________________
टीकासहितः ।
९३.
दंसणणाणचरित्ता णिच्छयवाएण हुंति ण हु भिण्णा । जो खलु सुद्धो भावी तमेव रयणत्तयं जाण ॥ ८० ॥ दर्शनज्ञानचारित्राणि निश्चयवादेन भवंति न हि भिन्नानि । यः खलु शुद्धो भावस्तमेव रत्नत्रयं जानीहि ॥ ८० ॥
भो क्षपक दंसणणाणचरित्ता दर्शनं च ज्ञानं च चारित्रं च दर्शनज्ञानचारित्राणि णिच्छयवाएण निश्चयवादेन निश्चयनयापेक्षया हुंति णहु भिण्णा हु स्फुटं भिन्नानि परमात्मन: स्वरूपात् पृथग्भूतानि नः भवंति । यदुक्तम्
आत्मनि निश्चयबोधस्थितयो रत्नत्रयं भवक्षतये । भूतार्थपथप्रस्थितबुद्धेरात्मैव तत्रितयम् ॥
कथमपि समुपात्तत्रत्वमध्येकताया अपतितमिवात्मज्योतिदुद्गच्छद च्छम् । सततमनुभवामोऽनंत चैतन्यचिन्हं
न खलु न खलु यस्मादन्यथा साध्यसिद्धिः ॥
किंतु जो खलु सुद्धो भावो यः खलु निश्चयेन शुद्धः कर्ममलविनिर्मुक्तः भावः तमेव भावं रत्नत्रयं जाण जानीहि । तथाहि - एकमेव परमा-त्मानमात्मनि वर्तमानममंदानंद मेदुरमात्मनैव यो ध्यायति तेन रत्नत्रयमेवाराधितं भवेदिति भावार्थः ॥ ८० ॥
अशेषकामको धलोभमदमात्सर्यादिभिर्विभावपरिणामैर्मुक्तत्वादयमात्मा इत्याद्याह;
तत्तियमओ हु अप्पा अवसेसालंबणेहिं परिमुक्को । उत्तो स तेण सुण्णो णाणीहि ण सव्वदा सुण्णो ॥८१॥ तन्त्रिकमयो हि आत्मा अवशेषालंबनैः परिमुक्तः । उक्तः स तेन शून्यो ज्ञानिभिर्न सर्वदा शून्यः ॥ ८१ ॥
Jain Education International
For Private & Personal Use Only
शून्य.
www.jainelibrary.org