________________
आराधनासारः
शेषकरणव्यापार करणानामिद्रियाणां व्यापारः स्वस्वविषयेषु प्रवर्तनं करण: व्यापारः निःशेषश्चासौ करणव्यापारश्च निःशेषकरणव्यापारस्तस्मिन् निःशेष करणव्यापारे नष्टे सति परं करणव्यापार बहिरात्मा वारयितुं न शक्नोति किंतु तत्रैव रमते । यदुक्तं
न तदस्तींद्रियार्थेषु यत्क्षेमंकरमात्मनः ।
तथापि रमते बालस्तत्रैवाज्ञानभावनात् ॥ ततश्च हृषीकेषु विजितेष्ववश्यं परात्मतत्त्वमाविर्भवति । यदुक्तम्
संहृतेषु स्वमनोगजेषु यद्भाति तत्त्वममलात्मनः परम् ।
तद्तं परमनिस्तरंगतामनिरुय इह जन्मकानने ॥ ततश्च मनसि विनष्टे हृषीगणे प्रहतप्रसरे स्वस्वभावे विस्फुरिते आत्मैव परमात्मा भवतीति समुदायार्थः ॥ ८५ ॥ शून्यं ध्यानं विदधानस्य धातुः सकलकर्मविप्रमोक्षो भवतीत्याह;इयएरिसम्मि सुण्णे झाणे झाणिस्स वट्टमाणस्स। चिरबद्धाण विणासो हवइ सकम्माण सव्वाणं॥८६॥ इत्येतादृशे शन्ये ध्याने ध्यानिनो वर्तमानस्य । चिरबद्धानां विनाशो भवति स्वकर्मणां सर्वेषाम् ॥ ८ ॥ हवइ भवति जायते । कोसौ । विणासो विनाशो विलयः । केषां । सव्वाणं सकम्माणं सर्वेषां मूलोत्तरप्रकृतिभेदभिन्नानां स्वकर्मणां ज्ञानावरणादीनां । कस्य कर्मणां विनाशो भवतीत्याह । झाणिस्स ध्यानिनो योगिनः । कथम्भूतस्य योगिनः । इयएरिसम्मि सुण्णे झाणे वट्टमाणस्स इति प्रागुक्तप्रकारेण एतादृशे शून्ये ध्याने निर्विकल्पसमाधिलक्षणे प्रवर्तमानस्य । एतादृशे ध्याने प्रतिष्ठितस्य योगिनः कर्मक्षयो भवतीति निःसंशयः । तथाहि-योगिनोऽयं योगकल्पतरुवाछितं फलं तदा फलति यदा मनोगजेन नोत्पाटितो भवेत् । यदुक्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org