________________
आराधनासारः
वादिभिः उपसर्गः सोढः । गयवरकुमरेहिं गजकुमारेणापि सोढः तह य अवरोहिं तथापरैः तथा तेनैव प्रकारेण अन्यैरपि सोढः । किंविशिष्टस्तैः । महाणुभावेहिं महानुभावैः सत्त्वाधिकैः महापुरुषैः । अत्र गजकुमारकथा। इह प्रसिद्धायां द्वारवत्यां वसुदेवोऽनेकभूपालकृतपादसेवो राजते । तस्यात्मजो गजकुमारः परं सर्वेषु राजकुमारेषु स पराक्रमसारः । अन्यदा नारायणेन यः पोदनपत्तननायकमपराजितं रणभूमौ विजित्य बढा चानयति स मनोवांछितं लभते इति घोषणा निजनगर्या दापिता । तो गजकुमारो निशम्य त्वरितं तत्र गत्वा अपराजितरणभूपालं रणक्षोणौ जित्वा बद्धवाचानीय वासुदेवस्य समर्पितवान् । ततश्च कामचारं चरित्वा स द्वारवतीस्त्रीजनं सेवमानः पांसुलश्रेष्ठिपन्यामासक्तोऽभूत् । यदुक्तम्--
स्वाधीनेपि कलत्रे नीचः परदारलंपटो भवति ।
परिपूर्णेपि तडागे काकः कुंभोदकं पिबति ॥ अन्यदा गजकुमारो नेमिनाथवंदनार्थ समवशरणमीयिवान् । तत्र भग-. वतः परांगनापरित्यागलक्षणं धर्ममुपदिशतो मुखादिदं पद्यमश्रौषीत् । उक्तं च
चिंताव्याकुलताभयारतिमतिभ्रंशातिदाहभ्रम
क्षुत्तृष्णाहतिरोगदुःखमरणान्येतान्यहो आसताम् । यान्यत्रैव परांगनाहितमतेस्तद्भरि दुःखं चिरं
श्वभ्रेऽभाषि यदग्निदीपितवपुलॊहांगनालिंगनात् ॥ इत्यादिकं श्रुत्वा गजकुमारस्तत्क्षणादेव विरक्तः समभूत् । ततो जिनपादांते तपो जग्राह । गुरुसेवया श्रुतपदान्यन्वासीत् । कालक्रमेण गिरनारगिरि विकटाटव्यां पादपोपयानमरणं स्वीकृत्य संन्यासेन स्थितः । इतश्च पांसुलश्रेष्ठी चिरंतननिजांगनासक्तिजनितं वैरमनुस्मृत्य तीव्रतरक्रोधावेशात्तं मुनींद्र गजकुमारं लोहकीलकैः कीलयित्वा बहुतरां पीडां चापाद्य प्रपलाय्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org