________________
टीकासहितः ।
६९
- गतः । मुनीन्द्रोपि तथाविधां बाधां सोढा धर्मध्यानेन स्वर्गतः । इति गज
कुमारकथा ॥ ५० ॥
देवनिकायनिर्मितोपसर्गविषहणं यैरकारि तानुदाहरति; - अमरकओ उवसग्गो सिरिदत्तसुवण्णभद्दआईहिं । समभावणाए सहिओ अप्पाणं झायमाणेहिं ॥ ५१ ॥ अमरकृत उपसर्गः श्रीदत्तसुवर्णभद्रादिभिः ।
समभावनया सोढ आत्मानं ध्यायद्भिः ॥ ५१ ॥
सहिओ सोढः । कोसौ । उपसर्गः विषमतरवेदना । कीदृश उपसर्ग: अमरकओ अमरकृतः देवनिकायविहितः । तीव्रतरोपसर्गः विसोढः । कैरित्याह । सिरिदत्तसुवण्णभद्दआईहिं श्रीदत्त सुवर्णभद्रादिभिः श्रीदतश्च सुवर्णभद्रश्च श्रीदत्त सुवर्णभद्रौ तावादी येषां ते श्रीदत्तसुवर्णभद्रादयस्तैः श्रीदत्त सुवर्णभद्रादिभिः कया सोढः । समभावणया समभावनया शत्रौ मित्रे तृणे स्त्रैणे समाना या भावना समभावना तया समभावनया । किं कुर्वद्भिस्तैरुपसर्ग: सोढः । अप्पाणं झायमाणेहिं आत्मानं सहजशुद्धबुद्धैकस्वभावं ध्यायद्भिः ध्यानगोचरीकुर्वद्भिः । अत्र श्रीदत्तस्य कथा यथा । इलावर्धननगरे राजा श्रीदत्तो राज्ञी अंशुमती तयोर्युतं क्रीडतो सतोः राज्ञ्या पराभवं गते राजनि राजपत्नीशुक एकां रखां दत्तवान् । एकवारं राज्ञा हारितमिति कुपितेन भूपेन
सा
को गलं मोटयित्वा मारितः । स केनचिद्ध्यानविशेषेण मृत्वा व्यंतरदेवोऽजनि । राजा श्रीदत्तोप्यन्यदा धवलगृहोपरि स्थितो जलधरजनितप्रासा-दविनाशं दृष्ट्रा संजातवैराग्य: पुत्राय राज्यं वितीर्य जैनीं दीक्षामशिश्रियत् । ततः श्रुताभ्यासं विदधानः परमं तपश्चिन्वानः कालमतिवाहयामास । अन्यदा तीव्रतरे शीत प्रवर्तमाने पुरबाह्योयाने कायोत्सर्गमाश्रित्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org