SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ आराधनासारः wwwww लक्षणा अथवा तस्मिन्नेव टंकोत्कीर्णज्ञायकैकस्वभावे भावना । न पुनः शून्यं ध्यानं । तथाहि । आत्मस्वभावलंबिनो योगिनः संकल्पविकल्पं विदलयन् शुद्धनय एवोदेति । यदुक्तम् आत्मस्वभावं परभावभिन्नमापूर्णमाद्यंतविमुक्तमेकम् । विलीनसंकल्पविकल्पजालं प्रकाशयन् शुद्धनयोऽभ्युदेति ॥ तस्माच्छून्यध्यानमभिलषता मुमुक्षुणा शुद्धनय एवेष्टव्य इति ॥ ८३॥ विशदानंदमयात्मनि स्वात्मनि यस्य मनो विलीयते तस्यात्मा कर्मनिर्मूलनक्षमः प्राकट्यमुपढौकते इत्याह;लवणव्व सलिलजोए झाणे चित्तं विलीयए जस्स । तस्स सुहासुहडहणो अप्पाअणलो पयासेइ ॥ ८४ ॥ लवणमिव सलिलयोगे ध्याने चित्तं विलीयते यस्य । तस्य शुभाशुभदहन आत्मानलः प्रकाशयति ॥ ८४ ॥ पयासेइ प्रकाशयति प्रकटी भवति । प्रद्योतते इति यावत् । कोसौ । अप्पाअणलो आत्मैव अनलो वन्हिः आत्मानलः आत्महुताशनः । कस्यात्मानलः प्रकटीभवति इत्याह । झाणे चित्तं विलीयए जस्स यस्य योगिनो नियमितपंचेंद्रियस्य शुद्धात्मस्वरूपनिष्ठस्य मनश्चित्तं ध्याने धर्मशुक्लरूपे निर्विकल्पसमाधिलक्षणे वा विलीयते विलयं विनाशं याति यताश्चद्रूपे स्थित लग्नं मनोऽवश्यमेव विलीयते । अतएव परात्मनि स्थिति न करोति । यदुक्तम् नूनमत्र परमात्मनि स्थितं स्वातमंतमुपयाति तद्वहिः । तं विहाय सततं भ्रमत्यदः को बिभेति मरणान्न भूतले ।। किमिव ध्याने चित्तं विलीयत इति पृष्टे प्राह । लवणव्व सलिलजोए लवणमिव सलिलयोगे सलिलेन योगः सलिलयोगस्तस्मिन् सलिलयोगे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002535
Book TitleAradhanasaraSatika
Original Sutra AuthorDevsen Acharya
AuthorRatnakirtidev
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1973
Total Pages134
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Spiritual
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy