________________
टीकासहितः।
यथा लवणं पयोयोगमासाद्य सद्यो विलीयते तथा यस्य चित्तं शुद्धात्मयोगे बिलयमुपढौकते तस्य चिदानंदोवश्यं प्राकट्यमुपगच्छति । अस्मिंश्वात्मनि अनुभवमुपयाते द्वैतं न प्रतिभाति । यदुक्तम्
उदयति न नयश्रीरस्तमेति प्रमाण
क्वचिदपि च न विद्मो याति निक्षेपचक्रम् । किमपरमभिदध्ये धाग्नि सर्वकषेस्मि
ननुभवमुपयात भाति न द्वैतमेव ॥ किंविशिष्टः आत्मानलः । सुहासुहडहणो नरेंद्रसुरेंद्रफणींद्रसाम्राज्योदयहेतुः शुभकर्म नारकादिदुःखकारणमशुभकर्म शुभं च अशुभं च शुभाशुभे तयोर्दहनः शुभाशुभकर्मेधनसंघातप्लोषकारक इत्यर्थः ॥ ८४ ॥
स्वात्मोत्थपरमानंदसुधासिंधौ निमने मनसि आत्मैव परमात्मा भवतीत्यावेदयति
उव्वसिए मणगेहे णडे णीसेसकरणवावारे । विप्फुरिए ससहावे अप्पा परमप्पओ हवइ ॥ ८५ ॥
उद्वसिते मनोगेहे नष्टे निःशेषकरणव्यापारे । विस्फुरिते स्वसद्भावे आत्मा परमात्मा भवति ॥ ८५ ॥ अप्पा परमप्पओ हवइ भवति संजायते । कोसौ । आत्मा शरीराधिष्ठानो जीवः । कथंभूतो भवति । परमात्मा भवति । यदुक्तम्
उपास्यात्मानमेवात्मा जायते परमोऽथवा ।
मथित्वात्मानमात्मैव जायतेऽनिर्यथा तरुम् ॥ कस्मिन् सति आत्मा परमात्मा भवतीत्याह । उव्वसिए मणगेहे मनोंतरंगं तदेव गहें तस्मिन् मनोगेहे उद्दसिते सति विनष्टे सति सर्वविषयव्यापारेभ्यः पराङ्मुखतामागते सति । मनसो विनाशकरणं परमात्मध्यान-. मेव । न केवलं उद्दसिते मनोगेहे । णहे णीसेसकरणवावारे नष्टे निः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org