरपदार्थे प्रवर्तमानं परिणाम संकोच्य पुनः पुनः स्वस्वरूपस्थापनलक्षणेन दुःखेन जेतुं शक्या दुर्जयाः । तत्क्षणमनोविक्षेपकारित्वात् सुष्टु अतिशयेन दुर्जयाः सुदुर्जयाः। नन्वादिम-. गुणस्थानत्रयं तत्र कषायसद्भावेपि किमर्थं परित्यक्तं श्रीमद्भिरितिचेत् । युक्तमुक्तं । परं तबादिमगुणस्थानत्रयेपि कषायान् जेतुमनलं त्रप्लवो जीवाः तदृढतराधारस्वरूपप्ररूपणनिपुणमिथ्यात्वैकातपत्रसाम्राज्यात् तत्पक्षक्षपणप्रतिपक्षतादक्षसम्यक्त्वदृढतरप्रौढेरभावाच्च । जेहिं यैः कषायैः भमाडिज्जंतो भ्राम्यमानं सन् तिहुयणं त्रिभुवन विश्वं सयलं समस्तं भमइ भ्रमति पर्यटति । क । चउगइभवसागरे चतुर्गतिभवसागरे देवनरतिर्यग्नरकगत्युपलक्षितसंसारसमुद्रे । कथंभूते। भीमे रौद्रे विविधकर्मग्राहजनितदुःखानु-.. भवनत्वात् इति मत्त्वा क्षपकेण शुद्धपरमात्मानं सिषेविषुणा दुर्जयाः कषाया एव पूर्व तिरस्करणीया इति तात्पर्यार्थः ॥ ३६ ॥ Page #49 -------------------------------------------------------------------------- ________________ आराधनासारः ननु यावत्कषायवान् क्षपकः कषायान्न हंति तावत्किं किं न स्यादित्याह;जाम ण हणइ कसाए स कसाई णेव संजमी होइ। संजमरहियस्स गुणा ण हुंति सव्वे विसुद्धियरा ॥३७॥ यावन्न हंति कषायान् स कषायी नैव संयमी भवति । . संयमरहितस्य गुणा न भवंति सर्वे विशुद्धिकराः ॥ ३७ ॥ अत्रान्वयक्रमेण व्याख्यानं । स कसाई स पूर्वोक्तलक्षणः क्षपकः कषायीभूतः सन् जाव यावत्कालं कसाए कषायान् क्रोधादिलक्षणान् ण हणइ न हंति न निराकरोति तावदित्यध्याहारः 'यत्तदोर्नित्यसंबंधमितिवचनात् 'ताव तावत्कालं संजमी संयमी संयमयुक्तः ण होइ न भवत्येव एवेत्यत्र निचयार्थे । कुतः । यतः संजमरहियस्स संयमरहितस्य पुरुषस्य सव्वे गुणा सर्वे गुणाः सम्यग्दर्शनादयो गुणा विसुद्धियरा विशुद्धिकराः परिणामशुद्धिकारिणो ण हुंति न भवंति अतः परिणामशुद्धये कषायविजयेन संयममूरीकृत्य परमात्मानमाराधयत इति तात्पर्यम् ॥ ३७ ॥ ननु भगवन् कषायेषु किं करणीयं भवति मुनिभिस्तत्कृते किं फलं स्यादिति पृष्टे प्रत्युत्तरमाह;-- तम्हा जाणीहिं सया किसियरणं हवइ तेसु कायव्वं । किसिएसु कसाएमु अ सवणो झाणे थिरो हवइ ॥३०॥ तस्माद् ज्ञानिभिः सदा कृषीकरणं भवति तेषु कर्तव्यम् ।। कृषितेषु कषायेषु च श्रमणो ध्याने स्थिरो भवति ॥ ३८ ॥ तम्हा तस्मात् कारणात् णाणीहिं ज्ञानिभिः विवेकिभिः तेसु तेषु कषायेषु सया सदा सर्वकालं किसियरणं कृषीकरणं स्वस्वरूपन्यवस्थापनेन परपदार्थप्रवर्तमानपरिणामपूरदूरीकरणं कायव्वं कर्तव्यं करणीयं Page #50 -------------------------------------------------------------------------- ________________ टीकासहितः । ४५ हवइ भवति किसिसु कृषितेषु संज्वलनतां गतेषु कसाएसु कषायेषु च सत्सु झाणे ध्याने परमात्मस्वरूपचिंतायां धर्मशुक्ललक्षणे सवणो श्रमणो भट्टारको महात्मा विवेकी थिरो स्थिरो निश्चलात्मा हवइ भवति कषायकृषीकरणेन ध्यानस्थिरतां विधाय परमात्मानं चिंतयेति तात्पर्यम् ॥ ३८ ॥ संन्यस्ताः कषायाः किं न कुर्वतीत्याह; - सल्ले हिया कसाया करंति मुणिणो ण चित्तसंखोहं । चित्तक्खोहेण विणा पडिवज्जदि उत्तमं धम्मं ॥ ३९ ॥ सल्लेखिता कषायाः कुर्वेति मुनेर्न चित्तसंक्षोभम् । चित्तक्षोमेन विना प्रतिपद्यते उत्तमं धर्मम् ॥ ३९ ॥ 1 सल्लेहिया सल्लेखिताः संन्यस्ताः परित्यक्ताः कसाया कषायाः मुणिणो मुनेर्महात्मनः चित्तसखोहं चित्तसंक्षोभं मनोविक्षेपं ण करंति न कुर्वेति चित्तक्खोहेण विणा चित्तक्षोभेण विना मनोविक्षेपरहितेन उत्तमं परमकोटिमारूढं धम्मं धर्मः स्वस्वरूपस्वभावं प्रतिपद्यते स कषायसं -- न्यासी मुनिः प्राप्नोति । स्वस्वरूपलाभाय भव्यैः कषायसंन्यासो विधेय इति रहस्यं ॥ ३९ ॥ एवं कषायसल्लेखनानिर्देशस्वरूपकथनप्रपंचेन गाथाषट्रं । गता कषायसल्लेखना । अधुना " सीयाई " इत्यादि गाथासप्तकेन क्रमा यातं च चतुर्थस्थलगतं परीषहजयं कारयति इति समुदायपातनिका । सत्रादौ कति संख्याः परीषहाः किंस्वरूपा निर्दिष्टाः किं ते केन कर्तव्या इत्याह-सीयाई बावीसं परिसहसुहडा हवंति णायव्वा । जेयव्वा ते मुणिणा वरउवसमणाणखग्गेण ॥ ४० ॥ शीतादयो द्वाविंशतिः परीषहसुभटा भवंति ज्ञातव्याः । जेतव्यास्ते मुनिना वरोपशमज्ञानखङ्गेन ॥ ४० ॥ Page #51 -------------------------------------------------------------------------- ________________ ४६ आराधनासारः सीयाई शीतादयः शीत आदिर्येषां क्षुत्पिपासादीनां ते शीतादयः बावीसं द्वाविंशतिः द्वाविंशतिसंख्योपेताः परिसहसुहडा परीषहसुभटाः परीषहाः क्षुत्पिपासादिलक्षणाः त एव सुभटा रणरंगकुशलपुरुषविशेषाः शरीरपराभवकारणसामर्थ्यात् । ते किं कर्तव्या । हवंति भवंति णायव्वा ज्ञातव्याः स्वकीयावगमगोचरीकर्तव्या । कथमितिचेत् । भिक्षोः शुद्धाहारान्वेषिणः तदलामे ईषल्लाभे च दुस्तरेयं वेदना महांश्च कालो दीर्घाहेति विषादमकुर्वतोऽकाले देशे च भिक्षामगृह्णतः आवश्यकहानि मनागप्यनिच्छतः स्वाध्यायध्यानरतस्योदीर्णक्षद्वेदनस्यापि लाभादलाममधिकं मन्यमानस्य क्षुद्वाधाप्रत्ययचिंतनं क्षुद्विजयः॥१॥ अतीवोत्पन्नपिपासां प्रति प्रतीकारमकुर्वतो भिक्षाकालेऽपींगिताकारादिभिरपि योग्यमपि पानमप्रार्थयतो धैर्य प्रज्ञाबलेन पिपासासहनं ॥ २ ॥ शैत्यहेतुसन्निधाने तत्प्रतीकारानभिलाघस्य देहे निर्ममस्य पूर्वानुभूतोष्णमस्मरतो विषादरहितस्य संयमपालनार्थ शीतक्षमा ॥ ३॥ दाहप्रतीकाराकांक्षारहितस्य शीतद्रव्यप्रार्थनानुस्मरणोपेतस्य चारित्ररक्षणमुष्णसहनं ॥ ४ ॥ दंशमशकादिभिर्भक्षमाणस्याचलितचेतसः कर्मविपाकं स्मरतो निवृत्तप्रतीकारस्य शस्त्रघातादिपरान्मुखस्य दंशादिवाधासहनं ॥ ५॥ दंशग्रहणेन सिद्धे मशकग्रहणं सर्वोपघातोपलक्षणार्थ । स्त्रीरूपाणि नित्याशुचिबीभत्सकुणपभावेन पश्यतो यथाजातरूपमसंस्कृतविकारमभ्युपगतस्य वैराग्यमापन्नस्य नग्नमुत्तमं ॥ ६ ॥ कुतश्चिदुत्पन्नामरतिं निवार्य धृतिबलात्संयमरतिभावनस्य विषयसुखरतिं विषसमानं चिंतयतो दृष्टश्रुतानुभूतरतिस्मरणकथाश्रवणरहितस्यारतिपरीषहजयस्तेन चक्षुरादीनां सर्वेषामरतिहेतुत्वात् पृथगरतिग्रहणमयुक्तं कदाचित्क्षुदाद्यभावेपि कर्मोदयात्संयमे अरतिरुपजायते॥७॥ स्त्रीदर्शनस्पर्शनालापाभिलाषादिनिरुत्सुकस्य तदक्षिवक्रभूविकारशृंगाराकाररूपगतिहासलीलाविजृभितपीन्तेनतस्तनजननोरुमूलकक्षानाभिनिरीक्षणादिभिरावकृतचेतसस्त्यक्तवंशगीतादिश्रुतेः स्त्रीपरीषहजयः ॥८॥ देवादिवंदनाद्यर्थ गुरुणानुज्ञातगमनस्य संयमा Page #52 -------------------------------------------------------------------------- ________________ टीकासहितः। विघातिमार्गेण गच्छतोऽटव्यादिषु सहायाननपेक्षस्य शर्करादिभिर्जातखेदस्यापि पूर्योचितयानादिकमस्मरतश्चर्यापरीषहजयः ॥ ९॥ श्मशानादिस्थितस्य संकल्पितवीरासनाद्यन्यतमासनस्य प्रादुर्भूतोपसर्गस्यापि तत्प्रदेशाविचलतो ऽकृतमंत्रविद्यादिप्रतीकारस्य अनुभूतमृदास्तरणादिकमस्मरताश्चत्तविकाररहितस्य निषद्यातितिक्षा ॥१०॥ स्वाध्यायादिना खेदितस्य विषमादिशीतादिसु भूमिषु निद्रां मौहूर्तिकीभनुभवतः एकपादिशायिनो ज्ञातबाधस्याप्यस्पंदिनो व्यंतरादिभिर्विशस्यमानस्यापि त्यक्तपरिवर्तनपलायनस्य शार्दूलादिसहितोऽयं प्रदेशोऽचिरादतो निर्गमः श्रेयान् कदा राज्य विरमतीत्यकृतविषादस्य मृदुशयनमस्मरतः शयनादप्रच्यवतः शय्यासहनं ॥ ११ ॥ परं भस्मसात् कर्तुं शक्तस्याप्यनिष्टवचनानि शृण्वतः परमार्थावहितचेतसः स्वकर्मणो दोषं प्रयच्छतोऽनिष्टवचनसहनमाकोशजयः ॥ १२॥ चौरादिभिः कुद्धे शस्त्राग्न्यादिभिर्मार्यमाणस्याप्यनुत्पन्नवैरस्य मम पुराकृतकर्मफलमिदमिति इमे वराका किं कुर्वति शरीरामिदं स्वयमेव विनश्वरं दुःखदमेतैर्हन्यते न ज्ञानादिकर्म इति भावयतो बधपरीषहक्षमा ॥ १३ ॥ क्षुदध्वश्रमतपोरोगादिभिः प्रच्यावितवीर्यस्यापि शरीरसंदर्शनमात्रव्यापारस्य प्राणात्ययेप्याहारवसतिभेषजादीनभिधानमुखवैवांगसंज्ञादिभिरयाचमानस्य याचनसहनं ॥ १४॥ एकभोजनस्य मूर्तिमात्रदर्शनपरस्यैकत्र ग्रामे अलब्ध्या ग्रामांतरान्वेषणनिरुत्सुकस्य पाणिपुटपात्रस्य बहुदिवसेषु बहुषु च ग्रहेषु भिक्षामनवाप्यापि असंक्लिष्टचेतसो व्यपगतदातृविशेषपरीक्षस्य लाभादग्यलाभो मे परं तप इति संतुष्टस्य अलाभविजयः ॥ १५ ॥ स्वशरीरमन्यशरीरमिव मन्यमानस्य शरीरयात्राप्रसिद्धये वणलेपवदाहारमाचरतो जल्लौषधायनेकतपोविशेषधियोगपि शरीरनिस्पृहत्वात् व्याधिप्रतीकारानपेक्षिणः फलमिदमनेनोपायेनानृणी भवामीति चिंतयतो रोगसहनं ॥ १६ ॥ तृणगृहणमुपलक्षणं तेन शुष्कतृणपत्रभूमिकंटकफलकशिलादिषु प्रासुकेष्वसंस्कृतेषु व्याधिमार्गशीतादिननित Page #53 -------------------------------------------------------------------------- ________________ ४८ आराधनासारः wwwwwwwwwwwwwwwwwwwwwwwwww श्रमविनोदार्थ शय्यां निषद्यां वा भजमानस्य गमनमुकर्वतः शुष्कतृणपरुषशर्कराकंटकनिशितमृत्तिकादिबाधितमूर्तरुत्पन्नकंडूविकारस्य दुःखं मनस्यचिंतयतस्तृणस्पर्शसहनं ॥ १७ ॥ रविकिरणजनितप्रस्वेदलवसंलग्नपांसुनिचयस्य सिध्माकच्छूदद्रूभृतकायत्वादुत्पन्नायामपि कंडां कण्डूयनमर्दनादिरहितस्य स्नानानुलेपनादिकमस्मरतः स्वमलापचये परमलोपचये च प्रणिहितमनसो मलधारणं ॥ १८ ॥ केशलुंचासंस्काराभ्यामुत्पन्नखेदसहनं मलसामान्यसहनेंऽतर्भवतीति न पृथगुक्तं । सत्कारः पूजाप्रशंसात्मकः पुरस्कारः क्रियारंभादिष्वग्रतः करणं चिरोषितब्रह्मचर्यस्य महातपस्विनः स्वपरसमयज्ञस्य हितोपदेशकथामार्गकुशलस्य बहुतत्त्वपरवादिविजयिनः प्रणामभक्तिसंभ्रमासनप्रदानादीनि न मे कश्चित् करोति वरं मिथ्यादृशः स्वसमयगतमज्ञमपि सर्वज्ञसंभावनया सन्मान्य स्वसमयप्रभावनां कुर्वति व्यंतरादयः पुरात्युग्रतपसां प्रत्युग्रपूजां निवर्तयंतीति यदि न मिथ्याश्रुतिस्तदा कस्मादस्मादृशां एते समयगता अनादरं कुर्वति इति प्रणिधानरहितचित्तस्य मानापमानयोस्तुल्यस्य सत्कारपुरस्कारपरिषहजयः ॥ १९ ॥ अंगपूर्वप्रकीर्णकविशारदस्य अनुत्तरवादिनो मम पुरस्तादितरे भास्करप्रभाभिभूतोद्योतखद्योतवन्नितरामवभासते इति ज्ञानमदनिरासः प्रज्ञापरीषहजयः ॥ २०॥ अज्ञोऽयं न किंचिदपि वेत्ति पशुसमः इत्यायधिक्षेपवचनं सहमानस्य सततमध्ययनरतस्य निवृत्तानिष्टमनोवाक्कायचेष्टस्य महोपवासायनुष्ठायिनोद्यापि मे ज्ञानातिशयो नोत्पद्यते इत्यनभिसंदधतो अज्ञानपरीषहजयः॥ २१ ॥ दुष्करतपोनुछायिनो वैराग्यभावनापरस्य ज्ञातसकलतत्त्वस्य चिरंतनवतिनो अद्यापि मे ज्ञानातिशयो नोत्पद्यते महोपवासाद्यनुष्ठायिनां प्रातिहार्यविशेषाः प्रादुरभूवनिति प्रलापमात्रमनार्थकेयं प्रवज्या विफलं व्रतपालनमित्येवमचिंयतो दर्शनविशुद्धियोगाददर्शनपरीषहसहनम् ॥ २२ ॥ न केवल परीषहसुभटा ज्ञातव्या किंतु ते परीषहा जेयव्वा जेतव्याः । केन । मुणिणा मुनिना । केन करणभूतेन । वरउबसमणाणखग्गेण वरोपशमज्ञानखड्नेन वरोपशम Page #54 -------------------------------------------------------------------------- ________________ टीकासहितः। ज्ञान एव रागद्वेषाभाव एव खड्गस्तेन । एतेन परीषहान् सर्वान् जित्वा क्षपकः शुद्धात्मानं ध्यायतीति रहस्यं ॥ ४० ॥ संन्याससंग्रामांगणे परीषहसुभटैर्निराकृताः केचिद्धीनसत्त्वाः शरीरसुखं शरणं प्रविशंतीत्यादिशति;परिसहसुहडेहिं जिया केई सण्णासाहवे भग्गा । सरणं पइसंति पुणो सरीरपडियारसुक्खस्स ॥ ४१ ॥ परीषहसुभटर्निता केचित् संन्यासाहवाद्भग्नाः । शरणं प्रविशति पुनः शरीरप्रतीकारसुखस्य ॥ ११ ॥ परिसहसुहडोहं जिया परीषहसुभटैर्जिताः विनिर्जिताः केचित् चरित्रमोहोदयेन प्रच्छादितवृत्ता रुद्रादयो मुनयः सण्णासाहवे संन्यासाहवात् सर्वसंगपरित्यागलक्षणः संन्यासः चरित्रानुष्ठानं स एवाहवः संग्रामः ऋषभादिभिर्वीरपुरुषैः समाश्रितत्वात् तत्सहदीक्षितचतुःसहस्रनरेंद्रादिकातरपुरुषैः परित्यजनत्वात् सामान्यैः श्रवणमात्रत्रासोत्पादकत्वात् नानानशनरसपरित्यागादिवतानुष्ठानकांडायस्त्रैः कायकदर्थनत्वात्, तस्मात्संन्याससंप्रामात् भग्गा भग्नाः पलायिताः परीषहान् सोढुमशक्ताश्चारित्ररणभूमिं परित्यज्य गता इत्यर्थः । ततो नष्टास्ते क गच्छंतीति पृष्टे प्रत्युत्तरमाह । सरीरपडियारसुक्खस्स शरीरप्रतीकारसुखस्य शरीरस्य निजदेहस्य प्रतीकारः प्रावरणभोजनादिविषयस्तदेव सुखं तस्य सरणं शरणमाश्रयं पुनः पविसंति प्रविशंति गच्छंति पूर्व तावत्किमपि वैराग्यमांत्रं प्राप्य समस्तदेहद्रियविषयजन्यसुखपुत्रमित्रकलत्रं परित्यज्य ख्यातिपूजालाभापहलौकिकस्वर्गापवर्गरूपपारलौकिककमनीयसुखसंपत्तिदायिनी जिनराजदीक्षा प्राप्ता ये तत्र दुर्धरतपोनुष्ठानं विलोकयंतो भीता वयमीदृशमाचरितुमक्षमाः पुनस्ते देवशास्त्रगुरुचतुर्विधसंघविद्यमानात्तप्रतिज्ञां परिहाय चतुर्गातकसंसारकूपपतनभीतमगणयंतः पुनरपि मनोवाक्कायकदर्थनसमर्थनानाविध Page #55 -------------------------------------------------------------------------- ________________ आराधनासारः दुःखजलसंभारभरितकृषिवाणिज्यादिगृहव्यापारपारावारकल्लोलं दोलायमानाः कापि कापि पंचेंद्रियविषयजनितसुखजलगतस्थलेषु विश्रमंति पुनरपि तत्फलेनानंतसंसारं पर्यटन्ति । एवं चेतसि विज्ञाय संसारभीतिं चित्ते समारोप्य जिनराजदीक्षा नीत्वा देहममत्वपरिहारेण दुर्धरपरीद्वषजयं कृत्वा परमात्मानमाराधयत इति तात्पर्यम् ।। ४१ ।। ननु परिषहसुभटैः पराभूयमानो मुनिः केनोपायेन तान् जयतीति पृष्टः सन्निमां भावानां सद्धेतुमंतरंगकरे कारयति;दुक्खाइं अणेयाई सहियाई परवसेण संसारे । इण्हं सवसो विसहसु अप्पसहावे मणो किच्चा ॥४२॥ दुःखान्यनेकानि सोढानि परवशेन संसारे । इदानी स्ववशो विषहस्व आत्मस्वभावे मनः कृत्वा ॥ ४२ ॥ भो आत्मन्, अस्मिन् संसारे भवे जन्मजरामरणपरिवर्तने परवशेन निजचिरदुरार्जितकर्मविपाकत्वादन्याधीनतावस्थाविशेषेण अणेयाइं अनेकानि चतुर्गतिषु संभवत्वेन घोरासुरोदीरिततिलमात्रगावकर्तनतप्ततैलकटाहावर्तनासिपत्रवनांतरालवर्तनप्रज्वलितवालुकास्थलविहित-नर्तनपरस्परप्रक्षिप्तघातछेदनक्रकचविदारणातिभारारोपणबंधदाहशीतोष्णयात-दारिद्रपुत्रशोकप्रियावियोगनृपराभवसुतविहितद्यूतक्रीडादिदुर्व्यसनसंभवपरपरमार्द्धिदर्शनोद्भवमानसिकादिभेदात् अनेकभेदानि दुखाइ दुःखानि । किंकृतानि । सहियाई सोढानि त्वया अनुभूतानि आस्वादितानि सेवितानीति यावत् । इण्हं इदानीं संप्रति तपश्चरणावस्थायां सवसो स्ववशः आत्माधीनःसन अप्पसहाबे आत्मस्वभावे स्वस्वरूपे मणो मनश्चित्तं किच्चा कृत्वा विसहसु विषहस्व विशेषेण सहस्व भो आत्मन त्वमिह तपोनुष्ठाने हठात्केनापि न नियुक्तस्त्वमेवं कुरु त्वं स्वयमेव संसारशरीरभोगषु विरज्य तपसि परायणो जातोसि अतस्तावकीना स्वाधीना प्रवृत्तिः न Page #56 -------------------------------------------------------------------------- ________________ टीकासहितः। ५१ पराधीनता कापीह । पूर्व तावदेव योनिषु संसारे पराधीनतां गतेन स्वसामर्थ्याभावादनेकभेदानि दुःखानि भुक्तानि अधुना हठयाहितचारित्वात् स्ववशः सन् शुद्धभावे मनो विधाय परीषहान् सहस्वेति भावः ॥ ४२ ॥ तीब्रवेदनाक्रांतो यदि परमोपशमशालिनी भावनां करोषि तदा कर्माणि हंतीत्याचष्टे;अइतिव्ववेयणाए अकंतो कुणसि भावणा सुसमा । जइ तो णिहणसि कम्मं असुहं सव्वं खणद्धेण ॥४३॥ अतितीव्रवेदनाया आक्रांतः करोषि भावनां सुसमां । यदि तदा निहंसि कर्म अशुभं सर्व क्षणार्धेन ॥ ४३ ॥ ____ अइतिव्ववेयणाए अतितीव्रवेदनया अतिशयेन तीवा कठोरा दुस्सहवेदना क्षुत्पिपासादिपरीषहसमुत्पन्नमनोवाक्कायकदर्थनासातया अकंतो आक्रांतः पीडितः यदि त्वं भो क्षपकपुरुष सुसमा सुसमां सुष्ठु अतिशयेन समा विग्रहादिषु ममेदमस्याहमित्याग्रहासंग्रहीतपरिणामनिग्रहणेन रुग्जरादिविकृतिर्न मेंजसा सा तनोरमितः सदा पृथक् मिलितेपि सति खेऽविकारिता जायते न जलदैर्विकाशिभरित्यादिसूक्तिपरंपराविचारिनीरपूरणरागद्वेषमोहसंभवसमस्तविभावपरिणामसंकल्पविकल्पलक्षणजाज्वल्यमानानिनिःशेषेणोपशम्य चित्तस्य चिद्रूपे शुद्धपरमात्मनि स्थितिलक्षणा या सुसमा तां सुसमां भावणा भावनां मुहुर्मुहुश्चेतसि अनित्याद्यनुप्रेक्षाचिंतनलक्षणां जइ कुणसि यदि करोषि तो तदा काले असुहं अशुभं सव्वं सर्व कम्मं घातिकर्मचतुष्टयस्वरूपं सर्वमशुभं कर्म खणद्धेण क्षणार्धेन अंतर्मुहूर्तेन णिहणसि निहंसि क्षपयसि यावदत्र रागद्वेषोत्पादकेष्विष्टानिष्टशुद्धपरमात्मपदार्थनिरंतरचिंतनानुरागबलेन सुसमां भावनां न करोषि तावत् कर्माणि क्षपयितुं परीषहजानततीव्रवेदनां सोढुं च न शक्नोषि । एवं ज्ञात्वा परीषहदुःखेषूत्पद्यमानेष्वपि 'परमात्मनि भावना कर्तव्या इति ॥४३॥ Page #57 -------------------------------------------------------------------------- ________________ पर आराधनासारः mmmmmmmmmmm ननु परीषहान् सोढुमशवकुाना ये अनेकभवगहनदुःखनिर्घादनसमर्थे ग्रहीतं चारित्रं परित्यजति तेषामिह लोके परलोके च किं फलमिति तदाह: . परिसहमडाण भीया पुरिसा छंडंति चरणरणभूमी। भुवि उवहासं पविया दुक्खाणं हुति ते णिलया ॥४४॥ परीषहभटेभ्यो भीताः पुरुषास्त्यति चरणरणभूमिम् । भुवि उपहासं प्राप्ता दुःखानां भवंति ते निलयाः ॥ ४४ ॥ __ये केचित् परिसहभडाण परीषहभटेभ्यः परीषहा एव भटाः शरीरेण शीतातपत्ापादिकठोरघातपानकत्वात् तेभ्यो भीया भीताः स्वस्वभावादन्यमनस्कतां नीताः पुरिसा पुरुषाः चरणरणभूमी चरणरणभूमि चरणं चारित्रं तदेव रणभूमिः संग्रामभूमिः व्रतसमितिगुप्तिप्रभृतिसैन्यपरिग्रहप्रवरविजृभमाणप्रभुत्वेन स्वरूपावस्थानसाम्राज्यभाज्यात्मनुपण निर्बाधभेदबोधासिना अनादिकामक्रोधमोहादिसैन्यशालिनां कर्मारीणां विध्वंसत्वात् तां रणभूमि छंडंति परित्यजति मुंचंति । ते कथंभूता भवतीत्याह । भुवि इहलोके उवहासं उपहास्यं सज्जनानां म्लानीकरणकारणदुर्जनजनजनितधिक्कारांगुलिप्रसरपरस्परभ्रूविकाराविष्करणलक्षणं पाविय प्राप्ताः । परलोके च किंविशिष्टा । हुति भवंति दुःक्खाणं दुःखानां अनंतसंसारसंभवसकलाकुलत्वोत्पादकत्वात्मकलक्षणानां णिलया निलयाः स्थानानि तद्रूपवस्तुसमाश्रयत्वात् ते चारित्रभोक्तारः भवंति यस्मादेवं तस्मादिहलोकफलहानिमवलोक्य मा चारित्रं त्यजंतु मुनयः परिणामपरावर्तनतया तत्क्षणविध्वंसत्वात् किं मे परीषहवराकाः करिष्यति इति दृढतरं चित्तं विधाय परीषहदुःखमवगणय्य शुद्धपरमात्मानं भावयेति तात्पर्यम् ॥ ४४॥ . अथ गाथायाः पूर्वार्धन यदि परीषहेभ्यो भीतस्तदा गुप्तित्रयमेव दुर्गमाश्रय अपरार्धेन च मोक्षगतं मनोवाणं विधेहीति शिक्षयति; Page #58 -------------------------------------------------------------------------- ________________ टीकासहितः। परिसहपराचक्काभिओ जइं तो पइसेहि गुत्तितयगुत्ति। ठाणं कुण सुसहावे मोक्खगयं कुणसु मणवाणं ॥४५॥ परीषहपरचक्रभीतो यदि तदा प्रविश गुप्तित्रयगुप्तिम् । स्थानं कुरुष्व स्वस्वमावे मोक्षगतं कुरुष्व मनोवाणम् ॥ ४६॥ भो क्षपक पइसेहि प्रविश तो तदा जइ परिसहपरचक्कभिओ यदि परीषहपरचक्रभीतः कर्मनिर्जरार्थ मुनिभिः परितः सर्वप्रकारेण सह्यंत इति परीषहाः परीषहा एव परचक्र शत्रुसैन्यं परीषहपरचक्र तस्माद्भीतः साध्वसाकांतः परीषहपरचक्रभीतः यदि त्वं दुःसहपरीषहवैरिवीररजनितभीतिचलितचित्तोसि तदा प्रविश । कं गुत्तितयगुतिं गुप्तित्रयगुप्तिं गोपनं गुप्तिः मनोवाक्कायानां सम्यग्निग्रहो गुप्तिः गुप्तीनां त्रयं गुप्तित्रयं गुप्तित्रयमेव गुप्तिः परीषहशत्रूणामगम्यं दुर्ग चिच्चमत्कारमात्रपरमब्रह्मलक्षणं । अब मनोवचनकायगुप्तिकारणं परमसमयसारानुचितनमेव । यदुक्तं-- “ अलमलमतिजल्पैर्दुर्विकल्पैरनल्पैरयमिह परमार्थश्चिंत्यतां नित्यमेकः । स्वरसविसरपूर्णज्ञानविस्फूर्तिमात्रन्न खलु समयसारादुत्तरं किंचिदस्ति " ॥ .. तथा ठाणं कुण सुसहावे पुनरपि कुरुष्व । किं तत् । स्थानमवस्थानं । कस्मिन् । स्वस्वभावे सहजशुद्धचिदानंदैकस्वभावे निजात्मनि । मुहुः शिक्षां यच्छन्नाह । मोक्खगयं कुणसु माणवाणं कुरुष्व । कं । मनोवाणं । मनश्चित्तं तदेवातिचंचलत्वाद्वाणः शरः मनोवाणस्तं मनोवाणं । कीदृशं कुरुष्व । मोक्षगतं सकलकर्मविप्रमोक्षो मोक्षस्तत्र गतः स्थितः मोक्षगतः तं मोक्षगतं अनंतसुखपदप्रतिष्ठितं निजमनो विधेहि । परीषहादिवैरिव्रातजनितातंकं हित्वेति भावार्थः । यथा कश्चिच्छूरः तनुत्राणेन तनुं परिवेष्य वै शाखादिस्थानं विरचयित्वा वाणं मोक्षगतं विसर्गगतं कुरुते तथा ॥४५॥ Page #59 -------------------------------------------------------------------------- ________________ ५४ आराधनासारः परीषहदवदहनतप्तो यदि ज्ञानसरोवरे प्रविशति जीवस्तदा किं लभते इत्याबेदयत्याचार्य:परिसहदवग्गितत्तो पइसइ जइ णाणसरवरे जीवो। ससहावजलपसित्तो णिव्वाणं लहइ अवियप्पो॥४६॥ परीषहदवाग्नितप्तः प्रविशति यदि ज्ञानसरोवरे जीवः । स्वस्वभावजलप्रसिक्तो निर्वाणं लभते अविकल्पः ॥ ४६॥ परिसहदवग्गितत्तो परीषहदवाग्नितप्तः उक्तलक्षणाः परीषहास्त एव दवाग्निः' क्षुत्पिपासादिभिः शरीरसंतापजनकत्वात् तेन तप्तः सन् जीवो जीवः आत्मा गाणसरवरे ज्ञानसरोवरे अमीभिः परीषहैर्यद्वाध्यते तदहं न भवामि योऽहं स परीषहलेशैरपि स्पृष्टुमपि न शक्यः । शरीरामनोरत्यंतमंतरमिति लक्षितत्वादित्यादि भेदज्ञानं तदेव सरोवरं तत्तापापोहाय मोहापोहिभिरवगाहितत्वात् जइ पविसइ यदि प्रविशति यदि प्रवेशं करोति तदा । किं भवतीत्याह । ससहावजलपसित्तो स्वस्वभावजलप्रसिक्तः तत्र स्वस्वभावः स्वकीयशुद्धपरमात्मनः स्वभावः परमानंदययः स एव जलं पानीयं सहजशुद्धचैतन्यनिर्विकारमात्मस्वरूपमेघजन्यत्वात् तेन प्रसिक्तः अभिषिक्तः । किं करोति । अवियप्पो अविकल्पो भूत्वा णिव्वाणं निर्वाणं परमालादलक्षणं लभते प्राप्नोति । यथा कश्चन दावाग्निना दह्यमानः सन् सरोवरे प्रविशति तत्र जलेन प्रसेव्यमानः शैत्यं प्राप्नोति तथासौ परीषहदावाग्निना दह्यमानो ज्ञानसरोवरमवगाह्य निर्वाणं प्राप्नोतीति तात्पर्य ॥ ४६॥ एतेन परीषहजयं व्यारव्यायाधुना कमायातमुपसर्गसहनमितीदं पंचमस्थलं षड्भिः गाथाभिः प्रथयति । __ तत्र यदि कथमपि मुनेर्दुःखजनका उपसर्गा भवति तदा तेन ते किं कर्तव्या भवतीत्याह;जइ हुंति कहविजइणो उवसग्गा बहुविहाहु दुहजणया। ते सहियव्वा प्रणं समभावणणाणचित्तेण ॥ ४७ ॥ Page #60 -------------------------------------------------------------------------- ________________ टीकासहितः। यदि भवंति कथमपि यतरुपसर्गा बहुविधा खलु दुःखजनकाः । ते सोढव्या नूनं समभावनाज्ञानचित्तेन ॥ ४७ ॥ जइणो यतेर्मुनीश्वरस्य कहावं कथमाप पुरा दुरर्जितकर्मोदयेन बहुविहा बहुविधाः सचेतनाचेतनप्रभवाः दुहजणया दुःखजनका दुःखोत्पादका उवसग्गा उपसर्गा उपद्रवलक्षणा जइ हुंति यदि भवंति हु खलु । ते उपसर्गाः । किं कर्तव्याः । सोढव्वा सोढव्या नूनं अंगीकर्तव्याः । केन । मुनिना । किं विशिष्टेन । समभावणणाणचित्तण समभावनज्ञानचित्तेन दुःखे सुखेऽमित्रे मित्रे बने भवनेऽलाभे लाभे काचे सुवर्णे समाना भावना समभावना प्रोच्यते । कस्मात् । तदवस्थायां रागद्वेषयोरभावात्। समभावनायां यत्स्वसंवेदनज्ञानं समभावनज्ञानं समभावनज्ञानं चित्ते यस्यासौ समभावनज्ञानचित्तः तेन समभावनज्ञानचित्तेन । तथा चोक्तं ज्ञानार्णवे। “ सौधोत्संगे स्मशाने स्तुतिशपनविधौ कर्दमे कुंकुमे वा । पल्यंके कंटकाग्रे दृषदि शशिमणौ चर्म चीींशुकेषु । शीरेंगे दिव्यनार्यामशमनमवशा स्वस्य चित्तं विकल्पै । र्नालीढं सोयमेकः कलयति कुशलः साम्यलीलाविलासम् " ॥ ततो नानाविधेषु घोरोपसर्गेषु उपढौकितेषु सत्स्वपि मुमुक्षुणामुनिना निजचिरदुरर्जितकर्मविपाकं बुद्धा निरुपद्रवशुद्धपरमात्मस्वसंवेदनज्ञानभावनाबलेन शरीरे ममतां परिहाय समतामवलंब्य स्थातव्यमितितात्पर्यम् ॥४७॥ णाणमयभावणाए भावियचित्तेहिं पुरिससीहेहिं । सहिया महोवसग्गा अचेयणादीय चउभेया ॥४८॥ ज्ञानमयभावनया भावितचित्तैः पुरुषसिंहैः । सोढा महोपसर्गा अचेतनादिकाः चतुर्भेदाः ॥ ४८ ॥ Page #61 -------------------------------------------------------------------------- ________________ आराधनासारः णाणमयभावणाए ज्ञानमयभावनया ज्ञानेन निवृत्ता यासौ भावना वासना सा ज्ञानमयभावना तया ज्ञानमयभावनया भावयचित्तेहिं भावितचित्तैर्वासितांतरंगैः पुरिससीहोहिं पुरुषसिंहैः- पुरुषप्रधानैः । अत्र प्रशस्यवाची पुरुषपदस्यांते सिंहशब्दः अमरकोशाद्यभिधानेषूक्तवान् । अचेयणादीय अचेतनादिका चउभेया चतुर्भेदाश्चतुःप्रकाराः महोवसग्गा महोपसर्गाः महांतश्चते उपसर्गाश्च महोपसर्गाः । महांतश्चेति विशेषणे कृते कोर्थः । तैरपि पुरुषसिंहर्मनागपि मनोविक्षेपरहितैः सोढुं शक्या नान्यैः सामान्यैः कानरत्वेनासहमानत्वादित्यर्थः सहिया सोढाः 'षह मर्षणे' क्षमिता योगधैर्याविर्भावहेतुभूतायां बाधायां सत्यामपि मनसि मनसा वा येषां सहनं न सर्वो भवतीति किंतु निर्जराथै तेषामपि सहनमेवेत्यर्थः ॥ ४८॥ ननु चेतनादयश्चतुर्भेदा उपसर्गा निर्दिष्टास्ते के कैश्चते सोढा इति प्रश्ने कृते गाथापूर्वार्धनाचेतनाकृतोपसर्गा अपरार्धेन तिर्यकृतश्च अचेतनकृतोपसर्गसोढारं शिवभूतिनामादिं कृत्वा प्रथयति;सिवभूइणा विसहिओ महोवसग्गो हु चेयणारहिओ। सुकुमालकोसलेहि य तिरियंचकओ महाभीमो ॥४९॥ शिवभतिना विसोढो महोपसर्गः खलु चेतनारहितः । सुकुमालकोसलाभ्यां च तिर्यककृतो महाभीमः ॥ ४९ ॥ विसहिओ विसोढः विशेषेण चिदानन्दोत्थपरमसुखामृतरसास्वादबलेन षोढः । कोसौ । महोवसग्गो महोपसर्गः महांश्चासौ उपसर्गश्च महोपसर्गः छेदनभेदनमारणादिरूपः । केन विषोढः । सिवभूइणा शिवभूतिना। शिवभूति म कश्चिद्राजकुमारस्तेन शिवभूतिना । कीदृशः उपसर्गः । चेयणारहिओ चेतनारहितः अचेतनैरग्निजलपाषाणशिलापातादिभिः कृतत्वादुपसर्गोप्यचेतनः शिवभूतिना अचेतनमहोपसर्गा यथा सोढास्तत्कथामाख्याति Page #62 -------------------------------------------------------------------------- ________________ टीकासहितः । चंपापुर्यामभूद्भूपो विक्रमः स्मेरविक्रमः । शिवभूतिः सुतस्तस्य शिववद्भूतिभूपतिः „ ॥ “ तदात्वोद्भूतवात्याभिः खंडशः कृतमंबरे । वीक्ष्यान्यदा स सांद्राभ्रं मनसीति विचिंतयत् ८८ ८८ धिग् धिग् भवमिमं यत्र सुखं नैवात्र किंचन । तथापि नैव वुध्यते महामोहा हहांगिन: " 11 क्षणप्रध्वंसिनो दुष्टकायस्यास्य कृते कथम् । बह्वारंभा विधीयते मोहेनांधं भविष्णुभिः " ॥ 66 इति वैराग्यरंगेन रंगितात्मा स तत्क्षणात् । भोगांस्त्यक्त्वा तृणानीव जैनीं दीक्षामश्रियत् " ॥ (6 अभ्यस्यन् स ततो योगं तपस्यन् दुस्तपं तपः । वनेऽन्यदा प्रतिमया तस्थौ क्वापि तरोस्तले " ॥ " तदा ज्वलन्मिथो वंशघर्षणोत्थदवानलः । ज्वलद्दारुस्फुटशत्रुटच्छब्द भयंकरः " ॥ " अविशेषतया सर्वं ज्वालयन्स दवानलः । अपीडयत मुनिमपि क विवेको ह्यचेतने " ॥ " तस्थौ तरोस्तले यस्य ज्वलतो वह्निना तनोः । निपेदवद्भिरालातैः प्रत्यंगं स कदर्थितः " ॥ " एवं दावानलेनोच्चैरालीढोप्येष सर्वतः । मनागप्यचलद्ध्यानान्नारिरद् दृढता सताम् " ॥ उक्तं च समयसारे 16 ८८ सम्यग्दृष्टय एव साहसमिदं कर्तुं क्षमते परं यद्वपि पतंत्यमी भयचल त्रैलोक्यमुक्ताध्वनि । सर्वामेव निसर्गनिर्भयतया शंकां विहाय स्वयं जानंत: स्वमबध्यबोधवपुषं बोधाच्च्यवन्ते न हि " ॥ ܐܕ ५७ Page #63 -------------------------------------------------------------------------- ________________ आराधनासारः " भावयन् स परं ब्रह्म छित्वा दुःकर्मसंचयम् । केवलज्ञानमासाद्य बभूवे मोक्षमक्षयम् ॥ इति शिवभूतिकथा। अथ तिर्यकृत उपसर्ग उभाभ्यां सोढस्तमारव्याति । तिरियंचकओ तिर्यकृतः तिर्यग्भिः व्याघ्रसिंहशूकरसर्पसैरिभसौरभेयशगालादिभिः कृत उपसर्गः तिर्यकृतः सोढः । काभ्यां । सुकुमालकोसलेहि सुकुमालकोशलाभ्यां सुकुमालश्च कोशलश्च सुकुमालकोशलौ ताभ्यां सुकुमालकोशलाभ्यां । कथंभूत उपसर्गः । महाभीमः अतिशयेन भयानकः । सुकुमालकोशलाभ्यां तिर्यकृत उपसर्गः सोढः । कथं सोढस्तदनयोः कथा । अथ जंबूद्वीपस्य भारते कौशांबीनगर्या विनमन्नरपालमौलिमालाशोणमणिकिरणकाश्मीरपूरातुरंगजितचरणकमलोऽतिबलो नाम राजाभूत् । तत्पुरोधाः राजसदसि प्राप्तप्रतिष्ठश्चतुर्वेदाभिज्ञः व्याकरणप्रमाणकवितारत्नरत्नाकरः विष्णुभक्तितत्परः प्रतिदिनमाचरितषट्कर्मा सोमशर्मा नाम तत्पत्नी काश्यपी तत्पुत्रावुभौ अग्निभूतिमरुभूतिनामानौ । अथैकदा द्विजम्मा पुत्रद्वयं प्रत्याह, रे सुतौ श्रुताभ्यासं भवंतौ तनुतं । यदुक्तम्-- भवति ह्यपि समूलोन्मूलने मत्तदंती जडमतिभिरनाशे पद्मिनीप्राणनाथः । नयनमपरमेतद्विश्वविश्वप्रकाशे करणहरिणबंधे वागुराज्ञानमेतत् ॥ अधीतशास्त्रः प्रज्ञावानपि भवति सर्वेषां गोचरः अलोचनगोचरे यर्थे शास्त्रं पुरुषाणां तृतीयं लोचनं अनधीतशास्त्रः चक्षुष्मानपि पुमानंध एव इति प्रतिबोधितावपि तौ नाधीयाते प्रत्युत पितरं क्लेशं नयतः । यदुक्तं प्रायो मूर्खस्य कोपाय सन्मार्गस्योपदेशनम् । निळूननासिकस्यैव विशुद्धादर्शदर्शनम् ॥ तदुष्टचेष्टौ पश्यन् विषयभोगयोगादुत्पन्नरोगो विप्रोऽकांडेपि मृतः । अथ Page #64 -------------------------------------------------------------------------- ________________ टीकासहितः । ५९ कियत्सु वासरेष्वतीतेषु राज्ञा तौ पुरोहितसुतावाहूय स्मृत्यर्थ पृष्ठौ । देव न जानीवहे इत्युत्तरं चक्रतुः । भूपेन अनध्ययनो ब्राह्मणोऽयाजनो देवानामिति विमृश्य तौ पुरोहितपदान्निराकृतौ । ततः पुरोहितभार्या अत्यर्थः दुःखिता सती उपभूपं गत्वा जजल्प । भो महीमहेंद्र किमिति मत्तनयौ हतवृत्ती विहितौ । राजा जगाद । तवात्मजौ निरक्षरशिरोमणी अततः सभं कामप्यभीष्यां न लभेते । यदुक्तं विद्वज्जनानां खलु मंडलीषु मूर्खो मनुष्यो लमते न शोभाम् । श्रेणीषु किं नाम सितच्छदानां काको वराकः श्रियमातनोति ॥ अथ तनयावाहूय ब्राह्मणी प्रोवाच । रे भयौवनवनच्छेदे कुठारौ नृपसदसि प्राप्तमानखंडनयोर्युवयोः मरणमेव शरणं । यदुक्तं मा जीवन यः परावज्ञादुःखदग्धोपि जीवति । तस्याजननिरेवास्तु जननी क्लेशकारिणः ॥ अथ सुतावूचतुः । मातर्जहीहि कोपं देहि शिक्षामतः परं कथमावयोः शास्त्रपाठलाभ: । साह । राजग्रहे नगरे भावत्कः पितृव्यो विदितव्याकरणोSaीततर्कशास्त्र न्यायशास्त्रपाथोधिपारीणः परवादिशिरः करोटी कुट्टकः सूर्यमित्र: सांप्रतं निःशेषमनीषिशिरोमणिर्वरीवर्ति तदितस्त्वरितं गत्वा तमाराध्य विद्याभ्यासं युवामाचरतां । तौ च तन्मातृवचनं निशम्य राजगृहनगरं त्वरितमगमतां । तत्र सूर्यमित्रसदनं सद्यः प्रविश्य उपाध्यायं च नमस्कृत्य तत्पुरो भूमावुपविष्टौ । सूर्यमित्रोपि तद्युगलमपूर्वमालोक्य विस्मयवांतचेताः अपृच्छत् । कौ युवां कस्मादागतौ कस्यात्मजौ किमिह करणीयं चेति । तावूचतुः । कौशाम्ब्या आगतौ सोमशर्मात्मजौ अग्निभूतिमरुद्भूतिनामानौं त्वमाराध्यावां शास्त्राभ्यासं चिकीर्षावः । सूर्यमित्रोपि मदीयज्येष्टभ्रातृपुत्रा-. विमाविति संबंधं जानन्नपि जुगोप | यदि विद्यां जिघृक्षू युवां तदा व्यसनानि त्यजतां यतो व्यसनिनो विद्यासिद्धिर्न भवति ॥ यदुक्तं Page #65 -------------------------------------------------------------------------- ________________ 1 . आराधनासार स्तब्धस्य नश्यति यशो विषमस्य मैत्री नष्टक्रियस्य कुलमर्थपरस्य धर्मः । विद्याफलं व्यसनिनः कृपणस्य सौख्यं राज्यं प्रणष्टसचिवस्य नराधिपस्य । भिक्षाया निजोदरपूरणं गुरुशुश्रूषणं भूमिशयनं च वितन्वतोर्भवतोः श्रुतावधारणशक्तिः । अथ तच्छिष्यद्वयं स उपाध्यायः सभाष्यं व्याकरणमपीपठत् वेदांश्च सांगानध्यजीग्यपत् प्रमाणशास्त्राण्यबूबुधत् । अथ सुप्रसन्ने गुरौ । शिष्योऽवश्यमचिरेणैव विद्यांबुधिपारदृश्वा भवत्येव ॥ यदुक्तं गुरोः प्रसादाद्धि सदा सुखेन प्रागल्भमायाति विनेयबुद्धिः । माधुर्यमाम्रोद्भवमंजराणीमास्वादनात्कोकिलवागिवाशु ॥ ततः सूर्यमित्रेण तौ सद्वस्त्राभरणैः संमान्य मम भ्रातृपुत्रौ युवामिति संबंधं प्रकाश्य आत्मपुरं व्रजतमित्युदीर्य च प्रेषितौ । तौ च निजनगरं प्राप्य महीपालं विद्वत्तयानुरज्य स्वपदं लेभाते सुखेन च तस्थतुः । इतश्च राजगृहे जलांजलिं सूर्याय ददतः सूर्यमित्रस्य करान्नृपदत्ता मुद्रिकान्तःकमलं पपात । अथ गृहं गतः सूर्यमित्रो मुद्रिका हस्तांगुलावपश्यन् किं नृपस्योत्तरं दास्यामीति व्याकुली बभूव । ततः सुधर्ममुनिमष्टांगनिमित्तकोविदं गत्वा च पर्यनुयोग चकार । यतिरुवाच । भो द्विज मास्म दुःखं कार्षीः यत्र त्वया जलांजलिः क्षिप्ता तत्र करान्निसृत्य पद्मकोशे निपतिता । प्रात: सत्वरं गत्वा गृह्णीथाः । सोपि नान्यथा यतिवचनमिति कृतनिश्चयो निजनिलयमीयिवान् । निशावसाने अंगुलीयकं नलिनांतर्लब्धवान् । अहो दिगंबरा एव नितरां यदभूत् यद्भविष्यति यच्च वर्तते तत्सर्वं सर्वतो विदंति तदहमेतानुपास्य त्रिकालवेदी भविष्यामि इति विमृश्य मतिश्रुतावधिज्ञानलोचनं यतीशं गत्वा कपटेन ववंदे । उवाच च रोहणं सूक्तिरत्नानां वंदे वृंदं विपश्चिताम् । यन्मध्यं पतितो नीचकाचोप्युच्चैर्मणीयते ॥. Page #66 -------------------------------------------------------------------------- ________________ टीकासहितः । ६१ तदहमपि त्वत्पादप्रसादेन त्वमिव ज्ञानी बुभूषामि । मुनिरपि तं सूर्यमित्रमासन्नभव्यं विज्ञाय व्याजहार । भो अहमिव यदि त्वं दिगंबरः स्याः तदा ज्ञानी भवेः । सोपि “ दिगंबरो भूत्वा कलां गृहीत्वा पुनः स्वगृहं यास्यामीति विचार्य " जगाद | स्वामिन्मां दीक्षादानेन लघु प्रसादय । मुनिनापि स तपश्वरणं ग्राहितः । सोपि श्रुतपदानि पठन् सद्यः सम्यग्दृष्टिः दृढव्रतश्वाभूत् । यदुक्तं— शास्त्राग्नौ मणिवद्भव्यो विशुद्ध भाति निर्वृतः । अंगारवत् बलो दीप्तोऽमली वा भस्मना भवेत् ॥ गुरुमापृच्छ्य तीव्रतपश्चरणं चरन् कौशांबीनगरीं गतवान् । तत्र कांश्चिदुपवासान् कृत्वा पारणार्थमग्निभूतिमरुद्भूतिमंदिरं प्रविशन् । अग्निभूतिरपि सप्तगुणसमन्वितः तस्मै मुनये नवकोटिविशुद्धयाहारं दत्तवान् ततो मुनिगृहीताहारस्तद्गृहे क्षणं तस्थिवान् । सर्वैरपि द्विजात्मजैर्यतिर्नमस्कृतः । अग्निभूतिना प्रेरितोपि वायुभूतिर्मुनींद्रं न नमति केवलं जुगुप्सते । पुनरग्निभूतिः प्राह । रे त्वमनेन पाठितः एतादृशं महिमानं च प्रापितस्तत्किमेनं न नौषि । यदुक्तं - अक्षरस्यापि चैकस्य पदार्थस्य पदस्य च । दातारं विस्मरन् पापी किं पुनर्धर्मदेशिनम् || मरुद्धति: ब्रूतेस्म । अनेन दुरात्मनाहं भूमौ शायितः भिक्षान्नेन भोजित: अत्यर्थं क्रेशितः तदेनं वचनेनापि न संभावयामि किं पुनर्नमस्कारेण इति वाणो दोषानेव गृह्णाति । यदुक्तं गुणानगृह्णान् सुजनो न निर्वृतिं प्रयाति दोषानवदन्न दुर्जनः । चिरंतनाभ्यासनिबंधनेरिता गुणेषु दोषेषु च जायते मतिः ॥ मुनिरपि स्तुतौ निंदायां समधीरग्निभूतिना सह तपोवनं जगाम । अग्निमृतिरपि यत्र लघुरप्याज्ञाभंगमाचरति कथितं न पुनः कुरुते तत्र स्थातुं Page #67 -------------------------------------------------------------------------- ________________ ६२ आराधनासारः नोचितमिति ज्ञातवैराग्यो दीक्षां गृहीतवान् । अथाग्निभृतिपत्न्या वायुभूतिसमीपं निजगदे, रे यत्त्वया मुनिर्न नमस्कृतस्तेनैव निर्विण्णो भवदीयो बांधवो मुक्तगृहबंधनः प्रावाजीत् । रे दुरात्मन् शृंगपुच्छविरहितो द्विपदः पशुस्त्वमेतादृशीं लोकवंदितां पदवी प्रापितः तस्यावमाननां विदधानः कां गति यास्यसि । एवं दूषितो वायुभूतिरुत्थाय तां कोलताप्रहारेणाताडयत् । सा विकटामर्षप्रकर्षान्वितस्वांता निदानमिति बबंध येन क्रमेणाहं त्वया हता तमेव क्रममादिं कृत्वा तैरश्वमप्याश्रित्य त्वां पापिनं भक्षितुमिच्छामि ___ इतश्च वायूभूतिः कष्टीभूत्वा मृतस्तदनु खरीशूकरीकुक्कुर्यादिभवान लब्ध्वा चांडालपुत्री दुर्गधा समजनि । अग्निभूतिमुनिना सा दृष्टा संबोधिता । मकारत्रयनिवृत्तिं कारिता अणुवतं ग्राहिता च । तस्य व्रतस्य माहात्म्येन सा मृत्वा वाह्मणपुत्री नागश्री नामा बभूव । अथ सूर्यमित्राग्निभूतिमुनिभ्यां संबोधिता पाठिता च । सा च विज्ञातश्रुतरहस्या तौ नमस्कृत्य दीक्षां जग्राह । अनेकधा तपश्चरणं कृत्वा प्रांते चतुर्विधाहारपरिहारं च विधाय स्त्रीलिंगं च छित्वा षोडशे स्वर्गेऽच्युतेंद्रोऽजनि । यदुक्तं यदूरं यदुराराध्यं यच्च दूरे व्यवस्थितम् । तत्सर्व तपसा साध्यं तपो हि दुरतिक्रमः ॥ इतश्चावंतीविषये उज्जयिन्यां सोच्युतेंद्रोऽवतीर्य श्रेष्ठितनूजः सुकुमालनामा बभूव । स पूर्वोपार्जितशुभकर्मणा बहुधा राज्यादिकं प्राप्तवान् । यदुक्तं राज्यं च संपदो भोगाः कुले जन्म सुरूपता। पाण्डित्यमायुरारोग्यं धर्भस्यैतत्फलं विदुः । अथ तन्मातुलेन गुणाधराचार्येण सुकुमालसदनस्य पश्चिमायां दिशि वर्तमाने क्रीडोयाने समागत्य स्थितं । सुकुमालो मुनिदर्शनेनैव दीक्षा . १ अत्र पाठस्त्रुटितः प्रतीयते तेनाग्रेऽस्य संगतिर्योजयित्वा सम्यक् कृतोत्र । Page #68 -------------------------------------------------------------------------- ________________ टीकासहितः। स्वीकरिष्यतीति मत्त्वा गृहमध्य एव स्थाप्यते न बहिर्निष्कास्यते कदाचित् । अथ सुकुमालमात्रा मुनिरागत्य प्रोक्तस्त्वया अत्र न स्थातव्यं । तद्वचनं श्रुत्वा मुनिमौनमाश्रित्य स्थितः । अथ प्रभातकल्पायां निशि ऊर्ध्वलोकप्रज्ञप्ति पठन् मुनिः सुकुमालेनाश्रावि, अहमच्युतेंद्रोऽच्युते एतादृशानि सुखान्यालप्सि इति सस्मार सुकुमालः । ततस्तत्क्षणजातिस्मरः ज्ञातस्ववृत्तांतो मुनिसमीपमीयिवान् । यतिरपि तं धर्मोपदेशामृतेन संतोष्य न्यगदीत् । वत्स तवायुर्दिनत्रयमेव तत्त्वं परलोकसाधनोपायमाचर । सुकुमालोप्यासन्नभव्यत्वातत्क्षणसंजातवैराग्यो मुनिमानम्य दीक्षां जग्राह । ततो नगराद्वहिरुद्याने सुकुमालो मुनिर्दिनत्रयं यावत् गृहीतसंन्यासो योगमास्थाय तस्थिवान् तत्रैव वने सा अग्निभूतिभार्या बहूनि भवांतराणि पर्यट्य शृगाली बभूव । अथ तं मुनिमालोक्य भववैरसंबंधेन संस्मृतभवांतरचरित्रा तत्क्षणसमुद्भूतामर्षा सा शृगाली तमारभ्य खादितुं प्रवृत्ता । सुकुमालो मुनिरपि परमसाम्यमारूढः सम्यग्दर्शनज्ञानचारित्राविनाभृतचिदानंदध्यानसामर्थ्येन सर्वार्थसिद्धिं जगाम ॥ १ ॥ अथायोध्यापुर्या सिद्धधर्मार्थः सिद्धार्थो नाम श्रेष्ठी तस्य मनोवल्लभा वल्लभा जयावती । तयोः पुनः कलाकुशलः सुकोशलोऽजनि । यदुक्तम्-- . किं तेन जातु जातेन मातुयावनहारिणा । स जातो येन जातेन याति वंशः समुन्नतिम् ॥ प्रसादसदनं नंदनस्य वदनमालोक्य सम्यग्दृष्टिः स श्रेष्टी समाधिगुप्तनानो मुनेः पादांते प्रावाजीत् । यदुक्तं-- विरज्य कामभोगेषु विमुच्य वपुषि स्पृहाम् । भीतः संसारतो भव्यस्तपश्चरति दुश्चरम् ॥ . अतो जयावती श्रेष्ठिनी गृहीतदीक्षां भर्तारं कर्णिकयाकर्ण्य गत्वा च तमेवं ततर्ज । रे दुराचार कुलपांसन बालतनयप्रतिपालनं कर्तुमशक्तस्त्वं Page #69 -------------------------------------------------------------------------- ________________ आराधनासारः wwwwwwwwww नग्नीभूतः स्थितोसि । किं विधेकविकलस्य नग्नत्वमभिप्रेतार्थसिद्धये भवति । नग्नाः किं वृषभा न भवन्ति यतः सत्पुरुषो बालतनयमकार्यशतमपि कृत्वा प्रतिपालयति । यदुक्तम् वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः । अपकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत् ॥ तन्नग्नीभूय किं साधिताअथ सा तद्गुरुमप्येवमुपालम्भतवती भो मुने भवतामुं भार्यापुत्रयोः प्रतिपालकं श्रेष्ठिनं दीक्षयता अपरीक्षितमकारि । यदुक्तं अपरीक्षितं न कर्तव्यं कर्तव्यं सुपरीक्षितम् । पश्चाद्भवति संतापो ब्राह्मणी नकुलं यथा ॥ ततः कोपावेशवशंवदया तया गुरुशिष्यौ 'महे अस्मिन् पुरे च प्रवेशो न कर्तव्य ' इति निषिद्धौ इति जयावतीदुर्वचनकुठारैर्भिद्यमानमपि मुनिमनो न क्षोभमानम् । यदुक्तम् - लोक एव बहुभावभावितः स्वार्जितेन विविधेन कर्मणा । पश्यतोस्य विकृतीजेडात्मनः क्षोभमेति हृदयं न योगिनः ॥ अथ परमोपशमसरःस्नानशामितकोपतापौ तौ त्वरितं देशांतरमीयतुः । तत्र च सिद्धार्थो मुनिः गुरुपादांते कानिचित् श्रुतपदानि अभ्यासीत् अज्ञानमयं तमोविनाशमनैषीत् । अथ बहुषु वत्सरेषु अतीतेषु सिद्धार्थों मुनिर्गुरुमापृच्छ्य तामयोध्यामयासीत् । पूजापुरस्सरं सर्वो हि पौरो धर्मार्थी तं मुनिराजं प्राणसीत् । सुकोशलोपि मुनिदर्शनसंभवदमंदानंदः स्वजननीमप्राक्षीत् । मातरस्य दर्शनात् मम मनोऽत्यंत प्रसीदति नेत्रे च तृप्यतस्तदयं कः कस्मादुपागतश्च । माता च कालुष्यवांतस्वांता न किंचिद्वदतिस्म । ततो धात्री प्रोवाच । भो तनय इमं मुनिमात्मीयं जनकं जानीहि । त्वन्मुखमवलोक्यैव तपसे जगाम । सुकोशलोपि इदं पितृचरित्रं श्रुत्वा सद्योविषयविरतोऽजनि । यदुक्तं Page #70 -------------------------------------------------------------------------- ________________ टीकासहितः। विषयविरतिः संगत्यागः कषायविनिग्रहः । शमदमयमास्तत्त्वाभ्यासस्तपश्चरणोद्यमः। नियमितमनोवृत्तिभक्तिर्जिनेषु दयालुता भवति कृतिनः संसाराब्धेस्तटे निकटे सति ॥ ततो जनयित्रीमनापृच्छयैव तस्यैव यतेश्चरणांते तपो' जग्राह । मातापि पुत्रशोकादार्तध्यानपरायणा परासुरासीत् । तदनु मगधदेशमध्यवर्तिनि विकटाटवीपरिवेष्टिते मंगलनाम्नि शिलोच्चये पुरोक्षाव्याघ्री किलाजनिष्ट । यः खलु पुत्रादावभीष्टे मृते नष्टे प्रबजिते शोकमुपगच्छति तस्यावश्यं दुर्गतिर्भवति । यदुक्तं मृत्युर्गोचरमागते निजजने मोहेन यः शोककृ नो गंधोपि गुणस्य तस्य बहवो दोषाः पुनर्निश्चितम् । दुःख वर्धत एव नश्यति चतुर्वर्गो मतेविभ्रमः पापं रुक् च मृतिश्च दुर्गतिरथ स्याद्दीर्घसंसारिता ॥ अथ कदाचित्तौ सिद्धार्थसुकोशलाभिधानौ यतीशौ तस्मिन्नेव व्याघीसमुपवेष्टिते मंगलपर्वते मासचतुष्टयपर्यंतमनशनमादाय योगं च गृहीत्वा तस्थि. वांसौ । अथ चतुर्थमासेषु व्यतीतेषु तौ योगं निष्टाप्य पारणार्थ कांचनपुरीमुपसरतावंतराले तामेव व्याघ्रीं व्यलोकिषातां । इयं पापिष्ठा दुष्टानिष्टं करिष्यतीति संन्यासमादाय शुक्लध्यानमवलंब्य तस्थतुः । इतश्च सा व्याघ्री घोरतररूपा प्राग्जन्मसंस्कारजनिततीवकोषोत्तालज्वलनज्वालकराला गिरिकुहरान्निर्गत्य तन्मुनियुगं चखाद । तौ शुक्लध्यानबलेन निजनिरंजनशुद्धात्माभिमुखपरिणामपरिणतांतःकरणौ सर्वार्थसिद्धिमीयतुः ॥ इति सुकोशल कथा ॥ ४९ ॥ Page #71 -------------------------------------------------------------------------- ________________ आराधनासारः मनुष्यकृतोपसर्गो यः सोढस्तन्नामानि सूचयन्नाह;गुरुदत्तपंडवेहिं य गयवरकुमरेहिं तह य अवरेहिं । माणुसकर उवसग्गो सहिओ हु महाणुभावेहिं ॥ ५० ॥ गुरुदत्तपांडवैः च गजवरकुमारेण तथा चापरैः । मनुष्यकृत उपसर्गः सोढो हि महानुभावैः ॥ १०॥ सहिओ सोढः हु स्फुटं । कः सोढः । उपसर्गः । कीदृशः । माणुसकउ मनुष्यकृतः । कैः सोढः । गुरुदत्तपंडवेहिं गुरुदत्तपांडवैः गुरुदत्ताख्यो भूपालः पांडवाः पांडुनरेंद्रपुत्रा युधिष्ठिरादयः गुरुदत्तश्च पांडवाश्च गुरुदत्तपांडवास्तैर्गुरुदत्तपांडवैः । अत्र गुरुदत्तकथा । हस्तिनागपुरे न्यायोपार्जितवित्तो गुरुदत्तो नाम राजा । एकदा स प्रजायाः पीडामापादयंतं व्याघ्रमनुचरमुखादोषोत् । ततः कोपाविष्टो भूपरिद्रढः ससैन्यो गत्वा द्रोणीमति पर्वते सत्त्वसंतानघातकं तं व्याघ्र रुरोध । व्याघ्रोपि कांदिशीकतया प्रपलाय्य गिरिगुहां प्राविशत् । सकोपो भूपो गुहांतर्दारुभारं क्षेपयित्वा वह्निमदीपयत् । तत्क्षणे प्रदीप्ताशुशुक्षिणिजिह्वाजालेन करालितो व्याघ्रो ममार । मृत्वा च चंद्रपुर्या कपिलो नाम द्विजन्माऽजनि, इतश्च गुरुदत्तः क्षोणीपो वैराग्यकारणं किंचिदवलोक्य पुत्राय राज्यं दत्वा यतिर्बभूव । क्रमेण विहारक्रमं विदधानः चंद्रपुरीमभ्येत्य कपिलब्राह्मणस्य क्षेत्रसविधे कायोत्सर्गेण तस्थौ । कपिलोपि निजपाणिगृहीतां सिद्धान्नमादाय सत्त्वरमागच्छरित्यादिश्य क्षेत्रमीयिवान् । तत् क्षेत्रं कर्षणायोग्यं मत्त्वा क्षेत्रांतरं गतो वाडवः । इतश्च तदीया भार्या संबलं गृहीत्वा क्षेत्रं प्रति गच्छंती अंतराले मुनिमालोक्य पप्रच्छ । मुने क्षेत्रेस्मिन् ब्राह्मणास्ति नास्ति चेति तया पृष्टोपि मुनिने वक्ति केवलं मौनमास्थाय मुनिः स्थितः । ततः सा निवृत्य स्वमंदिरमियाय । बृहद्वेलायां तेन द्विजन्मना क्षेत्रादागत्य भार्या निर्भत्सिता। रंडे मुनिं पृष्ठा किं नाथातासि । तयोक्तं पृष्टोपि न स . Page #72 -------------------------------------------------------------------------- ________________ टीकासहितः। किंचिदक्ति । ततोऽकारणकुपितेन कपिलेन शाल्मलितूलेन वेष्टयित्वा स यतिख़लति ज्वलने क्षिप्तः उपशमवारिणा वह्निजनितां यातनां यतिर्जित्वा शुक्लध्यानेन केवलज्ञानमुत्पादितवान् । ततोऽसुरामरास्तस्य केवलिनः पूजार्थमाजग्मिवांसः । ब्राह्मणोपि मुनिचरणार्चामाचरतोऽसुरामरानालोक्य अहो महानयं मुनिस्तदस्योपसर्गमाचरता मयानिष्टं कृतमिति स्वात्मानं निनिंद । तदनु परमवैराग्यरससंपन्नो विप्रः क्षिप्रं यतेः पादयोरुपरि पतित्वा प्रोवाच । स्वामिन् कृपासागर यावदनेन पापेन नारको न भवेयं तावन्मां पाहि । मुनिरपि तमासन्नभव्यं वाडवं बुवा दीक्षयामास । इति मनुष्यकृतोपसर्गसहनशीलस्य गुरुदत्तभूपतेदृष्टांतकथा । अतःपरं पांडवानां कथा । पूर्वोपार्जिताखंडपुण्यप्रभावेण दुर्जयान दुर्योधनादीन् परांश्च शत्रन जित्वा दक्षिणमथुरायां राज्यं कुर्वाणा विलसत्कीर्तितांडवाः पांडवाः खल्वासन् । अन्यदा ते नेमिनाथनिर्वाणमाकर्ण्य सपदि संसारशरीरभोगनिविणाः स्वस्वपुत्रेषु राज्यभारमारोप्य जैनी दीक्षां जगहुः । ततस्तपस्तीवं चिन्वानाः शत्रुजयशिलोच्चयशिखरमारुह्य स्थिरप्रतिमायोगेन शिलोत्कीर्णा इव तस्थुः । तथास्थितान् तानाकर्ण्य केचिदुर्योधनगोत्रसंभवा राजपुत्रास्तत्पूर्ववैरं स्मृत्वा शजयं समागत्य चात्यर्थमतूतुदत् । कथं । मुकुटकुंडलहारकेयूरकटकाद्या. भरणानि लोहमयानि कृपीटयोनिधनज्वालाभिस्तप्तानि कृत्वा पांडवानां भुजाद्यवयेवषु ते पापा निचिक्षिपुः, वह्नितापितेषु लोहेषु पोठेषु ते तान् न्यवीविशंश्च । ततो युधिष्ठिरभीमार्जुनास्त्रयः स्वस्यैव कर्मविपाकं दुर्निवारं गणयंतः ततो भिन्नं ज्ञानोपयोगदर्शनोपयोगादभिन्नमात्मानमत्यर्थं भावयंतः शुक्लध्यानबलेन घातिकर्माणि समूलकाषं कषित्वा केवलज्ञानं च समुत्पाद्य शेषाण्यपि कर्माणि क्षपयित्वांतकृतो निर्वाणं शांतमक्षयसुखमीयुः। नकुलसहदेवौ तु अद्यापि यदि राजा आदिशति तदा बाहुबलेन प्रतिपक्षान् हन्वः इति क्षणं ध्यात्वा पुनः स्वीकृतयतिव्रतरत्नस्मरणात्प्रतिबुद्ध्यात्मानं निंदित्वा परमधर्मध्यानेन सर्वार्थसिद्धिमीयतुः । इति पांडवानां कथा । न केवलं पांड Page #73 -------------------------------------------------------------------------- ________________ आराधनासारः वादिभिः उपसर्गः सोढः । गयवरकुमरेहिं गजकुमारेणापि सोढः तह य अवरोहिं तथापरैः तथा तेनैव प्रकारेण अन्यैरपि सोढः । किंविशिष्टस्तैः । महाणुभावेहिं महानुभावैः सत्त्वाधिकैः महापुरुषैः । अत्र गजकुमारकथा। इह प्रसिद्धायां द्वारवत्यां वसुदेवोऽनेकभूपालकृतपादसेवो राजते । तस्यात्मजो गजकुमारः परं सर्वेषु राजकुमारेषु स पराक्रमसारः । अन्यदा नारायणेन यः पोदनपत्तननायकमपराजितं रणभूमौ विजित्य बढा चानयति स मनोवांछितं लभते इति घोषणा निजनगर्या दापिता । तो गजकुमारो निशम्य त्वरितं तत्र गत्वा अपराजितरणभूपालं रणक्षोणौ जित्वा बद्धवाचानीय वासुदेवस्य समर्पितवान् । ततश्च कामचारं चरित्वा स द्वारवतीस्त्रीजनं सेवमानः पांसुलश्रेष्ठिपन्यामासक्तोऽभूत् । यदुक्तम्-- स्वाधीनेपि कलत्रे नीचः परदारलंपटो भवति । परिपूर्णेपि तडागे काकः कुंभोदकं पिबति ॥ अन्यदा गजकुमारो नेमिनाथवंदनार्थ समवशरणमीयिवान् । तत्र भग-. वतः परांगनापरित्यागलक्षणं धर्ममुपदिशतो मुखादिदं पद्यमश्रौषीत् । उक्तं च चिंताव्याकुलताभयारतिमतिभ्रंशातिदाहभ्रम क्षुत्तृष्णाहतिरोगदुःखमरणान्येतान्यहो आसताम् । यान्यत्रैव परांगनाहितमतेस्तद्भरि दुःखं चिरं श्वभ्रेऽभाषि यदग्निदीपितवपुलॊहांगनालिंगनात् ॥ इत्यादिकं श्रुत्वा गजकुमारस्तत्क्षणादेव विरक्तः समभूत् । ततो जिनपादांते तपो जग्राह । गुरुसेवया श्रुतपदान्यन्वासीत् । कालक्रमेण गिरनारगिरि विकटाटव्यां पादपोपयानमरणं स्वीकृत्य संन्यासेन स्थितः । इतश्च पांसुलश्रेष्ठी चिरंतननिजांगनासक्तिजनितं वैरमनुस्मृत्य तीव्रतरक्रोधावेशात्तं मुनींद्र गजकुमारं लोहकीलकैः कीलयित्वा बहुतरां पीडां चापाद्य प्रपलाय्य Page #74 -------------------------------------------------------------------------- ________________ टीकासहितः । ६९ - गतः । मुनीन्द्रोपि तथाविधां बाधां सोढा धर्मध्यानेन स्वर्गतः । इति गज कुमारकथा ॥ ५० ॥ देवनिकायनिर्मितोपसर्गविषहणं यैरकारि तानुदाहरति; - अमरकओ उवसग्गो सिरिदत्तसुवण्णभद्दआईहिं । समभावणाए सहिओ अप्पाणं झायमाणेहिं ॥ ५१ ॥ अमरकृत उपसर्गः श्रीदत्तसुवर्णभद्रादिभिः । समभावनया सोढ आत्मानं ध्यायद्भिः ॥ ५१ ॥ सहिओ सोढः । कोसौ । उपसर्गः विषमतरवेदना । कीदृश उपसर्ग: अमरकओ अमरकृतः देवनिकायविहितः । तीव्रतरोपसर्गः विसोढः । कैरित्याह । सिरिदत्तसुवण्णभद्दआईहिं श्रीदत्त सुवर्णभद्रादिभिः श्रीदतश्च सुवर्णभद्रश्च श्रीदत्त सुवर्णभद्रौ तावादी येषां ते श्रीदत्तसुवर्णभद्रादयस्तैः श्रीदत्त सुवर्णभद्रादिभिः कया सोढः । समभावणया समभावनया शत्रौ मित्रे तृणे स्त्रैणे समाना या भावना समभावना तया समभावनया । किं कुर्वद्भिस्तैरुपसर्ग: सोढः । अप्पाणं झायमाणेहिं आत्मानं सहजशुद्धबुद्धैकस्वभावं ध्यायद्भिः ध्यानगोचरीकुर्वद्भिः । अत्र श्रीदत्तस्य कथा यथा । इलावर्धननगरे राजा श्रीदत्तो राज्ञी अंशुमती तयोर्युतं क्रीडतो सतोः राज्ञ्या पराभवं गते राजनि राजपत्नीशुक एकां रखां दत्तवान् । एकवारं राज्ञा हारितमिति कुपितेन भूपेन सा को गलं मोटयित्वा मारितः । स केनचिद्ध्यानविशेषेण मृत्वा व्यंतरदेवोऽजनि । राजा श्रीदत्तोप्यन्यदा धवलगृहोपरि स्थितो जलधरजनितप्रासा-दविनाशं दृष्ट्रा संजातवैराग्य: पुत्राय राज्यं वितीर्य जैनीं दीक्षामशिश्रियत् । ततः श्रुताभ्यासं विदधानः परमं तपश्चिन्वानः कालमतिवाहयामास । अन्यदा तीव्रतरे शीत प्रवर्तमाने पुरबाह्योयाने कायोत्सर्गमाश्रित्य Page #75 -------------------------------------------------------------------------- ________________ आराधनासार तस्थिवान् । शुकचरेण व्यंतरदेवेन तेन पूर्ववैरमनुस्मृत्य शीतलवारिणा सिक्ता तथा शीतलवातेन कदर्थिता सहजशुद्धं परमात्मानमाराध्य केवलाख्यं च ज्योतिरुत्पाद्य निर्वाणं प्राप्तवान् श्रीदत्तो मुनिः ॥ ५१ ॥ यथा प्रागुक्तैः राजर्षिभिरुपसर्गः सोढस्तथा त्वमपि सहस्वेत्युत्साहयन्नाह;एएहिं अवरेहिं य जहं सहिया थिरमणेहिं उवसग्गा। विसहसु तुमंपि मुणिवर अप्पसहावे मणं काऊ ॥५२॥ एतैरपरैश्च यथा सोढाः स्थिरमनोभिः उपसर्गाः । विषहस्व त्वमपि मुनिवर आत्मस्वभावे मनः कृत्वा ॥५२॥ विसहसु विषहस्व मुणिवर मुनिवर क्षपक । कान् । अर्थादुपसगान् । जहं एएहि अवरेहि य यथा एतैः पूर्वोक्तैः सुकुमालादिभिः अनुक्तैः संजयंतादिभिः सहिया सोढाः । के । उपसर्गाः । कीदृशैः । थिरमणेहिं. स्थिरमनोभिः स्थिरचित्तैः । यथा सुकुमालसुकोशलगुरुदत्तपांडवादिभिराराधनास्वधुनीमध्यमध्यासीनैरुपसर्गाः चतुर्विधाः समभावनया सोढास्तथा त्वमपि यद्युत्तमा गतिं जिगमिषसि तर्हि सहस्व । किं कृत्वा । अप्पसहावे. मणं काऊ आत्मस्वभावे परमात्मनि मनश्चित्तं कृत्वा सहस्वेत्यर्थः ॥ ५२।। प्रपंचतः प्रकृष्टोपसर्गान् व्याख्याय संप्रति क्रमायातस्येंद्रियजयस्य प्रपंचयन् गाथापंचकं निरूपयति इति समुदायपातनिका। तत्रादौ रूपकेण कृत्वा इंद्रियाणां व्याधत्वं समर्थयन् स्मरे शरत्वं विषयेषु वनत्वं जनेषु हरिणत्वं प्रतिपादयति;इंदियवाहेहिं हया सरपीडापीडियंगचलचित्ता। कत्थपिण कुणंति रई विसयवणं जंति जणहरिणा॥५३॥ इंद्रियव्याधैर्हताः शरपीडापीडितांगचलचित्ताः । कुत्रापि न कुवैति रतिं विषयवनं यांति जनहरिणाः॥ ५३॥ Page #76 -------------------------------------------------------------------------- ________________ टीकासहितः। ७१ इंदियवाहेहिं इंद्रियव्याधैः इंद्रियाण्येव व्याधा आखेटिकाः परनिमितसुखरूपपलाभिलाषित्वेन स्वव्यापारे प्रवर्तमानत्वात् । तैरािंद्रयव्याधैः हया हता घातिताः शल्यगोचरीकृताः सरपीडापीडियंगचलचित्ता शरपीडापीडितांगचलचित्ताः । शरो बाणः । बाणस्थानीयोत्र क इति चेत् । शरशब्देन स्मरो लभ्यते प्राकृतलक्षणदर्शनत्वात् स्मर एव शरः । शरशब्द एक एवेति चेत् नास्ति दोषः । एकस्मिन्नेव शब्देऽपि मुख्योपचारयोरुभयार्थयोः प्राप्यमाणत्वात् । न भवेदिति चेत् तदा चिंत्यमेतत् दूष्यं वैदुष्यैः । स्मररूपशरस्य पीडा बाधा तया पीडितांगे बांधितांगे सति चलचित्ता लोलमनसः जणहरिणा जनहरिणाः जना एव हरिणा मृगाः कत्थवि कुत्रापि रइ रतिं ण कुणंति न कुर्वति । कस्मिन्नपि स्थाने स्वगततत्त्वे परगततत्त्वे वा शास्त्रश्रवणे देवपूजायां आर्तरौद्रपरिहारनिमित्तमन्यस्मिन्नपि शुभावलंबने वा न रज्यंते न स्थितिं कुर्वति स्थातुमपि न वांछंतीत्यर्थः । कस्मात् । अनादिकर्मबंधवशादनंतवीर्यावरणेनात्मनोऽधैर्यप्रादुर्भावात् । तदा ते किं कुर्वतीति प्रश्ने। विसयवणं जंति विषयवनं यांति विषया एव वनं विषयवनं यांति गच्छंति । यथा व्याधेन बाणेन बाधिताः चलचित्ता भूत्वा कुत्रापि रतिमकुर्वाणा मृगा धनमाश्रयति तथेंद्रियैरमनस्कतां नीता स्मरपीडनेन चलचेतसो जाता जनाः कुत्रापि रतिं न कुर्वति । तर्हि किं कुर्वति । स्रक्चंदनवनितादीन विषयानेव सेवंते येषु सेवितेषु तदलाभे सति इहैव दारुणं दुःखं भवति, परभवे नरकतिर्यग्योन्यादेर्भूरि दुःखान्यनुभवंति । एवं ज्ञात्वेंद्रियविजयं विधाय परमात्मध्यानविधानं विधीयतामिति तात्पर्यम् ॥ ५३॥ ननु समस्तसंन्यस्तत्वेन प्रतिज्ञानिष्ठानां यदि विषयाभिलाषः स्यान तु सेवने प्रवृत्तिस्तदा किंचिद्रूपं प्रादुर्भवतीति वदंतं प्रत्याह;सव्वं चायं काऊ विसए अहिलससि गहियसण्णासे । जइ तो सव्वं अहलं दंसण णाणं तवं कुणसि ॥ ५४ ॥ Page #77 -------------------------------------------------------------------------- ________________ ७२ आराधनासारः सर्वं त्यागं कृत्वा विषयानभिलषसि गृहीतसंन्यासेः । यदि तदा सर्वमफलं दर्शनं ज्ञानं तपः करोषि ॥ ५४ ॥ सर्व त्यागं कृत्वा गृहीतसंन्यासे सति यदि विषयानभिलषसि तदा दर्शनं ज्ञानं तपः सर्वमफलं करोषि । तथाहि - भो क्षपक पूर्व तावत्त्वं संसारस्वरूपमनित्यं नित्यं मोक्षस्वरूपं निश्चित्य चेतसि सार्वभौमसाम्राज्यराज्यलक्ष्मीं तृणवदवगण्यस्व सव्वं चायं काऊ सर्वपरिग्रहत्यागमेव कृत्वा । क्व सति । गहियसण्णासे गृहीतश्वासौ संन्यासश्च तस्मिन् सति जइ यदि त्वं पुनरपि विसए अहिलससि विषयानभिलषसि तो तदा दंसण णाणं तवं दर्शनं ज्ञानं तपश्च सव्वं सर्वे अहलं अफलं फलरहितं कुणसि करोषि दर्शनज्ञानतपसां यत्संवरनिर्जरा मोक्षस्वरूपं फलं विषयाभिलाषे सति तपः कुर्वत्स्वपि तन्न भवतीत्यर्थः । तथा चोक्तम् - पठतु सकलशास्त्रं सेवतां सूरिसंघान् दृढयतु च तपश्चाभ्यस्यतु स्फतियोगम् । चरतु विनयवृत्तिं बुध्यतां विश्वतत्त्वं यदि विषयविलासः सर्वमेतन्न किंचित् ॥ एवं ज्ञात्वा विवेकिना धर्मे विधीयमाने कस्मिन्नपि कापि अभिलाषो न विधेयः समीहितनिधिकत्वात् । तथा चोक्तं स्पृहा मोक्षेपि मोहोत्था तन्निषेधाय जायते । अन्यस्मिन् तत्कथं शांताः स्पृहयंति मनीषिणः ॥ किंतु शुद्धपरमात्मन्येव भावनाभिलाषो योग्यो भवतीति तात्पर्यम् ॥ ५४ ॥ ननु निखिलदोषान् परिहर्तुकामो मुनिः कस्मादशक्य इति वदंतं प्रति वदति वदतांवरः सूरिवरः । इंदियविसयवियारा जाम ण तुवंति मणगया खवओ । जाव ण सक्कइ काउं परिहारो णिहिलदोसाणं ॥ ५५ ॥ Page #78 -------------------------------------------------------------------------- ________________ टीकासहितः। ७३ इंद्रियविषयविकारा यावन्न त्रुट्यंति मनोगताः क्षपकः । तावन्न शक्नोति कर्तु परिहारं निखिलदोषाणाम् ॥ ५५ ॥ मनोगता इंद्रियविषयविकारा यावन्न त्रुट्यंति तावत् क्षपको निखिलदोषाणां परिहारं कर्तुं न शक्नोति। तथाहि-मणगया मनोगताः मनःप्राप्ता इंद्रियाणां रूपादिविषयाणां च परस्परं दूरादेव संबंधे सत्यपि तेषु मनसि संकल्पःसंप्रतिपद्यते तदनु मुहुर्मुहुः प्रसरणं यस्मात्तस्मात् मनोगता व्याख्यायंत इत्यर्थः । इंदियविसयवियारा इंद्रियविषयविकाराः इंद्रियाणां विषयास्त एव विकाराः। विकार इति कार्थः। स्वस्वभावात्प्रच्याव्यान्यथाभावे प्रेरणाशीलाः यावत्कालं ण तुझुति न त्रुट्यंति मनःसंगतिं परित्यज्य न गच्छंति ताव तावत्कालं खवओ क्षपकः कर्मक्षपणशीलपुरुषः णिहिलदोसाणं निखिलदोषाणां निखिलाः समस्ता रागद्वेषमोहादयो दोषास्तेषां परिहारो परिहारं मोचनं काउं कर्तु ण सक्का न शक्नोति कारणं विना कार्य न दृष्टमिति वचनात् । इंद्रियविषयविकारपरिहारकारणाभावे निखिलदोषाभावः कार्य न संभवति । तस्मात्तपस्विना समंतत इंद्रियविषयविकारा'निराकृत्य रागादिदोषाभावेन शुद्धपरमात्मा भावितव्य इत्यभिप्रायः ॥ ५५॥ नन्विद्रियमल्लनिहितानां क्वाश्रयोऽज्ञानिनां भवति तत्प्रतिपादयति;इंदियमल्लेहिं जिया अमरासुरणरवराण संघाया। -सरणं विसयाण गया तत्थवि मण्णंति सुक्खाइ ॥५६॥ इंद्रियमल्लैनिता अमरासुरनरवराणां संघाताः।। शरणं विषयाणां गतास्तत्रापि मन्यते सौख्यानि ॥ ५६ ॥ अमरासुरवराणां संघाताः संतो विषयाणां शरणं गतास्तत्रापि सौख्यानि मन्यते । तथाहि-अमरासुरणरवराण अमरासुरनरवराणां अमरा देवाः कल्पवासिनः असुराः दैत्या भवनवासिनो वा नरवराः नराणां मध्ये वराः श्रेष्ठाः Page #79 -------------------------------------------------------------------------- ________________ ७४ आराधनासारः मनुष्येषु मध्ये शास्त्रेण शौर्येण वीर्येण विज्ञानेन लब्धप्रतिष्ठा ये ते नरवराः कथ्यंते, अमराश्च असुराश्च नरवराश्च ते अमरासुरनरवरास्तेषां संघाया संघाताः समुदायाः। कथंभूताः संतः। इंदियमल्लहिं जिया इंद्रियमल्लैर्जिताः संतः इंद्रियाण्येव मल्लानि विड्दु:खावाससंसारगर्भपातकत्वात् इंद्रियमल्लास्तैः इंद्रियमल्लैः । गया गता प्राप्ताः । किं । शरणं आश्रयं केषां । विसयाणं विषयाणां इन्द्रियार्थानां तत्थवि तत्रापि च तत्र तेषु स्रक्चंदनवनितावातायनादिषु विषयेषु मण्णंति मन्यते विदति । कानि। सुक्खाइ सौख्यानि न खल्वियं प्रवृत्तिस्तत्त्वविदा चित्तेषु चमच्चरिकरीति नैते विषयाः शरणं गतानां स्वप्नेपि त्रायकाः । यदुक्तं मीना मृत्यु प्रयाता रसनवशमिता दंतिन: स्पर्शरुद्धा __ नद्धास्ते वारिमध्ये ज्वलनमुपगताः पत्रिणश्चाक्षिदोषात् । भुंगा गंधोद्धताशाः प्रलयमुपगता गीतलोलाः कुरंगाः कालव्यालेन दष्टास्तदपि तनुधियामिद्रियार्थेषु रागः ॥ प्रत्युत दुःखदा एव । यतः न तदरिरिभराजः केशरी केकिस्तुत्यो नरपतिरतिरुष्टः कालकूटोतिरौद्रः । अतिकुपितकृतांतः पन्नगेंद्रोपि रुष्टः यदिह विषयशत्रुर्दुःखमुयं करोति । तदिंद्रियमल्लैर्जितेनापि क्षपकेण प्रसह्य विषयाणां शरणं विहाय तत्र चः सुखान्यवगणय्य परमब्रह्मपदमेव शरणं गतव्यं तत्रैव परमसौख्यं मत्त्वेष्टव्यमिति भावः । यतः-- "अवश्यं यातारश्चिरतरमुषित्वापि विषया वियोगे को भेदस्त्यजति न जनो यत्स्वयममून् । Page #80 -------------------------------------------------------------------------- ________________ टीकासहितः। , वजंतः स्वातंत्र्यादतलपरितापाय मनसः । ___ स्वयं त्यक्ता ह्येते शमसुखमनंतं विदधति ॥ ५६ ॥ हषीकजं सुखं सुखं न भवति ततस्तस्मिन् वैमुख्यं विधातव्यमिति स्तवयति;इंदियगयं ण सुक्खं परदव्वसमागमे हवे जम्हा । तम्हा इंदियविरई सुणाणिणो होइ कायव्वा ॥५७॥ इद्रियगतं न सौख्यं परद्रव्यसमागमे भवेद्यस्मात् । तस्मादिद्रियविरतिः सुज्ञानिनो भवति कर्तव्या ॥ ५७ ॥ भो क्षपक इंदियगयं ण सुक्खं इन्द्रियगतं न सौख्यं सौख्यं न भवति। कीदृशं । इन्द्रियगतं हृषीकसंभवं विचार्यमाणं सुखं न भवति किंतु सुखाभावमेव । कुतः. सौख्यं न भवति इत्याह । परद्रव्यसमागमे सति भवेत् जायेत परद्रव्याणि अन्नपानवसनतांबूलस्रक्चंदनवनितादीन तेषां समागमः सम्यगागमनं परद्रव्यसमागमस्तस्मिन् परद्रव्यसमागमे । यतः परद्रव्यसमागमादिंद्रियजं सुखमुपजायते ततश्च दुःखमेव । यदुक्तम् सुखमायति दुःखमक्षजं भजते मंदमतिर्न बुद्धिमान् । मधुलिप्तमुखाममंदधीरसिधारां खलु को लिलिक्षति ।। यदींद्रियजं सुखं वास्तवं न भवति तर्हि किं कर्तव्यमित्याह । तम्हा इंदियविरई तस्मात्कारणात् इंद्रियविरतिः विरमणं विरतिः इंद्रियेभ्यो विरति: इंद्रियविरतिः। इंद्रियजेषु सुखेषु वैमुख्यमित्यर्थः । कायव्वा कर्तव्या इंद्रियसंभवसुखविरतिः कर्तव्या हवे भवेत् । सा कस्य कर्तव्या भवतीत्याह। सुणाणिणो सुज्ञानिनः शोभनं ज्ञानं परमानंदामृतसंभृतावस्थस्य परमा- . त्मनः परिज्ञानं शोभनं ज्ञानमुच्यते सुज्ञानमस्यास्तीति सुज्ञानी तस्य सुज्ञानिनः । ततो विषयजं सुखं विनश्वरं निस्सारं ज्ञात्वा अविनश्वरे स्वात्मोत्थे सुखे रतिर्विधातव्या सुज्ञानिन इति भावार्थः॥ ५७ ॥ इंद्रियजयाधिकारः । Page #81 -------------------------------------------------------------------------- ________________ आराधनासारः ननु मनोनृपप्रेरितायामवश्या या मिंद्रियसेनायांया प्रसरंत्यां क्षपकेण किं कर्तव्यमित्यावेदयति;इंदियसेणा पसरइ मणणरवइपेरिया ण संदेहो। तम्हा मणसंजमणं खवएण य हवदि कायव्वं :॥ ५८ ॥ इंद्रियसेना प्रसरति मनोनरपतिप्रेरिता न संदेहः । तस्मान्मनःसंयमनं क्षपकेण च भवति कर्तव्यम् ॥ ५८ ॥ इंदियणा इंद्रियाणि हृषीकाणि तान्येव सेना चमू इंद्रियसेना मणगरवइरिया मनोनरपतिप्रेरिता मनश्चित्तं तदेव नरपतिः राजा तेन प्रेरिता आदिष्टा सती पसरइ प्रसरं करोति ण संदेहो संदेहः संशयो न, यस्मादित्यध्याहारः । यत्तदोर्नित्यसंबंध इत्यभिधानात् तम्हा तस्मात् कारणात् मणसंजमणं मनःसंयमनं मनश्चित्तं तस्य संकोचनं स्पर्शादिविषयेभ्यो व्यावृत्य सहजशुद्धचिदानंदैकस्वभावसकलविकल्पविकलात्मपरमात्मतत्त्वैकाग्रचिंतायां स्थापनमित्यर्थः । खवयेण क्षपकेन कर्मक्षपणशीलेन पुरुषेण कायव्वं कर्तव्यं करणीयं च भवति । तथाहि । यथा सैन्यस्य राजा नायको भवति तथा इंद्रियाणां मनो नायकः नायकैनैवादिष्टं सैन्यं प्रसरति न हि नायकमंतरेण क्वचित्कथंचित्तत्सामर्थ्य विज़ुभते । अत्र तत्त्वविचारचतुरचेतसां चेतोनिकेतने कथं नाम संशयबिलेशयो विलसति ने क्वापि । अतः इंद्रियाणि निगृहीतुमना मनसि प्रथमं मनःसंयमनं तनोतु इति तात्पर्यार्थः ।। ५८ ॥ इंद्रियाणि मनःप्रेरितानि प्रसरंतीति व्याख्यायेदानी मनोनरेंद्रस्य सामर्थ्य यथा तथा दर्शयति;मणणरवइ सुहुभुंजइ अमरासुरखगणरिंदसंजुत्तं । णिमिसेणेक्केण जयं तस्तथि ण पडिभडो कोइ ॥५९॥ Page #82 -------------------------------------------------------------------------- ________________ टीकासहितः। ७७ मनोनरपतिः संभुंक्त अमरासुरखगनरेंद्रसंयुक्तं । निमिषेणैकेन जगत्तस्यास्ति न प्रतिभटः कोपि ॥ १९ ॥ मणणरवइ मनोनरपतिः मनो मानसं तदेव नरपतिः राजा कर्ता अमरासुरखगणरिंदसंजुत्तं अमरासुरखगनरेंद्रसंयुक्तं अमरा: कल्पवासिनः असुरा दैत्याः खगा विद्याधरा नरेंद्राश्चक्रवर्त्यादयः। अत्र सर्वत्र द्वंद्वसमासः अमरासुरखगनरेंद्रैः संयुक्तं जयं जगत् त्रैलोक्यं णिमिसेणेकेण निमिषेनैकेन संभुक्ते एकक्षणमात्रेण स्वभोगयोग्यं करोतीत्यर्थः । तस्स तस्य मनसः कोइ कोपि तेषाममरासुरनरेंद्राणां मध्ये एकतमोपि पडिभडो प्रतिभटः प्रतिमल्लो न विद्यते इत्यर्थः । तथा चोक्तं ज्ञानार्णवे शुभचंद्राचार्यैःदिक्चक्र दैत्यधष्ण्यां त्रिदशपतिपुराण्यंबुवाहांतरालं द्वीपांभोधिप्रकांडं खचरनरसुराहींद्रवासं समग्रम् । एतत्रैलोक्यनीडं पवनचयचितं चापलेन क्षणार्धे नाश्रांतं चित्तदैत्यो भ्रमति तनुमतां दुर्विचिंत्यप्रभावः ॥ इति बुद्धवा शुद्धबुद्धकस्वभावपरमात्मनो भावनाबलेन मनोराजबलमबलीकृत्य निजात्मनि स्थापनीयमित्युपदेशार्थ गाथा गता ॥ ५९ ॥ इदानी मनोनरपतेमैरणे संभूते उत्तरोत्तरमिंद्रियादीनां मरणमपि जायते ततो मोक्षसुखं यतो जायते तस्मान्मनसो मारणाय प्रयोजयति यथा तथा दर्शयति;मणणरवणो मरणे मरंति सेणाइं इंदियमयाइ। ताणं मरणेण पुणो मरांति णिस्सेसकम्माइ ॥६॥ तेसिं मरणे मुक्खो मुक्खे पावेइ सासयं सुक्खं । इंदियविसयविमुक्कं तम्हा मणमारणं कुणइ ॥६१॥ मनोनरपतेर्मरणे म्रियते सैन्यानि इंद्रियमयानि । तेषां मरणेन पुननियंते निःशेषकर्माणि ॥ ६ ॥ Page #83 -------------------------------------------------------------------------- ________________ ७८ आराधनासारः तेषां मरणे मोक्षो मोक्ष प्राप्नोति शाश्वतं सौख्यम् । इंद्रियविषयविमुक्तं तस्मान्मनोमारणं कुरुत ॥ ६१ ॥ युग्मं । मणणरवइणो मरणे मनोनरपतेर्मरणे मनसो विकल्पाभावे सति 'संकल्पविकल्पस्वरूपं हि मन इति निर्वचनात् ' मरंति सेणाइ इंदियमयाइं इंद्रियमयानि सैन्यानि नियंते स्वकीयस्वकीयविषयेषु तानींद्रियाणि न प्रवर्तत इत्यर्थः । स्वस्वामिप्रयोगाभावात् तदभावे हि तस्यैवाभावात् ताणं मरणेण पुणो तेषामिंद्रियाणां मरणेन निजविषयप्रवृत्तिराहित्येन पुमः पुनरपि णिस्सेसकम्माई निःशेषकर्माणि सकलकर्माणि ज्ञानावरणादीनि मरंति म्रियते क्षयं यांति तदवस्थायां बंधाभावात् । बंधाभावे हि नवतरकर्मणामास्रवाभावात् पुरातनकर्मनिर्जीयमाणत्वात् । आस्रवाभावो हि योगाभावात् योगाभावस्तु तदवयवस्वप्रवृत्तिनिषेधात् । तदवयवाश्च मनोवाक्कायलक्षणाः कायवाङ्मनःकर्म योगः इति लक्षणाभिधानत्वात् । ततो योगांगत्वात् मनसो विकल्पाभावपूर्वत्वे सतीद्रियाणां काययोगमयानां प्रवृत्तिनिषेधे सति संवरनिर्जरासद्भावात् सर्वाणि कर्माणि क्षयं यांति इति सिद्धं । तेसिं मरणे मुक्खो तेषां कर्मणां मरणे विनाशे सति मोक्षः अनंतज्ञानादिगुणव्यक्तिनिष्ठानां सिद्धपरमेष्ठिनामाधारः । बंधहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षो मोक्ष इत्यभिहितत्वात् । मोक्षे किमस्तीत्याह । मुक्खे मोक्षे सर्वकर्मक्षयलक्षणे सासयं शाश्वतमविनश्वरं इंदियविसयविमुक्कं इंद्रियविषयविमुक्तं इंद्रियाणां हृषीकाणां विषया गोचरास्तैर्विमुक्तं रहितं सुक्खं सौख्यं निराकुलतालक्षणं पावेइ प्राप्नोति लभते यत एवं तम्हा तस्मात् । एवं ज्ञात्वा भो भव्याः मणमारणं कुणह मनोमारणं कुरुत । मनोमारणमिति कोर्थः । विषयेषु गच्छतो मनसो निवारणं कुरुत कुरुध्वमित्यर्थः ॥ ६० । ६१ ॥ Page #84 -------------------------------------------------------------------------- ________________ टीकासहितः । ये तु पुरुषा मनसो निवारणं न कुर्वति ते कथंभूता भवतीत्याह--- मणकरहो धावंतो णाणवरत्ताइ जेहिं ण हु बद्धो । ते पुरिसा संसारे हिंडंति दुहाई भुजंता ॥ ६२ ॥ मनःकरभो धावन् ज्ञानवस्त्रया यैर्न खलु बद्धः । ते पुरुषाः संसारे हिंडन्ते दुःखानि भुंजंतः ॥ ६२ ॥ मणकरहो मनः करभः मन एव करभ उष्ट्र: पांठातरण कलभः करिशावको वा धावंत धावन् प्रसरन् सन् जहिं यैः पुरुषैः णाणवरत्ताइ ज्ञानवरत्रया बोधरज्जुरूपया ण बद्धो न बद्धः न संकोचितः ते पुरिसा ते पुरुषाः संसारे आजवंजवे द्रव्यक्षेत्र कालभवभावलक्षणे दुहाई दुःखानि व्याकुलत्वोत्पादकलक्षणानि भुजंता भुंजंतः अनुभवंतः हिंडंति हिंडते परिभ्रमति खलु निश्चयेन । तथाहि - यथा कश्चन करमरक्षायां नियुक्तो गजरक्षणे वा पुरुषः करभं गजं वा राजमंत्रिपुरोहितादीनां नंदनवनं प्रति विध्वंसनाय धावंतं वरत्रांकुशादिना कृत्वा यदि न निवारयति स तदा नंदनवनविध्वंसनापराधं विलोक्य लोकाचारविचारचतुरचातुरीचमत्कारनीतिशास्त्रानुसारविलोकितन्यायमार्गेण नरपतिना निगृह्यमाणः कारागाराय'नेकविधदुःखान्यानुभवति स्वाधिकारक्रियाकूटकारित्वात् । यः ७९ कश्वन स्वाधिकार क्रियाकूटं कुरुते स एवंविधो न संदेहः तथेदं विषयेषु प्रवर्तमानं मनो नियंत्रणीयमिति । उक्तंच अनेकांतात्मार्थप्रसवफलभारातिविनिते वचःपर्णाकीर्णे विपुलनयशाखाशतयुते । समुत्तंगे सम्यक् प्रततमतिमूले प्रतिदिनं श्रुतस्कंधे धीमान् रमयतु मनोमर्कटममुम् ॥ वीतराग सर्वज्ञवचनैर्नियुक्तो जनो यस्तु ज्ञानभावनया न निवारयति सबराकश्चतुरशीतिशतसहस्रपरिमाणेषु योनिषु संसारदुःखानि सहते न Page #85 -------------------------------------------------------------------------- ________________ आराधनासारः संदेहः । एवं ज्ञात्वा स्वसंवेदनज्ञानाभ्यासबलेन मन:प्रसरं निरुध्य शुद्धपरमात्मनि स्थापनीयमिति भावार्थः ॥ ६२॥ मनसो निरोधफलं व्याख्याय इदानीममुमेवार्थ बहुशास्त्रप्रसिद्धदृष्टांतेन दृढीकृत्य पश्चादवश्यं मुनिना मनोनिरोधो विधातव्य इत्युपदिशति; पिच्छह णरयं पत्तोमणकयदोसेहिंसासिलित्थक्खो. इय जाणिऊण मुणिणा मणरोहो हवइ कायव्वो६३ प्रेक्षध्वं नरकं प्राप्तो मनःकृतदोषैः शालिसिक्थाख्यः । इति ज्ञात्वा मुनिना मनोरोधो भवति कर्तव्यः ॥ ६३ ॥ भो भव्यजनाः पिच्छह प्रेक्षध्वं पश्यत विलोकयत बहुशास्त्रेषु प्रसिद्धवाक्यं समाकर्णयत इत्यर्थः । किंतत् । मणकयदोसेहिं मनःकृतदोषैः चित्तविरचितापराधैः सालिसिथक्खो शालिसिक्थाख्यः मत्स्यविशेषः नरकं श्वभ्रं प्राप्तो गतः इति । इय जाणिऊण इति एवं ज्ञात्वा विज्ञाय मुनिना संयमिना मणरोहो मनोरोधः चित्तसंकोचः कायव्वो कर्तव्यः करणीयः हवह भवति युज्यते इति तात्पर्यम् । तथाहि । शालिसिक्थनाममत्स्यविशेषः महामत्स्यकच्छाकुले जलराशौ महामत्स्यकर्णे स्थितः । तस्य महानिद्रानुभवतो व्यावृतो मुखे अनेकामत्स्यादीनां जंतुचराणाः समूहाः प्रविशंति निःसरंति क्रीडंति स्वेच्छया तिष्ठति चेति पश्यन् व्याकुलत्वेन चिंतापरायणो जातः किमयं मूढात्मा मुखं न संवृणोति येन सर्वाणीमान्यस्योदरे तिष्ठति, यद्यहमेवंभूतोऽभविष्यस्तदा सकलानीमान्यकवलयिष्यमिति रौद्रध्यानपराधीनस्तेषामलाभेपि मनोरचितदुश्चरित्रेणैव तथाविधं पापं समुपायं नरकं गत इति श्रुतिः । एवं ज्ञात्वा मुनिसमूहेन मनोरचितदोषासमर्थः अनावरणत्वादिति संदेहं निमूर्त्य मनसो ज्ञानबलेन निरोध एव करणीय इति तात्पर्यार्थः ॥ ६३ ॥ Page #86 -------------------------------------------------------------------------- ________________ टीकासहितः। एवं चित्तानिरोधकस्य नरकगतिरेव फलं सदृष्टांतं प्रदर्श्य तनिरोधं कुरुध्वमित्युपदिश्य वाधुना मनोवशीकरणमुपदिश्य तत्फलं च निदर्शयति;सिक्खह मणवसियरणं सवसीढूएण जेण मणुआणं । णासंति रायदोसे तेसिं णासे समो परमो ॥ ६४ ॥ उवसमवंतो जीवो मणस्स सक्केइ णिग्गहं काउं । णिग्गहिए मणपसरे अप्पा परमप्पओ हवइ॥६५॥जुअलं। शिक्षध्वं मनोवशीकरणं स्ववशीभूतेन येन मनुजानाम् । नश्येते रागद्वेषौ तयोर्नाशे समः परमः ॥ ६४ ॥ उपशमवान् जीवो मनसः शक्नोति निग्रहं कर्तुम् । निगृहीते मनःप्रसरे आत्मा परमात्मा भवति ॥ ६५ ॥ युगलम् । मणवसियरणं मनोवशीकरणं मनो अवशं वशं करणं मनसश्चित्तस्य वशीकरणं आत्मायत्तीकरणं मनोवशीकरणं भो जनाः सिक्खह शिक्षध्वं अभ्यस्यतः जेण येन मनसा सवसीहूएण स्ववशीभूतेन स्वाधीनता गतेन मणुआणं मनुजानां मनुष्याणां रागदोसे रागद्वेषौ इष्टानिष्टयोः प्रीत्यप्रीतिरूपौ णासंति नश्यतः दूरीभवतः तेसिं तयो रागद्वेषयोः णासे नाशे विनाशे परमो परम उत्कृष्टः समः उपशमः वीतरागत्वाधारः भवतीति क्रियाध्थाहारः उवसमवंतो उपशमवान् रागद्वेषोपशमलक्षणवान् जीवो जीवः आत्मा मणस्स मनसश्चित्तस्य णिग्गहं निग्रहं विनाशं काउं कर्तुं सक्केइ शक्नोति समर्थो भवति मनःप्रसरे चित्तविस्तारे णिग्गहिए निग्रहीते साकांक्षचित्ते क्षयावस्थां नीते सति अप्पा आत्मा जीवः घातिकर्मचतुष्टयसद्भावात् परमप्पउ परमात्मा घातिकर्मचतुष्टयाभावप्रादुर्भावके वलज्ञानाद्यनंतगुणव्यक्तिविराजमानो हवइ भवतीति गाथार्थः ॥६४॥६५॥ ननु केन प्रकारेणास्य मनःप्रसरस्य निवारण भवतीति प्रश्न प्रत्युत्तरमाह; Page #87 -------------------------------------------------------------------------- ________________ ८२ आराधनासारः जहं जहं विसएसु रई पसमइ पुरिसस्स णाणमासिज्ज । तह तहं मणस्स पसरो मज्जइ आलंबणारहिओ॥६६॥ यथा यथा विषयेषु रतिः प्रशमति पुरुषस्य ज्ञानमाश्रित्य । तथा तथा मनसः प्रसरो भज्यते आलंबनारहितः ॥ ६६ ॥ जह जह यथा यथा विसपसु विषयेषु इंद्रियार्थेषु पुरिसस्स पुरुषस्य जीवस्य रई रतिः रागः पसमइ प्रशमति उपशमति उपशमतां गच्छति । किंकृत्वा । णाणमासिज्ज ज्ञानमाश्रित्य पूर्व तावदस्य जीवस्य रतिरनादिकालसंबंधवशात् परविषयाधारा इदानीं तु कालादिलब्धिं समवाप्य स्वसंवेदनज्ञानेनाकृष्टा सती ज्ञानमाश्रयतीति तात्पर्येण पूर्वार्धगाथार्थः। तह तह तथा तथा मणस्स मनसः चित्तस्य पसरो प्रसरो विस्तारः आलंबनारहिओ आलंबनारहितः सन् रत्याश्रयमुक्तः सन् भज्जइ भज्यते विनश्यति अस्य मनःप्रसरस्य रतिरेवाश्रयः रतिस्तु विषयाश्रयं परित्यज्य ज्ञानाश्रयणी जाता यत्रैव रतिस्तत्रैव मनःप्रसर इति श्रुतिः । अतः मनःप्रसरोपि ज्ञानाश्रयी भवतीत्यायातं मनोप्यात्मानं ज्ञानलीनं करोतीति तात्पर्यार्थः॥६६॥ अमुमेवार्थ पुनरपि दृढीकरोति;विसयालंबणरहिओ णाणसहावेण भाविओ संतो। कीलइ अप्पसहावे तक्काले मोक्खसुक्खे सो ॥ ६७ ॥ विषयालंबनरहितं ज्ञानस्वभावेन भावित सत् । क्रीडति आत्मस्वभावे तत्काले मोक्षसौख्ये तत् ॥ ६७ ॥ .. अब प्राकृतलक्षणे पुन्नपुंसकलिंगयोः कुत्रचिद्रूपभेदो नास्ति तथा च द्विवचनबहुवचनभेदो नास्तीत्यादि सर्वत्र यथासंभवं विचारणीयं । विसयालंबणरहिओ विषयालंबनरहितं अनादिकालसंसेव्यमानविषयाधारवर्जित तत् मनः णाणसहावेण ज्ञानस्वभावेन ज्ञानवासनया भाविओ. संतो Page #88 -------------------------------------------------------------------------- ________________ टीकासहितः। भावितं वासितं सत् तक्काले तत्काले तदानीं अप्पसहावे आत्मस्वभावे शुद्धपरमात्मस्वरूपे सुक्खे मोक्षसुखे भावमोक्षलक्षणसमुद्भूतसुखे कीलह क्रीडति क्रीडमानस्तिष्ठतीति गाथार्थः ॥ ६७ ॥ मनःप्रसरणनिवारणफलं दर्शयित्वा संप्रति तद्रूपवृक्षखंडनाय शिष्योपदेशं ददति;पिल्लूरह मणवच्छो खंडह साहाउ रायदोसा जे । अहलो करेह पच्छा मा सिंचह मोहसलिलेण ॥६॥ निलयत मनोवृक्षं खंडयत शाखे रागद्वेषौ यौ। अफलं कुरुध्वं पश्चात् मा सिंचत मोहसलिलेन ॥ ६८ ॥ मणवच्छो मनोवृक्षं मनोरूपतरं निर्दृयत छिन्नविस्तारं कुरुत रागद्वेषद्वितया शाखे शाखाशब्दे द्विवचनं अहलं अफलं करेह कुरुध्वं । यथा स मनोवृक्षो न फलति । पुनरपि रागद्वेषवशात् संकल्पविकल्पेषु न प्रवर्तते तथा कुरुत । पच्छा पश्चात् पुनः मोहसाललेन ममेदमस्याहमिति विभ्रमो मोहः मोहरूपजलेन मा सिंचह मा सिंचतु मनोवृक्षमूले मा मोहरूपं जलं ददत इत्यर्थः ॥ ६८॥ एवं मनोवृक्षमुत्पाटनाय शिष्यमुपदेश्याधुना मनोव्यापारे विनष्टे इंद्रियाणि विषयेषु न यांतीति दर्शयन्नाह; णडे मणवावारे विसएमु ण जंति इंदिया सव्वे । छिण्णे तरुस्स मूले कत्तो पुण पल्लवा हुँति ॥ ६९ ॥ नष्टे मनोव्यापारे विषयेषु न यांति इंद्रियाणि सर्वाणि । छिन्ने तरोर्मूले कुतः पुनः पल्लवा भवति ॥ ६९ ॥ मणवावारे मनोव्यापारे चित्तस्य संकल्पविकल्पस्वरूपे व्यापारे नष्टे विनष्टे सति सव्वे सर्वाणि समस्तानि इंदिया इंद्रियाणि हृषीकानि विसएसु विषयेषु गोचरेषु ण जंति न यांति न गच्छंति । अत्रैवार्थे अर्थातर Page #89 -------------------------------------------------------------------------- ________________ ८४ आराधनासारः न्यासमाह । तरुस्स मूले तरोर्मूले वृक्षस्य जटाकंदादिविशेषे छिण्णे छिन्ने निःसंतानीकृते कत्तो पुणु कुतः पुनः पल्लवा हुँति पल्लवा भवंति कुतः पुनरपि पल्लवाः प्ररोहति । यथा मूलाभावे अंकुरपल्लवादीनामभावः तथा मनोव्यापाराभावे इंद्रियाणां विषयगमनाभाव इत्यर्थः ॥ ६९ ॥ मनोव्यापार विनाशफलमुपदर्श्य तन्मात्रव्यापारे विनष्टे उत्पन्ने च विशेषमुपदर्श यन्नाह ; ―― मणमित्ते बाबारे णडुप्पण्णे य बे गुणा हुँति । पट्टे आसवरोहो उप्पण्णे कम्मबंधो य ॥ ७० ॥ मनोमात्रे व्यापारे नष्टे उत्पन्ने च द्वौ गुणौ भवतः । नष्टे आस्रवरोधः उत्पन्ने कर्मबंधश्च ॥ ७० ॥ ममित्ते मनोमात्रे चित्तमात्रे संकल्पविकल्पलक्षणमात्रे वावारे व्यापारे णडे नष्टे विनष्टे उपण्णे य उत्पन्ने च जातमात्रे च वे गुणा द्दौ गुणौं संवरकर्मबंधलक्षणौ हुंति भवतः । कस्मिन् सति को गुणो भवतीत्याह । णडे नष्टे सति आसवरोहो आस्रवनिरोधः कर्मास्रवरोधो भवति उत्पन्ने सति उत्पन्नमात्रस्य संकल्पस्यानिषेधे सति कम्मबंधो य कर्मबंधश्च प्रकृतिस्थित्यनुभागप्रदेशलक्षणात्मको भवति ॥ ७० ॥ यावत्कालं विषयव्यापारपरिणतमंतःकरणं तावत्कालं कर्माणि हंतुं न शक्तोस्तीत्यावेदयति ; परिहरिय रायदोसे सुण्णं काऊण णियमणं सहसा । अत्थइ जाव ण कालं ताव ण णिहणेइ कम्माइ ॥ ७१ ॥ परिहृत्य रागद्वेषौ शून्यं कृत्वा निजमनः सहसा | तिष्ठति यावन्न कालं तावन्न निहंति कर्माणि ॥ ७१ ॥ अत्थइ जाव ण कालं यावत्कालं न तिष्ठति यावतं कालं स्वात्माभिमुखपरिणामत्वेन न वर्तते । कोसौ । क्षपकः । किंकृत्वा न तिष्ठति । Page #90 -------------------------------------------------------------------------- ________________ टीकासहितः। परिहरिय रायदोसे परिहृत्य रागद्वेषौ इष्टेषु स्रक्चंदनवनितादिषु प्रीतिः रागः अनिष्टेषु अप्रीतिर्दृषः रागश्च द्वेषश्च रागद्वेषौ परितः सर्वप्रकारेण त्यक्त्वा । न केवलं रागद्वेषौ परिहत्य । सुण्णं काऊण णियमणं सहसा शीघ्रं निजमनः शून्यं च कृत्वा । अत्र मनसः शून्यत्वमेतत् यत् निःशेषविषयविमुखत्वं यच्च चिच्चमत्कारमात्रनिजशुद्धात्मपरिणतत्वं रागद्वेषौ परिहृत्य शून्यं च मनः कृत्वा यावत् क्षपको न तिष्ठति । तावत् किं न स्यादित्याह । ताव ण णिहणेइ कम्माइ तावन्न निहति कर्माणि तावंतं कालं कर्माणि ज्ञानावरणादीनि न निहन्यात् । इति ज्ञात्वा शुद्धात्मस्वरूपं जिज्ञासुना अलोलं मनः कार्यम् । यदुक्तम् रागद्वेषादिकल्लोलैरलोलं यन्मनोजलम् । स पश्यत्यात्मनस्तत्त्वं सतत्त्वं नेतरोजनः ॥ अविक्षिप्तं मनस्तत्त्वं विक्षिप्तं भ्रांतिरात्मनः । धारयेत्तदविक्षिप्तं विक्षिप्तं नाश्रयेत्ततः ॥ ततश्च चेतनाचेतनेषु परद्रव्येषु रागद्वेषौ हित्वा शुभाशुभमनोवचनकायव्यापाररूपयोगत्रयपरिहारपरिणताभेदरत्नत्रयलक्षणज्ञानबलेन शून्य विषयविमुखं च मनः कृत्वा यो वीतरागचारित्राविनाभूतशुद्धात्माभिमुखपरिणामस्तिष्ठति स सकलकर्माणि जयतीति भावार्थः ॥ ७१ ॥ यावच्चिदानंदात्मकपरमब्रह्मोपासनवासनाबलेन मनो निश्चलं न विधीयते तावत् कर्मास्रवा वारयितुं न शक्यते इत्याह;तणुवयणरोहणेहिं रुज्झंति ण आसवा सकम्माणं । जाव ण णिप्फंदकओ समणो मुणिणा सणाणेण ॥७२॥ तनुवचनरोधनाभ्यां रुध्यते न आस्रवाः स्वकर्मणाम् । यावन्न निष्पंदीकृतं स्वमनो मुनिना स्वज्ञानेन ॥ ७२ ॥ रुज्झंति ण न निरुध्यते न निवार्यते ते आस्रवा सकम्माणं स्वकमणां स्वेन आत्मीयेन जीवेन सहैकीभावं गतानां ज्ञानावरणाद्यष्टविध Page #91 -------------------------------------------------------------------------- ________________ आराधनासारः कर्मणां । काभ्यां न निवार्यते । तणुवयणुरोहणोहं तनुवचनरोधनाभ्यां तनुः कायः वचनं वचः तयोर्निरोधने ताभ्यां तनुवचनरोधनाभ्यां दुब्वयणे बहुवयणमिति प्राकृते । अथवा स्वकर्मणामित्यस्य पदस्यायमर्थः । कायेनोपार्जितानि कर्माणि स्वकर्माणि कायकर्माणि वचनेनोपार्जितानि कर्माणि स्वकर्माणि वचनकर्माणि उच्यते । मनोनिरोधेन विना कायनिरोधेन. कायकृतानां कर्मणामास्रवा न निषिध्यंते, वचननिरोधेन वचनकृतानामपि कर्मणामास्रवा न निषिध्यते किंतु सर्वकर्मणामास्रवा एकेनैव मनोनिरोधेने निषिध्यंते तस्मादाह जाम ण णिप्फंदकओ यावन्न निष्पंदीकृतं निश्चलीकृतं । किं तत् । समणो स्वमनः स्वचित्तं द्रव्यभावरूपं । केन । मुणिणा मुनिना महात्मना क्षपकेन । केन निश्चलीकृतं। स्वज्ञानेन स्वसंवेदनज्ञानगुणेन ततो निर्मलचैतन्यस्वभावस्वात्माभिमुखपरिणाममाहात्म्येन दुर्जयमनो जयं कृत्वा कर्मास्रवा निवारयितव्या इति हेतोर्मनोजय एव श्रेयान् ।। ७२॥ मनःप्रसरे निवारिते सति यत्फलं भवति तदावेदयति;खीणे मणसंचारे तुट्टे तह आसवे य दुवियप्पे । गलह पुराणं कम्मं केवलणाणं पयासह ॥७३॥ क्षीणे मनःसंचारे त्रुटिते तथास्रवे च द्विविकल्पे। गलति पुरातनं कर्म केवलज्ञानं प्रकाशयति ॥ ७३ ॥ गलइ गलति विलीयते क्षयं याति । किंतत् । कम्म कर्म । कीदृशं । पुराणं पुरातनं अनेकभवांतरोपार्जितं । न केवलमनेकभेदभिन्नं कर्म विगलति किंतु केवलणाणं पयासेइ केवलज्ञानं केवलं च तत् ज्ञानं च केवलज्ञानं प्रकाशयति आविर्भवति प्रकटीभवति । कस्मिन् सति । खीणे मण-. संचारे प्रक्षीणे मनःसंचारे संचरणं संचारः मनसः संचारो मनःसंचारस्तस्मिन् मनःसंचारे क्षयं विनाशं गते सति । न केवलं मनःसंचारे क्षीणे सति । तुढे तह आसवे य दुवियप्पे तथा तेनैव प्रकारेण आस्रवे. Page #92 -------------------------------------------------------------------------- ________________ टीकासहितः । कर्मास्रवे त्रुटिते सति विलयं गते सति । कीदृशे आस्रवे । दुविकल्पे द्वौ विकल्पौ भेदौ यस्य स द्विविकल्पः तस्मिन् द्विविकल्पे शुभाशुभे द्रव्यभावरूपे वा । मनःप्रसरे क्षीणे सति कर्मास्रवे च निवर्तिते सति भवभवार्जितं कर्म विगलति केवलज्ञानं चाविर्भवतीति समुच्चयार्थः । तथाहि - यो ध्याता अनंतज्ञानादिचतुष्टयलक्षणकार्य समय सारस्योत्पादकेन विशुद्धतरसमाधिपरिणामपरिणतकारणसमयसारेणांतःकरणमतं नयति स कर्मास्रवशत्रून् हत्वा केवलज्ञानविभूतिभाग्भवति निःसंशयमिति ॥ ७३ ॥ यदि कर्मक्षयस्तवाभिप्रेतस्तदा मनः शून्यं विधेद्दीति शिक्षां प्रयच्छन्नाह ;जइ इच्छाह कम्भखयं सुण्णं धारेहि णियमणो झति । सुण्णीयम्मि चित्ते णूर्ण अप्पा पयासेइ ॥ ७४ ॥ यदीच्छसि कर्मक्षयं शून्यं धारय निजमनो झटिति | शून्यीकृते चित्ते नूनमात्मा प्रकाशयति ॥ ७४ ॥ ८७ भो क्षपक जइ इच्छहि यदिचेत् इच्छसि वांछसि अभिलषसि । किं तत् । कम्मक्खयं कर्मणां द्रव्यभावरूपाणां क्षयो विनाशः कर्मक्षयस्तं कर्मक्षयं तदा सुण्णं धारोह शून्यं लाभपूजाभोगकांक्षाविरहितं धारय । किं तत् । नियमणो निजमनः संकल्पविकल्परूपं स्वकीयचित्तं । कथं । झटिति त्वरितं । ततश्च सुण्णीकयम्मि चित्ते शून्यीकृते विषयविमुखीकृते चित्ते मनसि । किं स्यादित्याह । अप्पा पयासेहि आत्मा प्रकाशयति जलंधरपटलविघटनाद्रावरिव प्रकटीभवति । कथं । णूणं नूनं निश्चितं । तथाहि - अयमात्मा सकलविमलकेवलज्ञानमय मूर्तिः रागद्वेषादिदोषोज्झिते मनसि सर्वभावविलये वावभासते । यदुक्तं “ सर्वभावविलये विभाति यत्सत्समाधिभरनिर्भरात्मनः । चित्स्वरूपमभितः प्रकाशकं शर्मधाम नमताद्भुतं महः " ॥ ७४ ॥ यदि चित्तमुद्वासयसि तदा स्वात्मानं पश्यसीत्यावेदयति ; - Page #93 -------------------------------------------------------------------------- ________________ आराधनासारः उवासहि णियचित्रं वसहि सहावे सुणिम्मले गंतुं। जह तो पिच्छसि अप्पा सण्णाणो केवलो सुद्धो॥७५॥ उद्वासयसि निजचित्तं वससि सद्भावे सुनिर्मले गंतुम् । यदि तदा पश्य स्वात्मानं संज्ञानं केवलं शुद्धम् ॥ ७५ ॥ भो क्षपक उव्वासहि णियचित्तं यदि निजचित्तं स्वकीयांतरंग उदासयसि पंचेंद्रियविषयेषु विमुखतां नयसि उद्वसति कश्चित्तमुद्वसं अन्यः प्रयुक्ते धातोश्च हेताविनीति इन्नंतो वस् धातुरिहावगंतव्यं । तथा भो क्षपक सद्भावे शोभने भावे विशुद्धज्ञानदर्शनोपयोगमये परमात्मनि वससि स्थिति करोषि यदि। किंविशिष्टे सद्भावे । सुनिर्मले शुद्धनिश्चयनयापेक्षयारागद्वेषमोहः मंदादिदोषोज्झिते । किंकर्तुं सद्भावे वसति । गंतु तमेव परमात्मानं सम्यक् परिछेत्तुं । सर्वे गत्या धातवो ज्ञानार्था इति। यद्येवं करोषि तो पिच्छसि. अप्पा तदा आत्मानं चिदात्मकं स्वस्वरूपं पश्यसि अवलोकयसि स्वसंवेदनन स्वात्मानं संवेदयसीत्यर्थः। कथंभूतमात्मानं । सण्णाणं सज्ज्ञानं सत् शोभमानं संशयविमोहविनमवर्जितं ज्ञानं यस्य स तं सज्ज्ञानं । पुनकिंविशिष्टमात्मानं । केवलमसहायं । पुनः कीदृशं । शुद्धं सर्वोपाधिरहितं । यदिचेत् निजचित्तमुद्दासयसि सद्भावे च वससि तदा स्वात्मानं पश्यसीति समुच्चयार्थः। तथाहि । भो क्षपक यदि त्वं संसारशरिभागादिषु पराङ्मुखत्वं गतोसि तर्हि परमब्रह्मोपासनवासनानिष्ठो भव ॥ यदुक्तम् " यदि विषयपिशाची निर्गता देहगेहात् सपदि यदि विशीर्णो मोहनिद्रातिरेकः । यदि युवतिकरके निर्ममत्वं प्रपन्नो झगिति तनु विधेहि ब्रह्मवीथीविहारम् " ॥ ७५ ॥ क्षपकस्य परमात्मसद्भावशून्यत्वे दृषणमाह; Page #94 -------------------------------------------------------------------------- ________________ टीकासहितः । ८९ तणुमणवयणे सुण्णो ण य सुण्णो अप्पसुद्धसब्भावे । ससहावे जो सुण्णो हवइ वसो गयणकुसुमणिहो ॥ ७६ ॥ तनुमनोवचने शून्यो न च शून्य आत्मशुद्धसद्भावे । स्वसद्भावे यः शून्यो भवति वशो गगनकुसुमनिभः ॥ ७६ ॥ क्षपको ध्याता सुण्णो शून्यो भवतु । कस्मिन् शून्यो भवतु । तणुमणवयणे तनुः शरीरं मनश्चित्तं वचनं प्रतीतं तनुश्च मनश्च वचनं च तनुमनोवचनं तस्मिन् तनुमनोवचने । इदं शरीरादिकं मदीयमिति परिछिनति । अथवा तनुक्रिया शुशुभरूपा देवार्चनादिका अशुभरूपा प्राणिहननादिका, मनः क्रिया शुभरूपा देवगुरुगुणस्मरणादिका अशुभरूपा वधबंधनचिंतनादिकाः, वचनक्रियाः शुभरूपा देवगुरुस्तुत्यादिकाः अशुभरूपा मिथ्याभाषणादिका इत्येतासु शून्यः । यदुक्तं आस्तां बहिरुपधि च यस्तनुवचन विकल्पजालमप्यपरम् । कर्मकृतत्वान्मत्तः कुतो विशुद्धस्य मम किंचित् ॥ कर्मणो यथास्वरूपं न तथा तत्कर्म कल्पनाजालम् । तत्रात्ममतिविहीनो मुमुक्षुरात्मा सुखी भवति ॥ तथा ण य सुण्णो अप्पसुद्धसब्मावे न च शून्य आत्मशुद्धसद्भावे आत्मनश्चिदात्मकस्य शुद्धो रागादिमलरहितः सद्भावोस्तिस्वभावः तस्मिन्न आत्मशुद्धसद्भावे न च शून्यो ध्याता । नित्यानंदैकस्वभावं परमात्मतत्त्व तत्र ननु जाग्रदवस्थः इत्यर्थः । यदुक्तम् अस्पृष्टमबद्धमनन्यमयुतमविशेषमभ्रमोपेतः । यः पश्यत्यात्मानं स पुमान् खलु शुद्धनयनिष्ठः ॥ स्वसद्भावे यः शून्यः स कीदृश इत्याह । ससहावे जो सुण्णो स्वसद्भावे टंकोत्कीर्णपरमानंदैकस्वभावे यो ध्याता शून्यो ऽविकल्पः स गगनकुसुमनिभो भवति च, गगनस्य आकाशस्य कुसुमं गगनकुसुमं तन्निभः गगन Page #95 -------------------------------------------------------------------------- ________________ ९० कुसुमनिभः आकाशकुसुमतुल्यः स मिथ्यारूपो भवतीत्यर्थः । ततोऽमंदचिदानंदोत्थनिरूपम सुखामृतरसं पिपासुना विशुद्धे स्वात्मनि सावधानीभूय स्थातव्यं इति मनःसंयमनम् ॥ ७६ ॥ आराधना सारः शून्यध्यानप्रविष्टः क्षपकः कीदृगवस्थो भवतीत्याह ; सुण्णज्झाणपट्ठो जोई ससहावसुक्खसंपण्णो । परमाणंदे थक्को भरियावत्थो फुडं हवइ ॥ ७७ ॥ शून्यध्यानप्रविष्टो योगी स्वसद्भावसौख्यसंपन्नः । परमानंदे स्थितो भृतावस्थः स्फुटं भवति || ७७ || जोई योगी क्षपको भृतावस्थो भवति । कीदृशो योगी । सुण्णज्झाणपइडो शून्यध्यानप्रविष्टः शून्यं च ध्यानं च शून्यध्यानं निर्विकल्पसमाधिलक्षणं तत्र प्रविष्टः स्थितः शून्यध्यानप्रविष्टः निर्विकल्पसमाध्याविष्टः । यत्र च - जायंते विरसा रसा विघटते गोष्टी कथाकौतुकं शीर्यते विषयास्तथा विरमति प्रीतिः शरीरेपि च । जोषं वागपि धारयत्यविरतानंदात्मनः स्वात्मनश्चिंतायामपि यातुमिच्छति मनो दोषैः समं पंचताम् ॥ तच्छून्यध्यानमिह गृह्यते । पुनः कीदृशो योगी । ससहावसुक्खसंपण्णो स्वसद्भावसौख्यसंपन्नः स्वस्य परमात्मनो यः सद्भावोऽनंतज्ञानपरमानंदादिलक्षणः स्वसद्भावस्तदुत्थं यत्सौख्यं स्वसद्भावसौख्यं तेन संपन्नः संयुक्तः स्वसद्भावसौख्यसंपन्नः । कीदृशो योगी । परमाणंदे थक्को परमानंदे स्थितः परमश्चासावानंदश्च परमानंदस्तस्मिन् परमानंदे स्थितः विशुद्धतरपरब्रह्माराधनोद्भूतस्फीतानंदामृतरसतृप्त इत्यर्थः । अत एव क्षपकः भरियावत्थो फुडं हवइ पूर्णकलशवत् भृतावस्थः अविनश्वरनिरुपमानं Page #96 -------------------------------------------------------------------------- ________________ टीकासहितः । ९१ दसुधारससंभृतः स्फुटं निश्चितं भवतीत्यर्थः । एवं ज्ञात्वा विषयशून्यं ध्यान -- मवलंब्य स्वात्माराधनीयोऽनंतसौख्यं प्राप्सुनेति ॥ ७७ ॥ अधुना शून्यध्यानलक्षणमाह; जत्थ ण झाणं ज्ञेयं झायारो णेव चिंतणं किंपि । णय धारणा वियप्पो तं सुण्णं सुद्ध भाविज्ञ ॥ ७८ ॥ यत्र न ध्यानं ध्येयं ध्यातारो नैव चिंतनं किमपि । न च धारणा विकल्पस्तं शून्यं सुदु भावयेः ॥ ७८ ॥ भो क्षपक तं सुणं सुट्टु भाविज्ज तत् शून्यं सुष्ठु अतिशयेन भावये -- स्त्वं जानीया इति भावार्थः । तत् किं । यत्र आर्तरौद्रधर्मशुक्लभेदाच्चतुर्विकल्पं ध्यानं नास्ति जिन सुगतहर ब्रह्मभेदाद्यने कविकल्पं ध्येयं च नास्ति तथा शायारो शुचिः प्रसन्नो गुरुदेवभक्तः सत्यवतः शीलदयासमेतः । दक्षः पटुर्बीजपदावधारी ध्याता भवेदीदृश एव लोके । - इत्यादिगुणोपेतो ध्यातापि नास्ति तथा यत्र णेव चिंतणं किंपि नैव । किंतत् । चितनं शुक्लकृष्णरक्तपीतादिकमन्यदपि शत्रुवधादिकं स्त्रीराजवश्यादिकं वा चिंतनं नास्ति । तथा ण य धारणा यत्र धारणापि नास्ति कालांतरादविस्मरणं धारणं तन्नास्तीत्यर्थः तथा वियण्णो असंख्येयलोकप्रमाणो विकल्पोपि नास्ति तच्छून्यं ध्यानं अर्थान्निर्विकल्प समाधिलक्षणं ध्यानं निःसंदेहं भावयेरिति । ईदृग्विधशून्यतापरिणतो ध्याता नयपक्षपातोज्झितः स्वरूपगुप्तो भवति । यश्व स्वरूपगुप्तः स परमानंदामृतमेवास्वादयति । यदुक्तं • य एव मुक्त्वा नयपक्षपातं स्वरूपगुप्ता निवसति नित्यम् । विकल्पजालच्युतशांतचित्तास्त एव साक्षादमृतं पिवति ॥ अनुच Page #97 -------------------------------------------------------------------------- ________________ आराधनासारः “ अखंडितमनाकुलं ज्वलदनंतमंतर्बहि महः परममस्तु नः सहजमुदिलासं सदा । चिदुच्छलननिर्भरं सकलकालमालंबतो यदेकरसमुल्लसल्लवणखिल्ललीलायितम् " ॥ ७८ ॥ प्रागुक्तलक्षणशून्यतापरिणतः आत्मा शुद्ध एव भावो भवति स शुद्धभावः किमारव्यो भवतीत्यावेदयति;जो खलु सुद्धो भावो सो जीवो चेयणावि सा उत्ता। तं चेव हवदिणाणं दंसणचारित्तयं चेव ॥ ७९ ॥ यः खलु शुद्धो भावः स जीवश्चेतनापि सा उक्ता । व तच्चैव भवति ज्ञानं दर्शनचारित्रं चैव ॥ ७९ ॥ जो खलु सुद्धो भावो यः खलु निश्चयेन शुद्धो रागद्वेषमोहादिदोघोज्झितः भावो भवति स एव भावो जीवः चतुर्भिर्द्रव्यभावप्राणैः पूर्वमजीवत् संप्रति जीवति अग्रे च जीविष्यति इति जीवः ज्ञानदर्शनोपयोगमयः तथा चेयणावि सा उत्ता स एव भावः सा जगत्प्रसिद्धा चेतना उक्ता प्रतिपादिता । स एव भाव तं चेव हवदि इत्यादि तत् विशुद्धं ज्ञानं दर्शनं चारित्रं भवति । यदुक्तम् तदेकं परमं ज्ञानं तदेकं शुचिदर्शनम् । चारित्रं च तदेकं स्यात्तदेकं निर्मलं तपः ॥ नमस्यं च तदेवैकं तदेवैकं च मंगलम् । उत्तमं च तदेवैकं तदेव शरणं सताम् ॥ अनुच-" आक्रामन्नविकल्पभावमचलं प:नयाभ्यां विना सारो यः समयस्य भाति निभृतैरास्वाद्यमानः स्वयम् । विज्ञानैकरसः स एष भगवान् पुण्यः पुराणः पुमान् ज्ञानं दर्शनमप्ययं किमथवा यत्किंचनैकाप्ययम्" ॥७९॥ यः खलु शुद्धो भावः स एव रत्नत्रयमित्याचष्टे; Page #98 -------------------------------------------------------------------------- ________________ टीकासहितः । ९३. दंसणणाणचरित्ता णिच्छयवाएण हुंति ण हु भिण्णा । जो खलु सुद्धो भावी तमेव रयणत्तयं जाण ॥ ८० ॥ दर्शनज्ञानचारित्राणि निश्चयवादेन भवंति न हि भिन्नानि । यः खलु शुद्धो भावस्तमेव रत्नत्रयं जानीहि ॥ ८० ॥ भो क्षपक दंसणणाणचरित्ता दर्शनं च ज्ञानं च चारित्रं च दर्शनज्ञानचारित्राणि णिच्छयवाएण निश्चयवादेन निश्चयनयापेक्षया हुंति णहु भिण्णा हु स्फुटं भिन्नानि परमात्मन: स्वरूपात् पृथग्भूतानि नः भवंति । यदुक्तम् आत्मनि निश्चयबोधस्थितयो रत्नत्रयं भवक्षतये । भूतार्थपथप्रस्थितबुद्धेरात्मैव तत्रितयम् ॥ कथमपि समुपात्तत्रत्वमध्येकताया अपतितमिवात्मज्योतिदुद्गच्छद च्छम् । सततमनुभवामोऽनंत चैतन्यचिन्हं न खलु न खलु यस्मादन्यथा साध्यसिद्धिः ॥ किंतु जो खलु सुद्धो भावो यः खलु निश्चयेन शुद्धः कर्ममलविनिर्मुक्तः भावः तमेव भावं रत्नत्रयं जाण जानीहि । तथाहि - एकमेव परमा-त्मानमात्मनि वर्तमानममंदानंद मेदुरमात्मनैव यो ध्यायति तेन रत्नत्रयमेवाराधितं भवेदिति भावार्थः ॥ ८० ॥ अशेषकामको धलोभमदमात्सर्यादिभिर्विभावपरिणामैर्मुक्तत्वादयमात्मा इत्याद्याह; तत्तियमओ हु अप्पा अवसेसालंबणेहिं परिमुक्को । उत्तो स तेण सुण्णो णाणीहि ण सव्वदा सुण्णो ॥८१॥ तन्त्रिकमयो हि आत्मा अवशेषालंबनैः परिमुक्तः । उक्तः स तेन शून्यो ज्ञानिभिर्न सर्वदा शून्यः ॥ ८१ ॥ शून्य. Page #99 -------------------------------------------------------------------------- ________________ ९४ आराधनासारः अप्पा आत्मा अतति गच्छति स्वकीयान् द्रव्यपर्यायानित्यात्मा । किं विशिष्टः । तत्तियमइओ तत्रितयमयः दर्शनज्ञानचारित्रमयः।ज्ञानि मिरात्मा दर्शनज्ञानमयो निर्दिष्ट इति । यदुक्तम्अद्वैतापि हि चेतना जगति चेद् दृग्ज्ञप्तिरूपं त्यजेत् तत्सामान्यविशेषरूपविरहात्सास्तित्वमेव त्यजेत् । तत्त्यागे जडतावतोपि भवति व्याप्यो विना व्यापका दात्मा चांतमुपैति तेन नियतं दृम्ज्ञप्तिरूपास्तु चित् ॥ अतः आत्मा दर्शनज्ञानोपयोगमयोऽवगंतव्यः तस्यैव शुद्धबुद्धस्वभावस्यात्मनः स्वात्मनि या स्थितिस्तच्चारित्रमिति । अथवा ववहारेणुवदिस्सदि णाणिरस चरित्त दंसणं णाणं ।। ___ण वि णाणं ण चरित्तं ण दंसणं जाणगो सुद्धो ॥ अनुच-सम्यक्सुखबोधदृशां त्रितयमखंडं परात्मनो रूपम् । तत्रितयतत्परो यः स एव तल्लब्धिकृतकृत्यः ॥ संसारव्यवहारव्यापारोत्पादकै रागद्वेषमोहशृंगारादिभिरवलंबनैः सालंबो भविष्यति आत्मेत्याशंक्याह अवसेसालंबणेहिं परिमुक्को अवशे पाणि समस्तानि यान्यालंबनानि अपध्यानादीति तैः सर्वप्रकारेण मुक्को रहितः उत्तो सतेण सुण्णो स आत्मा तेनैव हेतुना शून्यः उक्तः प्रतिपादितः । ततश्च समस्तेंद्रियविषयकषायविषये शून्यः चिदानंदैकसद्भावे स्वरूपे योऽशून्यः स सर्वप्रकारेणोपादेय इति भावार्थः ॥ ८१ ॥ चित्स्वभावः खल्वयात्मा मोक्षमार्गों मोक्षो वेत्यावेदयति;एवं गुणो हु अप्पा जो सोभणिओहु मोक्खमग्गोति। अहवा स एव मोक्खो असेसकम्मक्खए हवइ ॥ ८२। एवं गुणो ह्यात्मा यः स भणितो हि मोक्षमार्ग इति । अथवा स एव मोक्षः अशेषकर्मक्षये भवति ॥ ८२ ।। Page #100 -------------------------------------------------------------------------- ________________ टीकासहितः।. एवं गुणो हु अप्पा आत्मा य एवंभूता अनंतज्ञानादयो गुणा यस्य स एवंगुणः य एवंगुण आत्मा स एव मोक्षमार्ग इति भणितः कथितः सकलकर्मविप्रमोक्षलक्षणो मोक्षस्तस्य मार्गों दर्शनज्ञानचारित्राणि एवंगुणविशिष्टः खल्वात्मा साक्षान्मोक्षमार्ग इत्यवगंतव्यः अहवा अथवा मोक्षमार्गेण किं स एव मुक्खो स एवात्मा मोक्षः निरतिशयानंदसुखरूपः । कदास आत्मा मोक्षो भवतीत्याह। असेसकम्मक्खये हवइ अशेषाणि समस्तानि मूलोत्तरप्रकृतिभेदभिन्नानि यानि कर्माणि ज्ञानावरणदर्शनावरणा. दीनि तेषां क्षयः सामस्तेन विनाशः अशेषकर्मक्षयस्तस्मिन्नशेषकर्मक्षये सति स एव आत्मा मोक्षो भवतीत्यर्थः ॥ ८२ ॥ __यावत्साकल्याभिनिनिवेशो योगिनस्तावच्छून्यं ध्यान नास्तीत्यावेदयति;जाम वियप्पो कोई जायइ जोइस्स झाणजुत्तस्स। ताम ण सुण्णं झाणं चिंता वा भावणा अहवा ॥८३॥ यावद्विकल्पः कश्चिदपि जायते योगिनो ध्यानयुक्तस्य । तावन्न शून्यं ध्यानं चिंता वा भावना अथवा ॥ ८३ ॥ जोइस्स योगिनः संवृतद्रियस्य क्षपकस्य जाम वियप्पो कोई जायह यावत्कालं कोपि कश्चिदपि विकल्पः अहं सुखी अहं दुःखीत्यादिरूपः जायते उत्पद्यते । कथंभूतस्य योगिनः । झाणजुत्तस्स ध्यानयुक्तस्य निर्विकल्पसमाधिनिष्ठस्य । कथं विकल्पाविर्भावः ? पूर्वविभ्रमसंस्कारादिति । यदुक्तम् जाननप्यात्मनस्तत्त्वं विविक्तं भावयन्नपि । पूर्वविभ्रमसंस्काराद् भ्रांति भूयोपि गच्छति ।। विकल्पावतारश्चेद्योगिनस्तर्हि किं दूषणमित्याशंक्याह । ताव ण सुण्णं झाणं तावत्कालं शून्यं संकल्पातीतं ध्यानं नास्ति । तत्किंमस्तीत्याशंक्याह। चिंता वा भावणा अहवा तस्य परमात्मनश्चिंता अनंतज्ञानादिगुणस्मरण Page #101 -------------------------------------------------------------------------- ________________ आराधनासारः wwwww लक्षणा अथवा तस्मिन्नेव टंकोत्कीर्णज्ञायकैकस्वभावे भावना । न पुनः शून्यं ध्यानं । तथाहि । आत्मस्वभावलंबिनो योगिनः संकल्पविकल्पं विदलयन् शुद्धनय एवोदेति । यदुक्तम् आत्मस्वभावं परभावभिन्नमापूर्णमाद्यंतविमुक्तमेकम् । विलीनसंकल्पविकल्पजालं प्रकाशयन् शुद्धनयोऽभ्युदेति ॥ तस्माच्छून्यध्यानमभिलषता मुमुक्षुणा शुद्धनय एवेष्टव्य इति ॥ ८३॥ विशदानंदमयात्मनि स्वात्मनि यस्य मनो विलीयते तस्यात्मा कर्मनिर्मूलनक्षमः प्राकट्यमुपढौकते इत्याह;लवणव्व सलिलजोए झाणे चित्तं विलीयए जस्स । तस्स सुहासुहडहणो अप्पाअणलो पयासेइ ॥ ८४ ॥ लवणमिव सलिलयोगे ध्याने चित्तं विलीयते यस्य । तस्य शुभाशुभदहन आत्मानलः प्रकाशयति ॥ ८४ ॥ पयासेइ प्रकाशयति प्रकटी भवति । प्रद्योतते इति यावत् । कोसौ । अप्पाअणलो आत्मैव अनलो वन्हिः आत्मानलः आत्महुताशनः । कस्यात्मानलः प्रकटीभवति इत्याह । झाणे चित्तं विलीयए जस्स यस्य योगिनो नियमितपंचेंद्रियस्य शुद्धात्मस्वरूपनिष्ठस्य मनश्चित्तं ध्याने धर्मशुक्लरूपे निर्विकल्पसमाधिलक्षणे वा विलीयते विलयं विनाशं याति यताश्चद्रूपे स्थित लग्नं मनोऽवश्यमेव विलीयते । अतएव परात्मनि स्थिति न करोति । यदुक्तम् नूनमत्र परमात्मनि स्थितं स्वातमंतमुपयाति तद्वहिः । तं विहाय सततं भ्रमत्यदः को बिभेति मरणान्न भूतले ।। किमिव ध्याने चित्तं विलीयत इति पृष्टे प्राह । लवणव्व सलिलजोए लवणमिव सलिलयोगे सलिलेन योगः सलिलयोगस्तस्मिन् सलिलयोगे । Page #102 -------------------------------------------------------------------------- ________________ टीकासहितः। यथा लवणं पयोयोगमासाद्य सद्यो विलीयते तथा यस्य चित्तं शुद्धात्मयोगे बिलयमुपढौकते तस्य चिदानंदोवश्यं प्राकट्यमुपगच्छति । अस्मिंश्वात्मनि अनुभवमुपयाते द्वैतं न प्रतिभाति । यदुक्तम् उदयति न नयश्रीरस्तमेति प्रमाण क्वचिदपि च न विद्मो याति निक्षेपचक्रम् । किमपरमभिदध्ये धाग्नि सर्वकषेस्मि ननुभवमुपयात भाति न द्वैतमेव ॥ किंविशिष्टः आत्मानलः । सुहासुहडहणो नरेंद्रसुरेंद्रफणींद्रसाम्राज्योदयहेतुः शुभकर्म नारकादिदुःखकारणमशुभकर्म शुभं च अशुभं च शुभाशुभे तयोर्दहनः शुभाशुभकर्मेधनसंघातप्लोषकारक इत्यर्थः ॥ ८४ ॥ स्वात्मोत्थपरमानंदसुधासिंधौ निमने मनसि आत्मैव परमात्मा भवतीत्यावेदयति उव्वसिए मणगेहे णडे णीसेसकरणवावारे । विप्फुरिए ससहावे अप्पा परमप्पओ हवइ ॥ ८५ ॥ उद्वसिते मनोगेहे नष्टे निःशेषकरणव्यापारे । विस्फुरिते स्वसद्भावे आत्मा परमात्मा भवति ॥ ८५ ॥ अप्पा परमप्पओ हवइ भवति संजायते । कोसौ । आत्मा शरीराधिष्ठानो जीवः । कथंभूतो भवति । परमात्मा भवति । यदुक्तम् उपास्यात्मानमेवात्मा जायते परमोऽथवा । मथित्वात्मानमात्मैव जायतेऽनिर्यथा तरुम् ॥ कस्मिन् सति आत्मा परमात्मा भवतीत्याह । उव्वसिए मणगेहे मनोंतरंगं तदेव गहें तस्मिन् मनोगेहे उद्दसिते सति विनष्टे सति सर्वविषयव्यापारेभ्यः पराङ्मुखतामागते सति । मनसो विनाशकरणं परमात्मध्यान-. मेव । न केवलं उद्दसिते मनोगेहे । णहे णीसेसकरणवावारे नष्टे निः Page #103 -------------------------------------------------------------------------- ________________ आराधनासारः शेषकरणव्यापार करणानामिद्रियाणां व्यापारः स्वस्वविषयेषु प्रवर्तनं करण: व्यापारः निःशेषश्चासौ करणव्यापारश्च निःशेषकरणव्यापारस्तस्मिन् निःशेष करणव्यापारे नष्टे सति परं करणव्यापार बहिरात्मा वारयितुं न शक्नोति किंतु तत्रैव रमते । यदुक्तं न तदस्तींद्रियार्थेषु यत्क्षेमंकरमात्मनः । तथापि रमते बालस्तत्रैवाज्ञानभावनात् ॥ ततश्च हृषीकेषु विजितेष्ववश्यं परात्मतत्त्वमाविर्भवति । यदुक्तम् संहृतेषु स्वमनोगजेषु यद्भाति तत्त्वममलात्मनः परम् । तद्तं परमनिस्तरंगतामनिरुय इह जन्मकानने ॥ ततश्च मनसि विनष्टे हृषीगणे प्रहतप्रसरे स्वस्वभावे विस्फुरिते आत्मैव परमात्मा भवतीति समुदायार्थः ॥ ८५ ॥ शून्यं ध्यानं विदधानस्य धातुः सकलकर्मविप्रमोक्षो भवतीत्याह;इयएरिसम्मि सुण्णे झाणे झाणिस्स वट्टमाणस्स। चिरबद्धाण विणासो हवइ सकम्माण सव्वाणं॥८६॥ इत्येतादृशे शन्ये ध्याने ध्यानिनो वर्तमानस्य । चिरबद्धानां विनाशो भवति स्वकर्मणां सर्वेषाम् ॥ ८ ॥ हवइ भवति जायते । कोसौ । विणासो विनाशो विलयः । केषां । सव्वाणं सकम्माणं सर्वेषां मूलोत्तरप्रकृतिभेदभिन्नानां स्वकर्मणां ज्ञानावरणादीनां । कस्य कर्मणां विनाशो भवतीत्याह । झाणिस्स ध्यानिनो योगिनः । कथम्भूतस्य योगिनः । इयएरिसम्मि सुण्णे झाणे वट्टमाणस्स इति प्रागुक्तप्रकारेण एतादृशे शून्ये ध्याने निर्विकल्पसमाधिलक्षणे प्रवर्तमानस्य । एतादृशे ध्याने प्रतिष्ठितस्य योगिनः कर्मक्षयो भवतीति निःसंशयः । तथाहि-योगिनोऽयं योगकल्पतरुवाछितं फलं तदा फलति यदा मनोगजेन नोत्पाटितो भवेत् । यदुक्तं Page #104 -------------------------------------------------------------------------- ________________ टीकासहितः। चित्तमत्तकारणा नचेद्धतो दुष्टबोधवनवह्निनाऽथवा । योगकल्पतरुरेष निश्चितं वांछितं फलति मोक्षमत्फलम् ॥ ततोवश्यं योगिना मनोगजाद्योगकल्पतरुयत्नेन रक्षणीय इति भावार्थः ॥८६॥ निःशेषकर्मविनाशे सति कीदृशं फलं भवतीत्यावेदयति;णीसेसकम्मणासे पयडेइ अणंतणाणचउखधं । अण्णेवि गुणा य तहा झाणस्स ण दुल्लहं किंपि॥८७॥ निःशेषकर्मनाशे प्रकटयत्यनंतज्ञानचतुःस्कंधं । अन्येपि गुणाश्च तथा ध्यानस्य न दुर्लभं किंचिदपि ॥ ८७ ॥ पयडेइ प्रकटीभवति। किं तत् । अणंतणाणचउर्खधं अनंतज्ञानादीनां चतुःस्कंधं अनंतज्ञानचतुःस्कंधं अनंतविज्ञानानंतवीर्यतानंतसौख्यत्वानंतदर्शनलक्षणं। कदा तदेतच्चतुष्टयं प्रकटीभवति । णीसेसकम्मणासे निःशेषाणि यानि कर्माणि निःशेषकर्माणि तेषां नाशः निःशेषकर्मनाशस्तस्मिन् निशेषकर्मनाशे सति । न केवलमनंतज्ञानचतुःस्कंधं प्रकटीभवति। अण्णेवि गुणा य तहा तथा तेनैव प्रकारेण अन्येपि अपरे गुणाः सूक्ष्मत्वाव्याबाधादयोऽनंतगुणाः प्रकटीभवन्ति तत्तत्कर्मक्षयाते ते गुणाः प्रकृष्टाः खलु जायते । तद्यथा हम्बोधौ परमौ तदावृतिहतेः सौख्यं च मोहक्षयात् वीर्य विघ्नविघाततोऽप्रातहतं मूर्तिर्न नामक्षतेः । आयुनीशवशान जन्ममरणे गोत्रेण गोत्रं विना . सिद्धानां न च वेदनीयविरहादुःखं सुखं चाक्षयम् ॥ यैर्दुःखानि समाप्नुवंति विधिवज्जानंति पश्यति नो वीर्य नैव निजं भजंत्यसुभृतो नित्यं स्थिताः संसृतौ । कर्माणि प्रहतानि तानि महता योगेन यैस्ते सदा सिद्धानंतचतुष्टयामृतसरिन्नाथा भवेयुर्न किम् ॥ Page #105 -------------------------------------------------------------------------- ________________ आराधनासारः एवं समस्तकर्मक्षये सति ध्यानमाहात्म्यादेवाप्रसिद्धत्वस्य जीवस्य अनंतगुणाः प्रकटी भवंति ततः प्राह झाणस्स ण दुल्लह किंपि ध्यानस्य दुर्लभं न किंचिदिति किंतु ध्यानमाहात्म्यात्सर्वं सुलभामिति । अथवा एवं व्याख्या । अनुक्तमपि ध्यानपदमस्यां गाथायामत्यूह्यं । ध्यानं कर्तृ घ्याननो योगिनः अनंतज्ञानचतुःस्कंधं पयडेइ प्रकटयेत् अनंतज्ञानचतुःस्कंधमिति कर्मपदं अण्णेवि गुणा य तहा तथा अन्यानपि गुणान् प्रकटयेत् अत एव ध्यानस्य दुर्लभं किंचिन्नास्ति ॥८७॥ कर्मकलंकमुक्तः खल्वयमात्मा निरवशेष लोकालोकं परिछिनत्तीत्यावेदयति;जाणइ पस्सइ सव्वं लोयालोयं च दव्वगुणजुत्तं । एयसमयस्स मज्झे सिद्धो सुद्धो सहावत्थो ॥ ८८॥ जानाति पश्यति सर्व लोकालोकं च द्रव्यगुणयुक्तं । एकसमयस्य मध्ये सिद्धः शुद्धः स्वभावस्थः ॥ ८८ ॥ जाणइ जानाति परिच्छिनत्ति वेत्ति तथा पस्सइ पश्यति विलोकयति । कोसौ । सिद्धः व्यक्तिरूपः परमात्मा । किं जानाति पश्यतीत्याह । लोयालोयं च लोक्यंते विलोक्यंते जीवादयः पदार्था यस्मिन् स लोकस्तविपरीतोऽलोकः लोकश्च अलोकश्च लोकालोकस्तं सर्व निरवशेषं । कथंभूतं लोकालोकं । दव्वगुणजुत्तं द्रव्यगुणयुक्तं द्रव्यपर्यायसंयुक्तं द्रव्याणि जीवपुद्गलधर्माधर्माकाशकालाः, द्रव्यगुणाः ज्ञानवर्णादिगतिस्थित्यवगाहवतेनालक्षणाः, द्रव्यपर्यायाः नृत्वदेवत्वादिव्यणुकद्वित्रिगुणादि धर्माधर्मयोलौकाकाशस्य शुद्धपर्याय एवाकाशस्य घटाकाशपटाकाशादिः कालस्य समयादिलक्षणा तैर्द्रव्यगुणपर्यायैर्युक्तमित्यर्थः । कथं जानाति । एयसमयस्स मज्झे एकस्य समयस्य मध्ये एकसमयमध्ये सूर्यस्य प्रतापप्रकाशवत् । यथा किल सूर्यस्य प्रतापप्रकाशावेकस्मिन्नेव समये उत्पद्यते तथा वास्य शुद्धात्मनः सर्वस्यापि सावयवद्रव्यस्य ज्ञातृत्वं दर्शनित्वं चैकस्मिन्नेव Page #106 -------------------------------------------------------------------------- ________________ टीकासहितः। समये संभवः छद्मस्थानां तु यथाक्रमेण । किं विशिष्टः सिद्धः । द्रव्यकर्मभावकर्मनोकादिपरित्यक्तः । पुनः किं विशिष्टः । स्वभावस्थः स्वमावे चिदानंदात्मके तिष्ठतीति स्वभावस्थः । जानाति पश्यतीत्युक्त्वा ज्ञानदर्शनगुणद्वयं सिद्धात्मनः प्रकाशितं । यदुक्तम् विश्वं पश्यति वेत्ति शर्म लभते स्वोत्पन्नमात्यंतिकं नाशोत्पत्तियुतं तथाप्यचलकं मुक्त्यार्थिनां मानसे । एकीभूतमिदं वसत्यविरतिं संसारभारोज्झितं शांतं जीवधनं द्वितीयरहितं मुक्तात्मरूपं महः ॥ तथा ज्ञानादिगुणकथनेन ज्ञानशून्यं चैतन्यमात्रमात्मेति सांख्यमतं बुद्ध्यादिगुणोज्झितः पुमान इति यौगमतं च प्रत्युक्तम् ॥ ८८ ॥ सिद्धात्मानंतकालं यावदनंतसुखमनुभवतीत्याह;कालमणंतं जीवो अणुहवइ सहावसंभवं सुक्खं । इंदियविसयातीदं अणोवमं देहपरिमुक्को ॥ ८९॥ कालमनंतं जीवोऽनुभवति स्वभावसंभवं सौख्यम् । इंद्रियविषयातीतं अनुपमं देहपरिमुक्तः ॥ ८९ ॥ अणुहवइ अनुभवति । कोसौ । ज्ञानकमलाघनाश्लेषलालसःसिद्धजीवः । कां कर्मतामापन्नामनुभवति । सहायसुक्खसंभूई स्वभावसुखसंभूति स्वभावात् आत्मस्वभावात् यत् संभूतं सुखं अनंतसुखं तस्य संभूतिर्विभूतिलक्ष्मीः स्वभावसुखसंभूतिः तां स्वभावसुखसंभूतिं । अथवा स्वभावतो निसर्गतो या सुखसंभूतिः स्वभावसुखसंभूतिस्तां । किं विशिष्ट स्वभावसुखसंभूति। इंदियविसयातीदं इंद्रियविषयातीतं इंद्रियाणि स्पर्शनरसनघाणचक्षुःश्रोत्राणि तेषां विषयाः स्पर्शरसगंधवर्णशब्दास्तदतीतं इंद्रियविषयातीतं विषयविरहितामित्यर्थः । पुनः कथंभूतां । अनुपमा उपमारहितां । कथं यावदनुभवति । कालमणंतं अनंतकालपर्यंतमित्यर्थः । कीदृशः सिद्धः। Page #107 -------------------------------------------------------------------------- ________________ आराधनासारः देहपरिमुक्तः देहा औदारिकवैक्रियिकाहारकतैजसकार्मणानि शरीराणि तैः परिमुक्तः रहितः देहपरिमुक्तः आत्मोत्थसुखांबुधिगताः सिद्धाः सदैव तृप्ता लोकाग्रनिवासिनस्तिष्ठति । यदुक्तम् "येषां कर्मनिदानजन्मविविधक्षुत्तृण्मुखा व्याधय स्तेषामन्नजलादिकौषधगणस्तच्छांतये युज्यते । सिद्धानां तु न कर्म तत्कृतरुजो नातः किमन्नादिभि नित्यात्मोत्थसुखामृतांबुधिगतास्तृप्तास्त एव ध्रुवम् " ॥ ८९ ॥ इति सिद्धगतिसाधिकामाराधनां विज्ञाय क्षपकस्त्रिगुप्तिगुप्तो भूत्वा आराधयतु सावधानतयेति निदर्शयति; इय एवं णाऊणं आराहउ पवयणस्स जं सारं । आराहणचउखधं खवओ संसारमोक्खहूँ ॥ ९० ॥ इति एवं ज्ञात्वा आराधयतु प्रवचनस्य यत्सारं । . आराधनाचतुःस्कन्धं क्षपकः संसारमोक्षार्थम् ॥ ९० ॥ आराहउ आराधयतु । कोसौ । खवओ क्षपकः । किमाराधयतु । आराहणचउखधं चतुर्णा स्कंधानां समाहारश्चतुःस्कंधं दर्शनचारित्रतपोलक्षणं आराधनायाश्चतुःस्कंधं आराधनाचतुःस्कंधं । किंकृत्वा आरानोतु। इय पवं जाऊणं इत्येवं पूर्वोक्तप्रकारेण आराधनाधीनांतःकरणः प्राणी आराघनाप्रवहणेन विविधतरदुःखभरवारिपूरपूर्ण दुरंतदुर्गतिवडवानलवातुलज्वालाजालकरालं विविधदुःसाध्यव्याधिमकराकीर्णमध्यं विकटक्रोधविटपिव्याप्तविपुलपुलिनं निष्ठुतराहंकारनक्रमकोच्छलनभीषणं मायामीनालिकुलाकुलं समुल्लसलोभशैवालसमन्वितं संसारसमुद्रमलब्धमध्यमुत्तीर्य मोक्षपुराविनश्वरसुखमाराधनाफलभूतमवामोतीति विज्ञाय। कथंभूतं यत् आराधनाचतुःस्कन्धपवयणस्स जं सारं प्रवचनस्य आगमस्य सिद्धांतस्य द्वादशांगभेदभिन्नस्य Page #108 -------------------------------------------------------------------------- ________________ टीकासहितः। श्रुतस्य यत् सारं रहस्यभूतं । किमर्थमाराधयतु । संसारमोक्खलु पंचप्रकारसंसारमोक्षार्थ भवविनाशार्थमिति ॥ ९० ॥ यैर्मोक्षणोर्थः स्वसात्कृतस्तत्प्रशंसामाह;धण्णा ते भयवंता अवसाणे सव्वसंगपरिचाए। काऊण उत्तमढे सुसाहियं णाणवंतेहिं ॥ ९१ ॥ धन्यास्ते भगवंतः अवसाने सर्वसंगपरित्यागं । कृत्वा उत्तमार्थ सुसाधितं ज्ञानवद्भिः ॥ ९१ ॥ __णाणवंतेहिं यैः ज्ञानवद्भिः ज्ञानं विद्यते येषां ते ज्ञानवंतः तैः ज्ञानवद्भिः विशुद्धज्ञानदर्शनस्वभावपरमात्मज्ञानसंपन्नैः परात्मज्ञानिनश्च संसारे त्रिचतुराः संति । यदुक्तं विद्यते कति नात्मबोधविमुखाः संदेहिनो देहिनः प्राप्यते कतिचित्कदाचन पुनर्जिज्ञासमानाः क्वचित् । आत्मज्ञाः परमात्ममोदसुखिनः प्रोन्मीलदंतर्दृशो विवाः स्युर्बहवो यदि त्रिचतुरास्ते पंचषा दुर्लभाः ॥ इति यैर्ज्ञानवाद्भः। किं कृतं । सुसाहियं सुसाधितं स्वात्मसात्कृतं । किं तत् । उत्तमहं उत्तमार्थ मोक्षलक्षणपदार्थः । किंकृत्वा । काऊण कृत्वा । किं । सव्वसंगपरिचाए सर्वसंगपरित्यागं सर्वः स चासौ संगश्च सर्वसंगः बाह्याभ्यंतरपरिग्रहलक्षणस्तस्य परित्यागस्तं सर्वसंगपरित्यागं विधाय । कदा । अवसाणे अवसाने आयुःप्रांते अथवा अवसानमित्युपलक्षणं तेन बालकावस्थायां तरुणावस्थायां वृद्धावस्थायामपि सर्वसंगपरित्यागं विधाय उत्तमार्थः साधितः । सर्वसंगपरित्यागश्चानया रीत्या कृतः पुरातनराधुनिकैश्च कतिव्य इति तद्रीतिमाह । उक्तं च स्नेहं वैरं संघ परिग्रहं चापहाय शुद्धमनाः। स्वजनं परिजनमपि च क्षात्वा क्षमयेत् प्रियैर्वचनैः ॥ Page #109 -------------------------------------------------------------------------- ________________ १०४ आराधनासारः आलोच्य सर्वमेनः कृतकारितमनुमतं च निर्व्याजम् । आरोपयेन्महाव्रतमामरणस्थायि निःशेषम् ॥ आलोचनाविधिश्चायं कृतकारितानुमननैस्त्रिकालविषयं मनोवचनकायैः । परिहृत्य कर्म सर्वं परमं नैःकर्ममवलंवे॥ मोहायदहमकार्ष समस्तमपि कर्म तत्प्रतिक्रम्य । आत्मनि चैतन्यात्मनि निःकर्मणि नित्यमात्मना वर्ते ।। मोहविलासविभितमिदमुदयत्कर्म सकलमालोच्य । आत्मनि चैतन्यात्मनि निःकर्मणि नित्यमात्मना वर्ते ॥ प्रत्याख्याय भविष्यत्कर्म समस्तं निरस्तसंमोहः । आत्मनि चैतन्यात्मनि निःकर्मणि नित्यमात्मना वर्ते ॥ समस्तमित्येवमपास्य कर्म त्रैकालिकं शुद्धनयावलंबी । विलीनमोहो रहितं विकारैश्चिन्मात्रमात्मानमाथवलंबे ॥ विगलंतु कर्मविषतरुफलानि मम भुक्तिमतरेणैव । संचेतयेहमचलं चैतन्यात्मानमात्मानम् ।। इति । तदनु शोकं भयमवसादं क्लेशं कालुष्यमरतिमपि हित्वा । सत्त्वोत्साहमुदीर्य च मनः प्रसायं श्रुतैरमृतैः ॥ आहारं परिहाप्य क्रमशः स्निग्धं विवर्धयेत्पानम् । स्निग्धं च हापयित्वा खरपानं पूरयेत्क्रमशः ॥ खरपानहापनामपि कृत्वा कृत्वोपवासमपि शक्त्या । पंचनमस्कारमनास्तनुं त्यजेत्सर्वयत्नेन ॥ एवमुत्तमा गतिः साधिता ते कीदृशा इत्याह । धण्णा ते भयवंता धन्यास्ते भगवंतः ते पुरुषाः क्षपका धन्याः कृतपुण्याः तथा भगवंतः जगत्पूज्या इत्यर्थः ॥ ९१॥ Page #110 -------------------------------------------------------------------------- ________________ टीकासाहितः। १०५ तोत्रवेदनाभिभूतः क्षपकः खल्वनयोक्त्या प्रोत्साह्यत इति शिक्षा प्रयच्छन्नाह;धण्णोसि तुमं सुज्जस लहिऊणं माणसं भवं सारं । कयसंजमेण लद्धं सण्णासे उत्तम मरणं ॥ ९२॥ धन्योसि त्वं सद्यशः लब्धा मानुषं भवं सारम् । कृतसंयमेन लब्धं संन्यासे उत्तम मरणं ॥ ९२ ॥ भो सुज्जस शोभनं राकाशशांकवलं यशो यस्य स सद्यशाः तस्य संबोधनं क्रियते भो सद्यशः भो क्षपक भो पुरुषोत्तम त्वं धन्योसि कृतपु. ण्योसि कृतकृत्योसि येन त्वया संन्यासे संन्यसनं संन्यासस्तस्मिन् संन्यासे सैन्यासमाश्रित्य उत्तम मरणं उत्तमानां पंचविधमरणानामन्यतमं यत्त्वया लब्धं प्राप्तं । किं कृत्वा पूर्व । लहिऊणं माणुसं भवं सारं मानुष्यं भवं तुमवांतरं सारं समस्तभवांतरेषु सारभूतं लब्ध्वा संप्राप्य यो नृत्वं दुःप्राप्यं प्राप्य गृहिधर्ममाचरति स धन्यः । यः पुनः स्वात्माराधनपूर्वकं तपस्तपति तस्य पुनः किं वाच्यम् । यदुक्तं लब्ध्वा जन्म कुले शुचौ वरवपुर्बुद्धा श्रुतं पुण्यतो वैराग्यं च करोति यः शुचितपो लोके स एकः कृती । तेनैवोज्झितगौरवेण यदि वा ध्यानं समापीयते प्रासादे कलशस्तदा मणिमहेमैस्तदारोपितः ॥ कथंभूतेन त्वया । कयसंजमेण संयमनं संयमः कृतः संयम इंद्रियमनःसंयमनं येन स कृतसंयमनस्तेन कृतसंयमनेन संयमं प्रतिपाल्य यत्त्वमेतादृशं संन्यासोत्तममरणमाप्तवानसि तत्त्वं धन्यतमोसि ॥ ९२ ॥ मनःकायोद्भवं दुःख क्षपकस्यावश्यं जायत इति विवृणोति;किसिए तणुसंघाए चिट्ठारहियस्स विगयधामस्स । खवयस्स हवइ दुक्खं तक्काले कायमणहूयं ॥ ९३ ॥ Page #111 -------------------------------------------------------------------------- ________________ आराधनासारः कृषिते तनुसंघाते चेष्टारहितस्य विगतधान्नः । क्षपकस्य भवति दुःखं तत्काले कायमनउद्भूतम् ॥ ९३ ॥ हवइ भवति । किं तत् । दुक्खं दुःखं । कस्य भवति । खवयस्स क्षपकस्य स्वीकृतसंन्यासस्य । कीदृशं दुःखं कायमणहूयं कायः शरीर मनश्चित्तं कायश्च मनश्च कायमनसी ताभ्यां सकाशादुद्भूतं तत् कायमन उद्भूतं । तत्र कायजं दुःखं शिरःकर्णनेत्रतीव्रतरवेदनाज्वरावेशदाहायनेकप्रकारं, मनःसंभवं दुःखं च एतद्गृहमिमे दारा एते बांधवा इयं कमला मम पुनः क्वेत्यादि संकल्पविकल्परूपं । कदा भवति दुःखं । किसिए तणुसंघाए कृषिते तनुसंघाते तनोः शरीरस्य संघातः परमाणुसंचयरूपो हस्तपादायंगुल्यवयवरूपो वा तनुसंघातस्तस्मिन् तनुसंघाते लंघनवशादथवा तीव्रवेदनावशात् कृशतां क्षीणतां गते सति । कीदृशस्य क्षपकस्य । विगयधामस्स विगतबलस्य अत एव चिहारहियस्स चेष्टारहितस्य चलनबलनादिका चेष्टा तया रहितस्य चेष्टाविवर्जितस्य । ततः क्षपकेण संविशुद्धपरमात्मभावनाबलेन वाग्मनःकायादिकं कर्म च स्वात्मस्वरूपात् पृथक् दृष्टव्यं तेन च दुःखोपशांतिर्भवति । यदुक्तम् - “ कर्मभिन्नमनिशं स्वतोखिलं पश्यतो विशदबोधचक्षुषा। तत्कृतेपि परमार्थवेदिनो योगिनो न सुखदुःखकल्पना " ॥ ९३ ॥ कठिनतरसंस्तरशयनदोषेण यदि दुःखमुपजायते तदा समभावेन सहस्वेति शिक्षा ददन्नाह; जइ उप्पज्जइ दुक्खं कक्कससंथारगहणदोसेण । खीणसरीरस्स तुमं सहतं समभावसंजुत्तो ॥ ९४ ॥ यद्युत्पद्यते दुःखं कर्कशसंस्तरग्रहणदोषेण । क्षीणशरीरस्य त्वं सहस्व समभावसंयुक्तः ॥ ९४ ॥ Page #112 -------------------------------------------------------------------------- ________________ टीकासहितः। १०७ जह उपज्जइ यदि उत्पद्यते संजायते । किं तत् । दुःखं । कस्य । तव । केन । कर्कशसंस्तरग्रहणदोषेण कर्कशसंस्तरस्य ग्रहणं स्वीकरणं कर्कशसंस्तरग्रहणं तदेव दोषस्तेन वा दोषः कर्कशसंस्तरग्रहणदोषः तेन कर्कशसंस्तरग्रहणदोषेण । कथंभूतस्य तव । क्षुत्तृड्जनिततीव्रतरपीडाबशात् क्षीणं सामर्थ्यविरहितशरीरं यस्य स क्षीणशरीरस्तस्य क्षीणशरीरस्य दुर्बलीभूतकायस्य । तुमं सहतं त्वं तदुःखं सहस्व । कीदृशस्त्वं । समभावसंजुत्तो समभावसंयुक्तः समः अहौ हारे मित्रे शत्रौ तृणे स्त्रैणे समानो यो भावः परिणामः समभावस्तेन युक्तः समभावसंयुक्तः यतो मणौ लोष्ठे. समभावपरिणतो सूरिरात्मानमेव पश्यति । यदुक्तं “ एकस्यापि ममत्वमात्मवपुषः स्यात्संसृतेः कारणं का बाह्यार्थकथा प्रथीयसि तपस्याराध्यमानेपि च। तद्वास्यां हरिचंदनेऽपि च समः संश्लिष्टतोऽप्यंगतो भिन्नं स्वं स्वयमेकमात्मान धृतं पश्यत्यजस्रं मुनिः ॥ तृणं वा रत्नं वा रिपुरथ परं मित्रमथवा सुखं वा दुःखं वा पितवनमहो सौधमथवा । स्तुतिर्वा निंदा वा मरणमथवा जीवितमथ स्फुटं निग्रंथानां द्वयमपि समं शांतमनसाम् " ॥ ९४ ॥ यावत्परीषहान् सहमानः संस्तरे वससि तावदात्मज्ञानपरिणतस्त्वं कर्माणि क्षपयसीति क्षपकमुत्सायन्नाह; तं सुगहियसण्णासे जावकालं तु वससि संथारे । तण्हाइदुक्खतत्तो णियकम्मं ताव णिज्जरसि ॥९५॥ त्वं सगृहीतसंन्यासो यावत्कालं तु वससि संस्तरे । तृष्णादिदुःखतप्तो निजकर्म तावन्निर्जरयसि ॥ ९५ ॥ भो क्षपक जावक्कालं तु वससि तं त्वं यावत्कालं यावंतं कालं वससि निवासं करोषि । क । संथारे संस्तरे। तावत् किं करोषीत्याह । ताम Page #113 -------------------------------------------------------------------------- ________________ आराधनासारः णिज्जरसि तावन्निर्जरयसि । किं तत् । णियकम्मं निजकर्म बहुभवांतरोपार्जितकर्मसंतानं अवश्यमयमात्मा परात्मध्यानज्वलनज्वालाजालानदग्धमनाः क्षणादेव विविधानां कर्मणां निर्जरामारचयति न पुनरात्मज्ञानविहीनः । यदुक्तम् अज्ञो यद्भवकोटिभिः क्षपयति स्वं कर्म तस्माद्बहु स्वीकुर्वन् कृतसंवरः स्थिरमना ज्ञानी तु तत्तत्क्षणात् । तीक्ष्णक्लेशहयाश्रितोपि हि पदं नेष्टं तपःस्यंदने नीयंतं नयति प्रभुः स्फुटतरज्ञानकसूतोज्झितः ॥ कीदृशः सन् कर्मनिर्जरां करोषि त्वमित्याह । तण्हाइदुक्खतत्तो तृष्णाक्षुदंशमशकादिभिर्यदुःखं दुस्सहतरयातना तृष्णादिदुःखं तेन तप्तः कदर्थितः तृष्णादिदुःखतप्तः। किमिति सर्वपरीषहान् सहमानः क्षपकः संस्तरमास्थितः । यस्मात् सुगृहीतसंन्यासः सु अतिशयेन गृहीतः संन्यासोऽन्नपानादिनिवृत्तिलक्षणो येन स सुगृहीतसंन्यासः गृहीतसंन्यासः स्वात्मभावनापरः तृष्णादिदुःखमनुभवन्नपि कर्मनिर्जरालक्षणं फलमवामोतीत्यसंदेहमिति ॥ ९५ ॥ यथा यथा तृष्णादिबाधा जायते क्षपकस्य तथा तो समभावनया सहमानस्य कर्मनिर्जरेव फलं भवतीत्याचष्टे, जहं जहं पीडा जायइ भुक्खाइपरीसहेहिं देहस्स । तहं तहं गलति णूणं चिरभवबद्धाइं कम्माई ॥१६॥ यथा यथा पीडा जायते क्षुदादिपरीषहर्देहस्य । तथा तथा गलंति नूनं चिरभवत्रद्धानि कर्माणि ॥ ९ ॥ जहं जहं पीडा जायइ यथा यथा येन येन प्रकारेण पीडा तीवतरवेदना जायते । कस्य । देहस्य जीवाविष्टस्य शरीरस्य । कैः कृत्वा व्यथा जायते । भुक्खाइपरीसहेहिं क्षुत् आदिर्येषां शीतोष्णदंशमशकादीनां ते Page #114 -------------------------------------------------------------------------- ________________ टीकासाहितः। क्षुदादयः क्षुदादयश्च ते परीषहास्तैः क्षुदादिपरीषहैः तथा तथा कर्माणि विलीयते इत्याह । तहं तहं गलंर्ति पूणं तथा तथा गलति तेन तेन प्रकारेण विलयं प्रपद्यते नूनं । कानि । कम्माइं कर्माणि । कथंभूतानि कर्माणि। चिरभवबद्धानि अनेकभवांतरोपार्जितानि । यद्यपि सिद्धांते तपसा निर्जरेत्युक्तं तथापि भेदविज्ञानमंतरेण न कर्मनिर्जरा । ततः क्षपकेन तदेवाश्रयणीयं । यदुक्तं "कर्मशुष्कतृणराशिरुन्नतोप्युद्गते शुचिसमाधिमारुतात् । भेदबोधदहने हृदि स्थिते योगिनो झटिति भस्मसाद्भवेत् ॥ ९६॥ अनिसंसर्गाजलमिवाहं दुःखैस्तप्तोस्मीति क्षपकश्चितयेदित्याह;तत्तोहं तणुजोए दुक्खेहिं अणोवमेहिं तिब्वेहि । णरसुरणारयतिरिए जहा जलं अग्गिजोएण ॥९॥ तप्तोहं तनुयोगे दुःखैरनुपमैस्तीत्रैः । नरसुरनारकतिरश्चि यथा जलमग्नियोगेन ॥ ९७ ॥ तत्तोहं तप्तोऽहं यद्यप्यहं शुद्धनिश्चयनयापेक्षया अनंतज्ञानामृतवापीमध्यमध्यासीनः सदैवानंतसुखस्वभावः तथापि व्यवहारेण अहं तप्तोस्मि कदथितोस्मि । कैः । दुक्खेहिं दु:खैः । कीदृशैः । अनुपमैः उपमारहितैः तथा तीरैः दुस्सहतरैः । कदा । तनुयोगं वपुःसंयोगं शरीरसंयोगमासाद्य दुःखपरंपरां परिगतोस्मीत्यर्थः । कस्मिन् । णरसुरणारयतिरिए नरश्च सुरश्च नारकश्च तिर्यङ् च नरसुरनारकतिर्यङ् 'वंद्वैकत्वमत्र' तस्मिन् नरसुरनारकतिर्यश्चि । तत्र मनुष्यगतौ इष्टवियोगानिष्टसंयोगविपदागमाधिव्याधिसंभवैर्दुःखैरुपद्रुतः । देवगतौ इंद्रादिविभूतिदर्शनसंभूतैर्मानसैर्दुःखैः । नरकगतौ-- असुरोदीरियदुक्खं सारीरं माणसं तहा विविहं । खित्तुभवं च तिव्वं अण्णोण्णकयं च पंचविहं ॥ Page #115 -------------------------------------------------------------------------- ________________ ११० आराधनासार: इत्युक्तलक्षणैः पंचप्रकारदुखैः तिर्यग्गतौ अतिभारारोपणनासाछेदनमेदनविदारणक्षुत्तृष्णाजनितैरनेकविधैर्दुःखैस्तप्तो अयमात्मा । अमुमेवार्थ दृष्टांतेन व्यक्तीकरोति । जहा जलं अग्गिजोएण यथा जलं पानीयं शीतस्वभावमपि ज्वलनसंयोगेन तप्ती भवति तथाहमपीति विमृश्य । तथा जानासि त्वं मम भवभवे यच्च यादृक् च दु:ख जातं यस्य स्मरणमपि मे शस्त्रवन्निपिनष्टि । त्वं सर्वेशः सकृप इति च त्वामुपेतोऽस्मि भक्त्या यत्कर्तव्यं तदिह विषये देव एव प्रमाणम् ॥ इति स्तुत्वा च देवं शरणं या या इति यावत् ॥ ९७ ॥ इति चिदानंदभावनापरिणतः स्वस्वभावास्तित्वं ध्रुवाणो ज्ञानामृते तत्सौख्यवान् भवतीत्याह;ण गणेइ दुक्खसलं इयभावणभाविओ फुडं खवओ। पडिवज्जइ ससहावं हवइ सुही णाणसुक्खण ॥ ९८॥ न गणयति दुःखशल्यं इतिभावनाभावितः स्फुटं क्षपकः । प्रतिपद्यते स्वस्वभावं भवति सुखी ज्ञानसौख्येन ॥ ९८ ॥ ण गणेइ न गणयति । कोऽसौ । खवओ क्षपकः । किं न गणयति । दुःखसल्लं दुःखशल्यं । कथं । फुडं स्फुटं प्रकटं । कीदृशः क्षपकः । इयभावणभाविओ इतिभावनाभावितः यदहमनादिकाले चतुर्गतिक्लेशगर्तवर्तस्थपुटे पंचप्रकारे संसारे भ्रामं भ्रामं यानि दुस्सहानि दुःखान्यनुभूतवानस्मि तेभ्योऽमूनि क्षुत्तट्प्रभवानि न किंचिदिव प्रतिभांत्येवंरूपा भावना इतिभावना तया भावितः पुनः पुनः संस्कृतः इतिभावनाभावितः, अथवा ' मम जरामरणादिराहतस्य विशुद्धस्य निश्चयेन दुःखं नास्तीत्येवंरूपा भावना तया भावितः इतिभावनाभावितः क्षपकः । किं करोतीत्याह । पडिवज्जइ Page #116 -------------------------------------------------------------------------- ________________ टीकासहितः। मात्मान स्फूजेति ॥ प्रतिपद्यते स्वीकरोति । कं । ससहावं स्वस्वभावं आत्मस्वभावम् । यदुक्तम् इत्यालोच्य विवेच्य तत्किल परद्रव्यं समग्रं बलात् .. तन्मूलां बहुभावसंततिमिमामुद्धर्तुकामः समम् । आत्मानं समुपैति निर्भरवहन् पूर्णौकसं विद्युतं . येनोन्मूलितबंध एव भगवानात्मात्मनि स्फूर्जति॥ आत्मस्वभावमास्थितः क्षपकः कीदृशो भवतीत्याह । हवइ सुही णाणसुक्खण भवति । कीदृशो भवति । सुखी अनिर्वचनीयसुखसंपन्नः । केन । कृत्वा । ज्ञानसौख्येन भेदज्ञानजनितविविधतराह्लादेन ॥ ९८ ॥... दुर्धरदुःखानि तृणाय मन्यमानः स्वात्मानमेवाराधयेति शिक्षा ददनाह;भित्तण रायदोसे छित्तूण य विसयसंभवे सुक्खे । अगणंतो तणुदुक्खं झायस्स णिजप्पयं खवया ॥९९॥ भित्वा रागद्वेषौ छित्वा च विषयसंभवानि सुखानि । अगणयंस्तनुदुःखं ध्यायस्व निजात्मानं क्षपक ॥ ९९ ॥ खवया भो क्षपक झायस्स ध्यायस्व आराधय। कं । णिजप्पयं निजात्मानं चैतन्यस्वभावं यन्नाम्नैवायमात्मा सुखी भवति । यदुक्तम्-- नाममात्रकथया परात्मनो भूरिजन्मकृतपापसंक्षयः । बोधवृत्तरुचयस्तु तद्गताः कुर्वते हि जगतां पतिं नरम् ॥ किं कृत्वा । भित्तूण रायदोसे भित्वा रागद्वेषौ रागद्वेषविरहित एव स्वात्मानमनुभवति । यतः उक्तम् रायद्दोसादिहया डहुलिज्जइ णेव जस्स मणसलिलं । सो णियतचं पिच्छइ णउं पिच्छइ तस्स विवरीओ ॥ पुनः किं विधाय । छित्तण य विसयसंभवे सुखे विषयेभ्यः संभव उत्पत्तिर्येषां तानि विषयसंभवसुखानि छित्वा मूलतः समुन्मूल्य । यदुक्तम् Page #117 -------------------------------------------------------------------------- ________________ ११२ थक्के मणसंकप्पे रुद्धे अक्खाण विसयवावारे । पयडइ बंभसरूवं अप्पाझाणेण जोईणं ॥ पुनः किं कुर्वन् क्षपकः । अगणंतो तणुदुक्खं तनौ शरीरे यानि दुःखानि ज्वरावेशादीनि तानि अगणयन् । अनया भावनया निराकुर्वन् । तां भावनामाह A आराधनासारः न मे मृत्युः कुतो भीतिर्न मे व्याधिः कुतो व्यथा । नाहं बालो न वृद्धोऽहं युवा चैतानि पुद्गले ॥ ततो रागादीन् विभावान् मुक्त्वा अनंतज्ञानस्वभावे स्वात्मनि निरतः क्षपकः सुखी भवतीति भावार्थ: ॥ ९९ ॥ यावत्तपोऽग्निना न तप्तं चेतनं कार्तस्वरं तावत्कर्मकालिम्ना न मुच्यत इत्याह; — जाव ण तवग्गितत्तं सदेहमूसाईं णाणपवणेण । तावण चत्तकलंकं जीवसुवण्णं खु णिव्वडइ ॥ १०० ॥ यावन्न तपोनितप्तं स्वदेहमूषायां ज्ञानपवनेन । तावन्न त्यक्तकलंकं जीवसुवर्णे हि निर्व्यक्ती भवति ॥ १०० ॥ ताव ण णिव्वडर तावत्कालं तावतं कालं न निर्व्यक्तीभवति न कर्मकलंकात् पृथग्भूतं भवति इत्यर्थः । किं तत् । जीवसुवण्णं दैदीप्यमानगुणत्वात् जीवसुवर्ण चिदानंदकार्तस्वरं । कथं । खु स्फुटं जाम ण तवग्गितत्तं यावत्कालं न तपोनितप्तं बाह्याभ्यंतररूपं तप एवं दुस्सहत्वादनिस्तपोनिस्तेन तप्तं मुहुर्मुहुरावर्तितं । कस्यामधिकरणभूतायां क्षिप्तं जीवसुवर्णे । सदेहमूसाए स्वदेहमूषायां स्वस्यात्मनो देहः स्वदेहः स्वदेह एव मूषा स्वदेहमूषा तस्यां स्वदेहमूषायां । केन करणभूतेन । णाणपवणेण ज्ञानपवनेन ज्ञानं भेदज्ञानं तदेव पवनो वायुः तेन ज्ञानपवनेन करणभूतेन । कथंभूतं जीवसुवर्ण चत्तकलंकं त्यक्तं कलंकं कर्मरूपं येन तत् त्यक्तकलंकं ज्ञानपवनेन भेदज्ञानपवनेन वर्धमानतेजसा तपोजातवेदसा तप्तं Page #118 -------------------------------------------------------------------------- ________________ टीकासहितः। ११३ देहमूषाया स्थितं जीवसुवर्ण कर्मकालिमानमपहाय विशुद्धो भवतीत्यर्थः । यदुक्तम् " तपोभिस्ताडिता एव जीवाः शिवसुखस्पृशः । मुशलैः खलु सिद्ध्यंति तंडुलास्ताड़िता भृशम् ॥ तपः सर्वाक्षसारंगवशीकरणवागुरा । कषायतापमृद्धीका कर्मजीर्णहरीतकी " ॥ १०० ॥ दुःखं देहस्य अहं च देहात्मको न भवामीति भावनया दुःख सहस्वेति निर्दिशति;-- णाहं देहो ण मणो ण तेण मे अत्थि इत्थ दुक्खाई। समभावणाइ जुत्तो विसहसु दुक्खं अहो खवय ॥१०॥ नाहं देहो न मनो न तेन मे अस्ति अत्र दुःखानि । समभावनया युक्तः विसहस्व दुःखमहो क्षपक ॥ १०१ ॥ विसहसु विशेषेण सहस्व । किं । दुक्खं दुःख आधिव्याधिसमुद्भवं । किं विशिष्टः सन् सहस्व । समभावणाइ जुत्तो युक्तः संयुक्तः समभावनया । तामेव समभावनामाह । णाहं देहो अहं शुद्धद्रव्यार्थिकनयापेक्षया विशुद्धचैतन्यात्मकः देहः काय औदारिकादिरूपो न भवामि । तथाहं शुद्धनिश्चयनयेन निर्विकल्पस्वभावरूपो मनः संकल्परूपं चित्तं न भवामि यतो मनसः कायस्याप्यगोचरः । यदुक्तम्न विकल्परहितं चिदात्मकं वस्तु जातु मनसोऽपि गोचरः । कर्मजाश्रितविकल्परूपिणः का कथा तु वचसो जडात्मनः॥ तथाऽहमात्मा ईदृग्विधः-.. Page #119 -------------------------------------------------------------------------- ________________ ११४ आराधनासार' स्वसंवेदन सुव्यक्तस्तनुमात्रो निरत्ययः । अत्यंत सौख्यवानात्मा लोकालोकविलोकनः ॥ तेनैव प्रकारेण इत्थं एतस्मिन् काये व्यवहारनयापेक्षया वसतोपि मम निर्मलनिष्कलंकस्वभावस्य दुःखानि जन्मजरामरणरोगरूपाणि न संति इति समभावनापरिणतः क्षपको व्याधिप्रतीकारचिंतनरूपेण आर्तध्यानेन न बाध्यत इति भावार्थः ॥ १०१ ॥ शरीरे रागाद्युद्भवो न पुनर्मम अनंत सुख संपत्स्वभावस्य इति भावनापरः क्षपकोस्तीत्यादिशति;णय अत्थि कोवि वाहीण य मरणं अत्थि मे विसुद्धस्स । वाही मरणं काए तम्हा दुक्खं ण मे अत्थि ।। १०२ ॥ न चास्ति कापि व्याधिर्न च मरणं अस्ति मे विशुद्धस्य । व्याधिर्मरणं काये तस्मात् दुःखं न मे अस्ति ॥ १०२ ॥ णय अस्थि कवि वाही निरंजनशुद्धात्मसम्यक् श्रद्धानज्ञानानुष्ठानरूपनिश्चयरत्नत्रयात्मकस्य मम कापि व्याधिर्नास्ति तथा मम नित्यानंदैकस्वभावस्य ण य मरणं प्राणत्यागरूपं मरणं मृत्युरपि नास्ति । कथंभूतस्य मम । विशुद्धस्य रागद्वेषमोहाद्युपाधिरहितस्य अथवा वातपित्तश्लेष्मादिदोषरहितस्य । यदि व्याधिमरणमपि परमात्मनि नास्ति तर्हि क्वास्ति । वाही मरणं व्याधिर्मरणं च काये तुम्हा दुःखं ण मे अत्थि तस्मात्कारणात् दुःखादेरभावात् मम अविनश्वरपरमानंद मेदुरात्मनः दुःखं नास्ति । तदुक्तं " रुग्जरादिविकृतिर्न मेंजसा सा तनोरहमितः सदा पृथक् । मेलनेपि सति खे विकारिता जायते न जलदैर्विकारिभिः ” ॥ १०२॥ Page #120 -------------------------------------------------------------------------- ________________ टीकासहितः। ११५ यदि व्याध्यादिकं कायस्य तर्हि आत्मा कोदृश इत्याह;सुक्खमओ अहमेको सुद्धप्पा णाणदंसणसमग्गो। अण्णे जे परभावा ते सव्वे कम्मणा जणिया ॥ १०३॥ सुखमयोऽहमेकः शुद्धात्मा ज्ञानदर्शनसमग्रः । अन्ये ये परभावास्ते सर्वे कर्मणा जनिताः ॥ १०३ ॥ सुक्खमओ इत्यादि । अनवरतस्यंदिसुंदरानंदमुद्रितामंदसुखेन निर्वृत्तः सुखमयः । अहं शरीराधिष्ठितोऽपि आत्मा शुद्धनयापेक्षया परमात्मा । यदुक्तम् यः परात्मा स एवाहं योहं स परमस्ततः । अहमेव मयोपास्यो नान्यः कश्चिदिति स्थितिः ॥. तथा एक्को असहायः रागद्वेषादिद्वितीयरहितः सुद्धप्पा शुद्धात्मा शुद्धश्चासौ आत्मा च शुद्धात्मा गाणदंसणसमग्गो ज्ञानं च दर्शनं च ज्ञानदर्शने ताभ्यां समग्रः दर्शनज्ञानसमयः दृशिज्ञप्तिस्वभावः नियतिवृत्ति. रूपः । एवंभूतात् स्वभावात् येन्ये ते परभावाः इत्याह अण्णे जे परभावा टंकोत्कीर्णचित्स्वभावादात्मनः सकाशात् येऽन्ये रागद्वेषमोहादयः आधिव्याधिमरणादयः ते सव्वे ते सर्वे परभावाः पुद्गलभावाः । किं विशिष्टाः । कम्मणो जणिया कर्मणः सकाशादुत्पन्नाः । अथवा । कर्मणा करणभूतेन जनिता उत्पादिताः । ततोऽहमात्मा केवलं सुखस्वभावसंपन्नो विशुद्धज्ञानदर्शनस्वभावोस्मीति ध्यानयोगमारूढस्य क्षपकस्य कर्मनिर्जरैव । यदुक्तं परीषहाद्यविज्ञानादास्रवस्य निरोधिनी । जायते ध्यानयोगेन कर्मणामाशु निर्जरा ॥ १०३॥ Page #121 -------------------------------------------------------------------------- ________________ ११६ आराधनासारः पुनरहमात्मा ईग्विध इति भावनापरः क्षपको भवतादित्यादिशति;णिच्चो सुक्खसहावो जरमरणविवजिओ सयारूवी । णाणी जम्मणरहिओ इक्कोहं केवलो सुद्धो ॥१०४॥ नित्यः सुखस्वभावः जरामरणविवर्जितः सदारूपी ।। ज्ञानी जन्मरहितः एकोहं केवलः शुद्धः ॥ १०४ ॥ अयमात्मा यद्यपि व्यवहारेण अनित्यस्तथापि शुद्धनिश्चयनयापेक्षया नित्यः आविनश्वरः । यद्यपि व्यवहारेण अनाद्यशुभकर्मवशात् कदाचिद्दुःखी शुभकर्मवशात्कदाचित्सुखी तथापि शुद्धद्रव्यार्थिकनयापेक्षया सुखसद्भावः परमानंदमेदुरानंतसुखस्वरूपः, यद्यपि व्यवहारण पंचप्रकारशरीराश्रितत्वात् . जरामरणाक्रांतः तथापि निश्चयनयेन जरामरणविवर्जितः । यद्यपि अनुपचरितासद्भूतव्यवहारेण स्पर्शरसगंधवर्णवत्पुद्गलाश्रितत्वात् मूर्तस्वरूपः गौरकृष्णादिरूपोपेतः तथापि शुद्धनयापेक्षया अरूपी रूपवर्जितः । यद्यपि व्यवहारण मतिश्रुतज्ञानाद्युपेतत्वात् ज्ञानी तथापि निश्चयनयापेक्षया केवलज्ञानस्वभावत्वात् ज्ञानी । यद्यपि व्यवहारेण चतुरशीतिलक्षयोनिषु गृहीतजन्मत्वाज्जन्मी तथापि शुद्धनिश्चयनयादजन्मा । यद्यपि व्यवहारेण सुरनरादिभेदादनकस्तथापि निश्चयेन टंकोत्कीर्णचित्स्वभावत्वादेकः । यद्यपि व्यवहारेण ज्ञानावरणादिद्रव्यकर्मसंयोगादकेवलः तथापि द्रव्यार्थिकनयापेक्षया केवलः । यद्यपि व्यवहारेण रागाद्युपाधिसंयोगादशुद्धः तथापि शुद्धद्रव्यार्थिकनयापेक्षया शुद्धः ॥ यदुक्तम् नो शून्यो न जडो न भूतजनितो नो कर्तृभावं गतो नैको न क्षणिको न विश्वविततो नित्यो न चैकांततः । आत्मा कायमितिश्चिदेकनिलयः कर्ता च भोक्ता स्वयं संयुक्तः स्थिरताविनाशजननैः प्रत्येकमेकः क्षणे ॥ १०४॥ Page #122 -------------------------------------------------------------------------- ________________ टीकासहितः। ११७ इति भावनापरिणतस्त्वमात्मानमेव तनोः सकाशानिस्सारयति शिक्षयति;इयभावणाई जुत्तो अवगणिय देहदुक्खसंघायं । जीवो देहाउ तुमं कडसु खग्गुव्व कोसाओ॥१०५॥ इति भावनया युक्तः अवगणय्य देहदुःखसंघातम् । जीवं देहात्त्वं निष्कासय खड्गमिव कोशात् ॥ १०५ ॥ हे क्षपक तुमं त्वं कड्डसु निस्सारय । कं । जीवो जीवं । अत्र कर्मणि प्रथमा न युक्तेत्यार्षत्वाददोषः । कीदृशस्त्वं । इतिभावनायुक्तः, अहं देहात्मको व्याध्याधिनिष्पीतसारो न भवामि किंतु परमानंदसांद्रः शुद्धाश्चदेवास्मि इत्येवंरूपभावनया संयुक्तः स्वात्मानं शरीरान्निष्काशय । किं कृत्वा पूर्व । अवगणिय देहदुक्खसंघायं अवगण्य । कं । देहदुःखसंघातं देहे शरीरे यानि ज्वरावेशातिसारोद्भवानि दुःखानि तेषां संघातः समूहः देहदुःखसंघातः तं देहदुःखसंघातं । कमिव विग्रहाच्चेतनं पृथक् कुरु । खग्गुब्व कोसाओ खड्गमिव कोशात् असिमिव कोशात् खगपिधानकात् प्रत्याकारात् । यदुक्तम् शरीरतः कर्तुमनंतशक्तिं विभिन्नमात्मानमपास्तदोषम् । जिनेंद्र कोशादिव खड्गयष्टिं तव प्रसादेन ममास्तु शक्तिः ॥ १०५॥ पुनः शिक्षा प्रयच्छन्नाह ;हणिऊण अदृरुद्दे अप्पा परमप्पयम्मि ठविऊण । भावियसहाउ जीवो कड्ढसु देहाउ मलमुत्तो॥१०६॥ हत्त्वार्तरौद्रौ आत्मानं परमात्मनि स्थापयित्वा । भावितस्वभाव जीवं निष्काशय मलमुक्तम् ॥१०६ ॥ Page #123 -------------------------------------------------------------------------- ________________ ११८ आराधनासारः भावितः स्वभावितः पुनः पुनर्भावनया स्वायत्तीकृतः सहजशुद्धस्वभावः आत्मभावो येन स भावितस्वभावः तस्य संबोधनं भो भावितस्वभाव क्षपक कड्डसु निस्सारय परलोकं प्रापय । कं । जीवं स्वात्मानं । कस्मात् देहाउ देहात् शरीरात् विग्रहात् । किंकृत्वा पूर्व । हणिऊण हत्वा मूलतः समुन्मूल्य । कौ । अदृरुद्दे आर्तश्च रौद्रश्च आर्तरौद्रौ । पुनः किं कृत्वा । अप्पा परमप्पयम्मि ठविऊण स्वात्मानं परमात्मनि स्थापयित्वा स्वात्मनः परमात्मनि स्थितिकरणं सोऽहमिति संस्कार एव । यदुक्तम् सोहमित्यात्तसंस्कारस्तस्मिन भावनया पुनः । तत्रैव दृढसंस्काराल्लमते ह्यात्मनः स्थितिम् ॥ यस्मान्निधूतार्तरौद्रदुर्ध्यानः परमात्मज्ञानसंपन्नः अत एव क्षपकः कलंकमुक्तः बाह्याभ्यंतरपरिग्रहादिमलोज्झितः एतादृग्गुणोपेतः क्षपको निश्चित सुगतिमात्मानं तच्चतुर्विधाराधनासामर्थ्यान्नयतीति भावार्थः ॥ १०६ ॥ काललब्धिवशादाराधनाधीना भव्यास्तस्मिन्नेव भवतिरे सिद्धर्थतीत्याह;कालाई लहिऊणं छित्तूण य अट्ठकम्मसंखलयं । केवलणाणपहाणा भविया सिझंतितम्मि भवे॥१०७॥ कालादि लब्ध्वा छित्वा च अष्टकर्मशृंखलाम् । केवलज्ञानप्रधाना भव्या सिध्यति तस्मिन् भवे ॥ १०७ ।। सिझंति सिध्यति । के । भविया भव्याः आसन्नभव्या । कदा । तस्मिन् मवे तस्मिन्नेव भवांतरे वर्तमानशरीराधिष्ठाना भव्यात्मनः सिद्धिं साधयंतीत्यर्थः । किं कृत्वा । कालाई लहिऊणं कालादिकं लब्ध्वाः द्रव्यक्षेत्रकालभवभावलक्षणां सामग्री प्राप्य ॥ यदुक्तम्--- योग्योपादानयोगेन दृषदः स्वर्णता मता। द्रव्यादिस्वादिसंपत्तावात्मनोप्यात्मता मता ॥ Page #124 -------------------------------------------------------------------------- ________________ टीकासहितः। पुन: किं कृत्वा । छित्तूण य अढकम्मसंखलयं छित्वा । कां । अष्टकर्मशृंखला अष्टकर्माण्येवातिदृढत्वात् शृंखला अष्टकर्मशृंखला तां कष्टकर्मशृंखलां संतः सिद्ध्यंति केवलणाणपहाणा केवलं च तज्ज्ञानं च केवलज्ञानं तेन प्रधानाः संयुक्ताः एवंभूताः संतः केचित्तस्मिन्नेव भवांतरे निश्चयाराधनामहिमकमलालिंगिता मक्तिकांतासुखं निर्विशति ॥ १०७ ॥ आराधनाराधका उद्धृत्यपुण्यप्रकृतयः सर्वार्थसिद्धिगामिनो भवंतीत्याह;आराहिऊण केई चउविहाराहणाई जं सारं । उव्वरियसेसपुण्णा सव्वट्ठणिवासिणो हुंति ॥१०८॥ आराध्य केचित् चतुर्विधाराधनायां यं सारं । उवृत्तशेषपुण्याः सर्वार्थनिवासिनो भवंति ॥ १०८ ॥ हुति भवंति । केई केचित् अनुभृतपुण्यप्रकृतयः । कीदृशा भवंति । सव्वहणिवासिणो सर्वार्थसिद्धौ निवसंतीत्येवंशीलाः सर्वार्थसिद्धिनिवासिनः कालादिसामग्रीमपेक्ष्यमाणाः सर्वार्थसिद्धिमाश्रित्य तिष्ठतीत्यर्थः । सर्वार्थसिद्धिगमनकारणमाह । किं विशिष्टाः केचित् । उव्वरियसेसपुण्णा उद्वृत्ता अनच्छन्ना शेषाः अविशिष्टाः पुण्यापुण्यप्रकृतयो येषां येषु वा उवृत्तशेषपुण्याः । किं कृत्वा सर्वार्थसिद्धिनिवासिनो भवंति । आराहिऊण सम्यगाराध्य । किमाराध्य । चउविहाराहणाइं जं सारं चतुर्विधाराधनायां यं सारं चतुर्विधाराधनासु मध्ये यः सारः शुद्धबुद्धैकस्वभावः परमात्मा तं चतुर्विधाराधनायां सारं स्वस्वरूपलक्षणमाराध्य पंचलब्धिसामग्यभावात् सर्वार्थसिद्धिनिवासिनो भवंति केचिदित्यर्थः ॥ १०८ ॥ Page #125 -------------------------------------------------------------------------- ________________ १२० आराधनासारः ये जघन्या आराधकास्ते याराधनासामर्थ्यात् कियत्स्वपि भवेष्वतीतेषु मोक्षमासादयंतीति व्यनक्तिजेसिं हुंति जहण्णा चउविहाराहणा हु खवयाणं । सत्तट्ठभवे गंतुं तेवि य पावंति णिव्वाणं ॥१०९॥ येषां भवंति जघन्या चतुर्विधाराधना हि क्षपकानाम् । सप्ताष्टभवान् गत्वा तेपि च प्राप्नुवंति निर्वाणम् ।। १०९॥ पावंति प्रामुवंति लभंते । के । तेवि य तेपि च । किं प्रामुवंति । णिव्वाणं निर्वाण शाश्वतानंदस्थानं । किं कृत्वा प्राप्नुवंति । सत्तहभवे गंतुं सप्तभवान् अष्टसंख्याकान् वा भवान् भवांतराणि गत्वा अतिक्रम्य गत्वेति क्त्वाप्रत्ययांतः । सप्ताष्टभवांतरेष्वतीतेषु मोक्षमक्षयसुखमासादयंतीत्यर्थः । ते के इत्याह । जेसिं हुंति जहण्णा चउन्विहाराहणाहु हु स्फुटं येषां क्षपकानां चतुर्विधा आराधना जघन्या भवंति । तथाहि-ये खलु मनश्चांचल्यात्सहजशुद्धचिदानंदात्मनि स्वात्मनि स्थितिमल्पतरामासादयंति व्यवहारपरमार्थरूपेषु दर्शनशानचारित्रतपःस्वपि मनोवचनकायसामर्थ्यरहितत्वात्सम्यगाराधनां नाचरंति तेपि जघन्या आराधकास्त्रिचतुरेषु भवांतरेषु अतीतेषु मोक्षमक्षयसुखमुपलभंते अतएवाराधनैव मोक्षं करोतीति भावार्थः ॥ १०९॥ व्यवहारनिश्चयाराधनोपयोगभाजः शुभकर्मोत्पादितस्वरैश्वर्यादिफलमनुभूय कमनीयमुक्तिकामुका भवंतीत्याह; उत्तमदेवमणुस्से सुक्खाइं अणोवमाई भुत्तूण । आराहणउवजुत्ता भविया सिझंति झाणट्ठा॥११०॥ उत्तमदेवमानुषेषु सुखान्यनुपमानि भुक्त्वा । आराधनोपयुक्ता भव्याः सिध्यति ध्यानस्थाः ॥ ११०॥ Page #126 -------------------------------------------------------------------------- ________________ टीकासहितः। १२१ सिझंति सिध्यति । के । भविया भव्याः। किं कृत्वा । भुत्तूण भुक्त्वा अनुभूय । कानि । सुखानि । कथंभूतानि सुखानि । अणोवमाइं अनुपमानि उपमारहितानि । यदुक्तम् हृषीकजननातंक दीर्घकालोपलालितम् । नाके नाकौकसां सौख्यं नाके नाकौकसामिव ॥ क्क । उत्तमदेवमणुस्से उत्तमदेवमानुषे उत्तमदेवत्वं इंद्रादिपदप्राप्तिलक्षणं उत्तममानुषत्वं चक्रवर्तिपदवी उत्तमदेवश्च उत्तममानुषश्च उत्तमदेवमानुषस्तस्मिन् उत्तमदेवमानुषे चक्रित्वत्रिदशेंद्रतादिपदवीमनुभूय सदनु सिद्धिसुखभाजो भवंतीत्यर्थः । के सिद्धयति । आराहणउवजुत्ता आराधनोपयुक्ताः तथा झाणत्था ध्यानस्था ध्याने तिष्ठंतीति ध्यानस्थाः धर्मशुक्लादिध्यानभाजः । तथाहि । बाह्याभ्यंतरपरिग्रहपरित्यागमाधाय गृहीतसंन्यासः निर्मलतरसमयसारसरणिपरिणतांतःकरणः निश्चयव्यवहाराराधनोपयोगयोगी वर्धमानपुण्यप्रकृत्युदयजनितस्वरैश्वर्यादिकमनुभूय भव्यात्मा सिध्यतीत्यसंदेहमिति ॥ ११० ॥ अतितपश्चरणादिकं कुर्वाणोपि स्वात्मध्यानबहिर्भूतो मोक्षभाग् न भवतीत्युपदिशति;अइ कुणउ तवं पालेउ संजमं पढउ सयलसत्थाई। जामण झावइ अप्पा तामण मोक्खोजिणो भणइ।१११॥ अति करोतु तपः पालयतु संयम पठतु सकलशास्त्राणि । यावन्न ध्यायत्यात्मानं तावन्न मोक्षो जिनो भणति ॥ १११ ॥ अइ कुणउ करोतु अनुचरतु । कोसौ । प्राणी । किं तत् । तवं तपः पक्षे उपवासादिकं । कथं । अतीव उग्रोग्रं तथा पालेउ प्रतिपालयतु । कं । संयमं इंद्रियादिसंयम । तथा पढउ पठतु अधीतां । कानि । Page #127 -------------------------------------------------------------------------- ________________ १२२ सयलसत्थाई सकलानि च तानि शास्त्राणि सकलशास्त्राणि व्याकरणछंदोलंकारतर्क सिद्धांतादीनि परं जाम ण झायइ अप्पा यावत्कालं चैतन्यात्मानं न ध्यायति भेदज्ञानेन कायादिभ्यः पृथगवबुध्य स्वसंवेदनेन यावन्न संवेदयति तावत्तस्य प्राणिनः क्षपकस्य मोक्षो नास्ति । को नाम एवमाचष्टे । जिणो भणइ निखिलार्थसार्थसाक्षात्कारी केवली जिनः भणति कथयति । उक्तंच -- आराधनासारः पदमिदं ननु कर्म दुरासदं सहजबोधकला सुलभं किल । तत इदं निजबोधकलाबलात्कलयितुं यततां सततं जगत् ॥ यो न वेत्ति परं देहे देवमात्मानमव्ययम् | लभते न स निर्वाणं तप्त्वापि परमं तपः ॥ १११ ॥ एवंविधं विदधाना भव्यात्मानोऽवश्यं मुक्तिभाजो भवतीति निगदति; चइऊण सव्वसंग लिंगं धरिऊण जिणवरिंदाणं । अप्पाणं झाऊणं भविया सिज्झति णियमेण ॥ ११२ ॥ त्यक्त्वा सर्वसंगं लिंगं धृत्वा जिनवरेंद्राणाम् । आत्मानं ध्यात्वा भव्याः सिध्यंति नियमेन ॥ ११२ ॥ सिज्झति सिध्यंति सिद्धिं साधयंति । के । भविया भव्यात्मानः । कथं सिध्यंति । णियमेण निश्वयेन । किंकृत्वा । चइऊण सव्वसंग संग: परिग्रहो बाह्याभ्यंतररूपः । तत्र बाह्यो दशविधः । यदुक्तम्- क्षेत्रं वास्तु धनं धान्यं द्विपदं च चतुष्पदम् । आसनं शयनं कुष्यं भांडं चेति वहिर्दश ॥ अभ्यंतरश्च परिग्रहश्चतुर्दशभेदभिन्नः । यदुक्तम् - - मिथ्यात्ववेदरागाहासप्रमुखास्तथा च षड् दोषाः । चत्वारश्च कषायाश्चतुर्दशाभ्यंतरा ग्रंथाः ॥ Page #128 -------------------------------------------------------------------------- ________________ टीकासहितः । १२३ इत्येवं लक्षणं सर्वपरिग्रहं चइऊणं त्यक्त्वा विमुच्य ! न केवलं संगं त्यक्त्वा । तथा लिंगं धरिऊण जिणवरिंदाणं जिनेंद्राणां लिंगं नग्नतादिलक्षण धृत्वा सम्यक् प्रकारेण स्वात्मनि जिनदीक्षामारोप्येत्यर्थः । यद्यपि लिंग जात्यादिविकलो निश्चयनयापेक्षया मोक्षहेतुर्न भवति । यदुक्तम् लिंगं देहाश्रितं दृष्टं देह एवात्मनो भवः। न मुच्यते भवात्तस्माद्ये ते लिंगकृताग्रहाः ॥ तथापि व्यवहारेण जिनलिंग मोक्षाय भवति । तथा अप्पाणं झाऊणं आत्मानं च ध्यात्वा । यदुक्तम् संयम्य करणग्राममेकाग्रत्वेन चेतसा । आत्मानमात्मवान् ध्यायेदात्मनैवात्मनि स्थितम् ॥ एवं कुर्वाणा आराधनाराधकाः सिध्यतीत्यर्थः ॥ ११२ ॥ अथ ये व्यवहारनिश्चयाराधनाया उपदेशका आराधकाश्च तान्नमस्करोमीत्याह;आराहणाइ सारं उवइटु जेहिं मुणिवरिंदेहिं । आराहियं च जेहिं ते सव्वेहं पवंदामि ॥ ११३ ॥ आराधनायां सारमुपदिष्टं यैर्मुनिवरेन्द्रैः । आराधितं च यैस्तान् सर्वानहं प्रवंदे ॥ ११३ ॥ जेहिं उवइलु यैातसम्यगाराधनारहस्यैः उपदिष्टं आदिष्टं कथितं । कीदृशैयः । मुणिवरिंदेहिं प्रत्यक्षज्ञानिनो मुनयस्तेषां वरा गणधरास्तेपामिद्राः स्वामिनस्तीर्थकरास्ते मुनिवरेंद्रास्तैः मुनिवरेन्द्रैः तीर्थकृद्भिः। किं. उपदिष्टं यैः । आराधनायां सारं सर्वस्या आराधनायाः सारः टंकोत्कीर्णचि· स्वरूपपरमात्माराधनालक्षणः स उपदिष्टो यैर्मुनिवरेंद्रैस्तान् प्रवदे नमस्क Page #129 -------------------------------------------------------------------------- ________________ १२४ रोमि । न केवलं तान् आराधनोपदेशकान् वंदे : आराहियं च जेहिं यैर्मुनिवरेंद्रैराराधितं द्रव्यभावाराधनासारं तान् सर्वानपि त्रिधा नमस्करो - मीत्यर्थः ॥ ११३ ॥ आराधनासारः स्वाहंकारपरिहारं विदधानः आचार्यः प्राह; णय मे अस्थि कवित्तं ण मुणाभो छेदलक्खणं किंपि । णियभावणाणिमित्तं रइयं आराहणासारं ॥ ११४ ॥ न च मे अस्ति कवित्वं न जाने छंदोलक्षणं किंचित् । निजभावनानिमित्तं रचितमाराधनासारम् ॥ ११४ ॥ णय मे अस्थि कवित्तं मे मम कवित्वं व्याकरणविशुद्धं शब्दार्थालंकारसमन्वितं नास्ति । तथा न मुणामो छंदलक्खणं किंपि छंदः पिंगलायाचार्यप्रणीतं छंदःशास्त्रं छंदचूडामण्यादिकं न जाने इत्यर्थः । तथा लक्षणं व्याकरणं जैनेंद्रादिकं अथवा कवित्वस्य गुणलक्षणं न जानामि किंचित् स्तोकमपि । यदि न किंचिज्जानासि तर्हि किमर्थमारचितवानसि इत्युक्ते प्राह । णियभावणाणिमित्तं निजभावनानिमित्तं केवलमात्मभावनानिमित्तं आराधनासारो मया व्यरचि कृतः निजभावनां निमित्तीकृत्य मयायमाराधनासाराख्यो ग्रंथो व्यरचि न पुनर्यशोनिमित्तं । यदुक्तम् न कवित्वाभिमानेन न कीर्तिप्रसरेच्छया । कृतिः किंतु मदीयेयं स्वबोधायैव केवलम् ॥ ११४ ॥ यद्यत्र प्रवचनविरुद्धं तदा द्रव्यभावश्रुतकेवलिनो दूषणमपाकृत्य विशुद्धममुं ग्रंथ कुर्वन्त्विति ब्रवीतिः — Page #130 -------------------------------------------------------------------------- ________________ टीकासहितः। १२५ अमुणियतच्चेण इमं मणियं जं किंपि देवसेणेण । सोहंतु तं मुर्णिदा अस्थि हु जइ पवयणविरुद्धम् ॥११५॥ अज्ञाततत्त्वेनेदं भणितं यत्किचिद्देवसेनेन । शोधयंतु तं मुनींद्रा अस्ति हि यदि प्रवचनविरुद्धम् ॥ ११५॥ शोधयंतु तं मुनींद्राः भावद्रव्यश्रुतकेवलिनः अंतःस्वसंवेदनज्ञानसंयुक्ताः बहिर्वादशांगश्रुतरहस्यकोविदाः । किं तत् । तं । तत् किं । भणियं जं किपि यत्किंचित् भणितं निगदितं इमं इदं प्रत्यक्षीभूतमाराधनासाराख्यं शास्त्रं । केन भणितं । देवसेनेन देवसेनाख्येनाचार्येण । कथंभूतेन । अमुणियतच्चेण अज्ञातं तत्त्वं येन स अज्ञाततत्त्वस्तेन अज्ञाततत्त्वेन । गर्वपरिहारार्थमिदं विशेषणं न पुनरज्ञाततत्त्व आचार्यः, ततः प्राचीनसूरयो नितरां गुणिनोपि विगताहंकाराः श्रूयते । यदुक्तम् सत्यं वाचि मतौ श्रुतं हृदि दया शौर्य भुजे विक्रमे लक्ष्मीर्दानमनूनमर्थिनिचये मार्गे गतौ निर्वृतेः । येषां प्रागजनीह तेपि निरहंकाराः श्रुतेगोचरा श्चित्रं संप्रति लेशतोपि न गुणस्तेषां तथाप्युद्धताः ॥ परं तदा शोधयंतु अस्थि हु जइ पवयणविरुद्धं हु स्फुटं यदि चेत् प्रवचनविरुद्धं जिनागमविरुद्धं किंचिन्मया प्रत्यपादि तदा शोधयंतु । ये भावश्रुतविरहिताः केवलं द्रव्यश्रुतावलंबिनस्तेषां पुनरिहाराधनासारशोधने नाधिकारः । ये परमब्रह्माराधनातत्परास्त एवात्राधिकारिण इत्यर्थः ॥११५॥ इति श्रीदेवसेनाचार्यविरचित आराधनासारः समाप्तः॥ Page #131 -------------------------------------------------------------------------- ________________ १२६ आराधनासारः nanAmAhannnnnnnnnn टीकाकारस्य प्रशस्तिः। अश्वसेनमुनीशोऽभूत् पारदृश्वा श्रुतांबुधेः। पूर्णचंद्रायितं येन स्याद्वादविपुलांबरे ॥ १ ॥ श्रीमाथुरान्वयममूदधिपूर्णचंद्रो निर्धूतमोहतिमिरप्रसरो मुनींद्रः । तत्पट्टमंडनमभूत् सदनंतकीर्ति या॑नाग्निदग्धकुसुमधुरनंतकीर्तिः ॥ २॥ काष्ठासंघे भुवनविदिते क्षेमकीर्तिस्तपस्वी लीलाध्यानप्रसृमरमहामोहदावानलांमः । आसीहासीकृतरतिपतिर्भूपतिश्रेणिवेणी प्रत्यग्रस्रवत्सहचरपदवंदपद्मस्ततोपि ॥ ३ ॥ तत्पद्रोदयभूधरेऽतिमहति प्राप्तोदये दुर्जयं रागद्वेषमहांधकारपटलं संवित्करैर्दारयन् । श्रीमान् राजति हेमकीर्तितरणिः स्फीतां विकाशश्रियं भव्यांभोजचये दिगंबरपथालंकारभूतो दधत् ॥ ४ ॥ विदितसमयसारजोतिषः क्षेमकीर्ति हिमकरसमकीर्तिः पुण्यमूर्तिर्विनेयः । जिनपतिशुचिवाणीस्फारपीयूषवापी स्नपनशमिततापो रत्नकीर्तिश्चकास्ति ॥५॥ Page #132 -------------------------------------------------------------------------- ________________ टीकासहितः। १२७ आदेशमासाद्य गुरोः परात्मप्रबोधनाय श्रतपाठचंचु । आराधनाया मुनिरत्नकीर्तिष्टीकामिमां स्पष्टतमा व्यधत्त ॥ ६ ॥ इति प्रशस्तिः । इति पंडिताचार्यश्रीरत्नकीर्तिदेवविरचिताराधनासारटीका समाप्ता । Dommmmmmmmg समाप्तोऽयं ग्रंथः। Page #133 -------------------------------------------------------------------------- ________________ Page #134 -------------------------------------------------------------------------- ________________ प्रकाशित ग्रन्थ / NO 1. लघीयस्त्रयादि संग्रह 2. सागरधर्मामृत सटीक 3. विक्रान्त कौरव नाटक 4. पार्श्वनाथ चरित काव्य 5. मैथिली कल्याण नाटक 6. आराधनासार सटीक 7. जिनदत्तचरित्र काव्य मिलनेका पताजैन ग्रन्थरत्नाकर कार्यालय, हीराबाग, पो० गिरगाँव-बम्बई 18