________________
आराधनासारः
मनुष्यकृतोपसर्गो यः सोढस्तन्नामानि सूचयन्नाह;गुरुदत्तपंडवेहिं य गयवरकुमरेहिं तह य अवरेहिं । माणुसकर उवसग्गो सहिओ हु महाणुभावेहिं ॥ ५० ॥
गुरुदत्तपांडवैः च गजवरकुमारेण तथा चापरैः ।
मनुष्यकृत उपसर्गः सोढो हि महानुभावैः ॥ १०॥ सहिओ सोढः हु स्फुटं । कः सोढः । उपसर्गः । कीदृशः । माणुसकउ मनुष्यकृतः । कैः सोढः । गुरुदत्तपंडवेहिं गुरुदत्तपांडवैः गुरुदत्ताख्यो भूपालः पांडवाः पांडुनरेंद्रपुत्रा युधिष्ठिरादयः गुरुदत्तश्च पांडवाश्च गुरुदत्तपांडवास्तैर्गुरुदत्तपांडवैः । अत्र गुरुदत्तकथा । हस्तिनागपुरे न्यायोपार्जितवित्तो गुरुदत्तो नाम राजा । एकदा स प्रजायाः पीडामापादयंतं व्याघ्रमनुचरमुखादोषोत् । ततः कोपाविष्टो भूपरिद्रढः ससैन्यो गत्वा द्रोणीमति पर्वते सत्त्वसंतानघातकं तं व्याघ्र रुरोध । व्याघ्रोपि कांदिशीकतया प्रपलाय्य गिरिगुहां प्राविशत् । सकोपो भूपो गुहांतर्दारुभारं क्षेपयित्वा वह्निमदीपयत् । तत्क्षणे प्रदीप्ताशुशुक्षिणिजिह्वाजालेन करालितो व्याघ्रो ममार । मृत्वा च चंद्रपुर्या कपिलो नाम द्विजन्माऽजनि, इतश्च गुरुदत्तः क्षोणीपो वैराग्यकारणं किंचिदवलोक्य पुत्राय राज्यं दत्वा यतिर्बभूव । क्रमेण विहारक्रमं विदधानः चंद्रपुरीमभ्येत्य कपिलब्राह्मणस्य क्षेत्रसविधे कायोत्सर्गेण तस्थौ । कपिलोपि निजपाणिगृहीतां सिद्धान्नमादाय सत्त्वरमागच्छरित्यादिश्य क्षेत्रमीयिवान् । तत् क्षेत्रं कर्षणायोग्यं मत्त्वा क्षेत्रांतरं गतो वाडवः । इतश्च तदीया भार्या संबलं गृहीत्वा क्षेत्रं प्रति गच्छंती अंतराले मुनिमालोक्य पप्रच्छ । मुने क्षेत्रेस्मिन् ब्राह्मणास्ति नास्ति चेति तया पृष्टोपि मुनिने वक्ति केवलं मौनमास्थाय मुनिः स्थितः । ततः सा निवृत्य स्वमंदिरमियाय । बृहद्वेलायां तेन द्विजन्मना क्षेत्रादागत्य भार्या निर्भत्सिता। रंडे मुनिं पृष्ठा किं नाथातासि । तयोक्तं पृष्टोपि न स .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org