________________
९४
आराधनासारः
अप्पा आत्मा अतति गच्छति स्वकीयान् द्रव्यपर्यायानित्यात्मा । किं विशिष्टः । तत्तियमइओ तत्रितयमयः दर्शनज्ञानचारित्रमयः।ज्ञानि मिरात्मा दर्शनज्ञानमयो निर्दिष्ट इति । यदुक्तम्अद्वैतापि हि चेतना जगति चेद् दृग्ज्ञप्तिरूपं त्यजेत्
तत्सामान्यविशेषरूपविरहात्सास्तित्वमेव त्यजेत् । तत्त्यागे जडतावतोपि भवति व्याप्यो विना व्यापका
दात्मा चांतमुपैति तेन नियतं दृम्ज्ञप्तिरूपास्तु चित् ॥ अतः आत्मा दर्शनज्ञानोपयोगमयोऽवगंतव्यः तस्यैव शुद्धबुद्धस्वभावस्यात्मनः स्वात्मनि या स्थितिस्तच्चारित्रमिति । अथवा
ववहारेणुवदिस्सदि णाणिरस चरित्त दंसणं णाणं ।।
___ण वि णाणं ण चरित्तं ण दंसणं जाणगो सुद्धो ॥ अनुच-सम्यक्सुखबोधदृशां त्रितयमखंडं परात्मनो रूपम् ।
तत्रितयतत्परो यः स एव तल्लब्धिकृतकृत्यः ॥ संसारव्यवहारव्यापारोत्पादकै रागद्वेषमोहशृंगारादिभिरवलंबनैः सालंबो भविष्यति आत्मेत्याशंक्याह अवसेसालंबणेहिं परिमुक्को अवशे पाणि समस्तानि यान्यालंबनानि अपध्यानादीति तैः सर्वप्रकारेण मुक्को रहितः उत्तो सतेण सुण्णो स आत्मा तेनैव हेतुना शून्यः उक्तः प्रतिपादितः । ततश्च समस्तेंद्रियविषयकषायविषये शून्यः चिदानंदैकसद्भावे स्वरूपे योऽशून्यः स सर्वप्रकारेणोपादेय इति भावार्थः ॥ ८१ ॥
चित्स्वभावः खल्वयात्मा मोक्षमार्गों मोक्षो वेत्यावेदयति;एवं गुणो हु अप्पा जो सोभणिओहु मोक्खमग्गोति। अहवा स एव मोक्खो असेसकम्मक्खए हवइ ॥ ८२। एवं गुणो ह्यात्मा यः स भणितो हि मोक्षमार्ग इति । अथवा स एव मोक्षः अशेषकर्मक्षये भवति ॥ ८२ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org