________________
टीकासहितः।
किंचिदक्ति । ततोऽकारणकुपितेन कपिलेन शाल्मलितूलेन वेष्टयित्वा स यतिख़लति ज्वलने क्षिप्तः उपशमवारिणा वह्निजनितां यातनां यतिर्जित्वा शुक्लध्यानेन केवलज्ञानमुत्पादितवान् । ततोऽसुरामरास्तस्य केवलिनः पूजार्थमाजग्मिवांसः । ब्राह्मणोपि मुनिचरणार्चामाचरतोऽसुरामरानालोक्य अहो महानयं मुनिस्तदस्योपसर्गमाचरता मयानिष्टं कृतमिति स्वात्मानं निनिंद । तदनु परमवैराग्यरससंपन्नो विप्रः क्षिप्रं यतेः पादयोरुपरि पतित्वा प्रोवाच । स्वामिन् कृपासागर यावदनेन पापेन नारको न भवेयं तावन्मां पाहि । मुनिरपि तमासन्नभव्यं वाडवं बुवा दीक्षयामास । इति मनुष्यकृतोपसर्गसहनशीलस्य गुरुदत्तभूपतेदृष्टांतकथा । अतःपरं पांडवानां कथा । पूर्वोपार्जिताखंडपुण्यप्रभावेण दुर्जयान दुर्योधनादीन् परांश्च शत्रन जित्वा दक्षिणमथुरायां राज्यं कुर्वाणा विलसत्कीर्तितांडवाः पांडवाः खल्वासन् । अन्यदा ते नेमिनाथनिर्वाणमाकर्ण्य सपदि संसारशरीरभोगनिविणाः स्वस्वपुत्रेषु राज्यभारमारोप्य जैनी दीक्षां जगहुः । ततस्तपस्तीवं चिन्वानाः शत्रुजयशिलोच्चयशिखरमारुह्य स्थिरप्रतिमायोगेन शिलोत्कीर्णा इव तस्थुः । तथास्थितान् तानाकर्ण्य केचिदुर्योधनगोत्रसंभवा राजपुत्रास्तत्पूर्ववैरं स्मृत्वा शजयं समागत्य चात्यर्थमतूतुदत् । कथं । मुकुटकुंडलहारकेयूरकटकाद्या. भरणानि लोहमयानि कृपीटयोनिधनज्वालाभिस्तप्तानि कृत्वा पांडवानां भुजाद्यवयेवषु ते पापा निचिक्षिपुः, वह्नितापितेषु लोहेषु पोठेषु ते तान् न्यवीविशंश्च । ततो युधिष्ठिरभीमार्जुनास्त्रयः स्वस्यैव कर्मविपाकं दुर्निवारं गणयंतः ततो भिन्नं ज्ञानोपयोगदर्शनोपयोगादभिन्नमात्मानमत्यर्थं भावयंतः शुक्लध्यानबलेन घातिकर्माणि समूलकाषं कषित्वा केवलज्ञानं च समुत्पाद्य शेषाण्यपि कर्माणि क्षपयित्वांतकृतो निर्वाणं शांतमक्षयसुखमीयुः। नकुलसहदेवौ तु अद्यापि यदि राजा आदिशति तदा बाहुबलेन प्रतिपक्षान् हन्वः इति क्षणं ध्यात्वा पुनः स्वीकृतयतिव्रतरत्नस्मरणात्प्रतिबुद्ध्यात्मानं निंदित्वा परमधर्मध्यानेन सर्वार्थसिद्धिमीयतुः । इति पांडवानां कथा । न केवलं पांड
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org