________________
आराधनासारः
एवं समस्तकर्मक्षये सति ध्यानमाहात्म्यादेवाप्रसिद्धत्वस्य जीवस्य अनंतगुणाः प्रकटी भवंति ततः प्राह झाणस्स ण दुल्लह किंपि ध्यानस्य दुर्लभं न किंचिदिति किंतु ध्यानमाहात्म्यात्सर्वं सुलभामिति । अथवा एवं व्याख्या । अनुक्तमपि ध्यानपदमस्यां गाथायामत्यूह्यं । ध्यानं कर्तृ घ्याननो योगिनः अनंतज्ञानचतुःस्कंधं पयडेइ प्रकटयेत् अनंतज्ञानचतुःस्कंधमिति कर्मपदं अण्णेवि गुणा य तहा तथा अन्यानपि गुणान् प्रकटयेत् अत एव ध्यानस्य दुर्लभं किंचिन्नास्ति ॥८७॥
कर्मकलंकमुक्तः खल्वयमात्मा निरवशेष लोकालोकं परिछिनत्तीत्यावेदयति;जाणइ पस्सइ सव्वं लोयालोयं च दव्वगुणजुत्तं । एयसमयस्स मज्झे सिद्धो सुद्धो सहावत्थो ॥ ८८॥
जानाति पश्यति सर्व लोकालोकं च द्रव्यगुणयुक्तं ।
एकसमयस्य मध्ये सिद्धः शुद्धः स्वभावस्थः ॥ ८८ ॥ जाणइ जानाति परिच्छिनत्ति वेत्ति तथा पस्सइ पश्यति विलोकयति । कोसौ । सिद्धः व्यक्तिरूपः परमात्मा । किं जानाति पश्यतीत्याह । लोयालोयं च लोक्यंते विलोक्यंते जीवादयः पदार्था यस्मिन् स लोकस्तविपरीतोऽलोकः लोकश्च अलोकश्च लोकालोकस्तं सर्व निरवशेषं । कथंभूतं लोकालोकं । दव्वगुणजुत्तं द्रव्यगुणयुक्तं द्रव्यपर्यायसंयुक्तं द्रव्याणि जीवपुद्गलधर्माधर्माकाशकालाः, द्रव्यगुणाः ज्ञानवर्णादिगतिस्थित्यवगाहवतेनालक्षणाः, द्रव्यपर्यायाः नृत्वदेवत्वादिव्यणुकद्वित्रिगुणादि धर्माधर्मयोलौकाकाशस्य शुद्धपर्याय एवाकाशस्य घटाकाशपटाकाशादिः कालस्य समयादिलक्षणा तैर्द्रव्यगुणपर्यायैर्युक्तमित्यर्थः । कथं जानाति । एयसमयस्स मज्झे एकस्य समयस्य मध्ये एकसमयमध्ये सूर्यस्य प्रतापप्रकाशवत् । यथा किल सूर्यस्य प्रतापप्रकाशावेकस्मिन्नेव समये उत्पद्यते तथा वास्य शुद्धात्मनः सर्वस्यापि सावयवद्रव्यस्य ज्ञातृत्वं दर्शनित्वं चैकस्मिन्नेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org