SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ टीकासहितः। चित्तमत्तकारणा नचेद्धतो दुष्टबोधवनवह्निनाऽथवा । योगकल्पतरुरेष निश्चितं वांछितं फलति मोक्षमत्फलम् ॥ ततोवश्यं योगिना मनोगजाद्योगकल्पतरुयत्नेन रक्षणीय इति भावार्थः ॥८६॥ निःशेषकर्मविनाशे सति कीदृशं फलं भवतीत्यावेदयति;णीसेसकम्मणासे पयडेइ अणंतणाणचउखधं । अण्णेवि गुणा य तहा झाणस्स ण दुल्लहं किंपि॥८७॥ निःशेषकर्मनाशे प्रकटयत्यनंतज्ञानचतुःस्कंधं । अन्येपि गुणाश्च तथा ध्यानस्य न दुर्लभं किंचिदपि ॥ ८७ ॥ पयडेइ प्रकटीभवति। किं तत् । अणंतणाणचउर्खधं अनंतज्ञानादीनां चतुःस्कंधं अनंतज्ञानचतुःस्कंधं अनंतविज्ञानानंतवीर्यतानंतसौख्यत्वानंतदर्शनलक्षणं। कदा तदेतच्चतुष्टयं प्रकटीभवति । णीसेसकम्मणासे निःशेषाणि यानि कर्माणि निःशेषकर्माणि तेषां नाशः निःशेषकर्मनाशस्तस्मिन् निशेषकर्मनाशे सति । न केवलमनंतज्ञानचतुःस्कंधं प्रकटीभवति। अण्णेवि गुणा य तहा तथा तेनैव प्रकारेण अन्येपि अपरे गुणाः सूक्ष्मत्वाव्याबाधादयोऽनंतगुणाः प्रकटीभवन्ति तत्तत्कर्मक्षयाते ते गुणाः प्रकृष्टाः खलु जायते । तद्यथा हम्बोधौ परमौ तदावृतिहतेः सौख्यं च मोहक्षयात् वीर्य विघ्नविघाततोऽप्रातहतं मूर्तिर्न नामक्षतेः । आयुनीशवशान जन्ममरणे गोत्रेण गोत्रं विना . सिद्धानां न च वेदनीयविरहादुःखं सुखं चाक्षयम् ॥ यैर्दुःखानि समाप्नुवंति विधिवज्जानंति पश्यति नो वीर्य नैव निजं भजंत्यसुभृतो नित्यं स्थिताः संसृतौ । कर्माणि प्रहतानि तानि महता योगेन यैस्ते सदा सिद्धानंतचतुष्टयामृतसरिन्नाथा भवेयुर्न किम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002535
Book TitleAradhanasaraSatika
Original Sutra AuthorDevsen Acharya
AuthorRatnakirtidev
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1973
Total Pages134
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Spiritual
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy