________________
टीकासहितः।.
एवं गुणो हु अप्पा आत्मा य एवंभूता अनंतज्ञानादयो गुणा यस्य स एवंगुणः य एवंगुण आत्मा स एव मोक्षमार्ग इति भणितः कथितः सकलकर्मविप्रमोक्षलक्षणो मोक्षस्तस्य मार्गों दर्शनज्ञानचारित्राणि एवंगुणविशिष्टः खल्वात्मा साक्षान्मोक्षमार्ग इत्यवगंतव्यः अहवा अथवा मोक्षमार्गेण किं स एव मुक्खो स एवात्मा मोक्षः निरतिशयानंदसुखरूपः । कदास आत्मा मोक्षो भवतीत्याह। असेसकम्मक्खये हवइ अशेषाणि समस्तानि मूलोत्तरप्रकृतिभेदभिन्नानि यानि कर्माणि ज्ञानावरणदर्शनावरणा. दीनि तेषां क्षयः सामस्तेन विनाशः अशेषकर्मक्षयस्तस्मिन्नशेषकर्मक्षये सति स एव आत्मा मोक्षो भवतीत्यर्थः ॥ ८२ ॥ __यावत्साकल्याभिनिनिवेशो योगिनस्तावच्छून्यं ध्यान नास्तीत्यावेदयति;जाम वियप्पो कोई जायइ जोइस्स झाणजुत्तस्स। ताम ण सुण्णं झाणं चिंता वा भावणा अहवा ॥८३॥
यावद्विकल्पः कश्चिदपि जायते योगिनो ध्यानयुक्तस्य । तावन्न शून्यं ध्यानं चिंता वा भावना अथवा ॥ ८३ ॥ जोइस्स योगिनः संवृतद्रियस्य क्षपकस्य जाम वियप्पो कोई जायह यावत्कालं कोपि कश्चिदपि विकल्पः अहं सुखी अहं दुःखीत्यादिरूपः जायते उत्पद्यते । कथंभूतस्य योगिनः । झाणजुत्तस्स ध्यानयुक्तस्य निर्विकल्पसमाधिनिष्ठस्य । कथं विकल्पाविर्भावः ? पूर्वविभ्रमसंस्कारादिति । यदुक्तम्
जाननप्यात्मनस्तत्त्वं विविक्तं भावयन्नपि ।
पूर्वविभ्रमसंस्काराद् भ्रांति भूयोपि गच्छति ।। विकल्पावतारश्चेद्योगिनस्तर्हि किं दूषणमित्याशंक्याह । ताव ण सुण्णं झाणं तावत्कालं शून्यं संकल्पातीतं ध्यानं नास्ति । तत्किंमस्तीत्याशंक्याह। चिंता वा भावणा अहवा तस्य परमात्मनश्चिंता अनंतज्ञानादिगुणस्मरण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org