________________
४८
आराधनासारः
wwwwwwwwwwwwwwwwwwwwwwwwww
श्रमविनोदार्थ शय्यां निषद्यां वा भजमानस्य गमनमुकर्वतः शुष्कतृणपरुषशर्कराकंटकनिशितमृत्तिकादिबाधितमूर्तरुत्पन्नकंडूविकारस्य दुःखं मनस्यचिंतयतस्तृणस्पर्शसहनं ॥ १७ ॥ रविकिरणजनितप्रस्वेदलवसंलग्नपांसुनिचयस्य सिध्माकच्छूदद्रूभृतकायत्वादुत्पन्नायामपि कंडां कण्डूयनमर्दनादिरहितस्य स्नानानुलेपनादिकमस्मरतः स्वमलापचये परमलोपचये च प्रणिहितमनसो मलधारणं ॥ १८ ॥ केशलुंचासंस्काराभ्यामुत्पन्नखेदसहनं मलसामान्यसहनेंऽतर्भवतीति न पृथगुक्तं । सत्कारः पूजाप्रशंसात्मकः पुरस्कारः क्रियारंभादिष्वग्रतः करणं चिरोषितब्रह्मचर्यस्य महातपस्विनः स्वपरसमयज्ञस्य हितोपदेशकथामार्गकुशलस्य बहुतत्त्वपरवादिविजयिनः प्रणामभक्तिसंभ्रमासनप्रदानादीनि न मे कश्चित् करोति वरं मिथ्यादृशः स्वसमयगतमज्ञमपि सर्वज्ञसंभावनया सन्मान्य स्वसमयप्रभावनां कुर्वति व्यंतरादयः पुरात्युग्रतपसां प्रत्युग्रपूजां निवर्तयंतीति यदि न मिथ्याश्रुतिस्तदा कस्मादस्मादृशां एते समयगता अनादरं कुर्वति इति प्रणिधानरहितचित्तस्य मानापमानयोस्तुल्यस्य सत्कारपुरस्कारपरिषहजयः ॥ १९ ॥ अंगपूर्वप्रकीर्णकविशारदस्य अनुत्तरवादिनो मम पुरस्तादितरे भास्करप्रभाभिभूतोद्योतखद्योतवन्नितरामवभासते इति ज्ञानमदनिरासः प्रज्ञापरीषहजयः ॥ २०॥ अज्ञोऽयं न किंचिदपि वेत्ति पशुसमः इत्यायधिक्षेपवचनं सहमानस्य सततमध्ययनरतस्य निवृत्तानिष्टमनोवाक्कायचेष्टस्य महोपवासायनुष्ठायिनोद्यापि मे ज्ञानातिशयो नोत्पद्यते इत्यनभिसंदधतो अज्ञानपरीषहजयः॥ २१ ॥ दुष्करतपोनुछायिनो वैराग्यभावनापरस्य ज्ञातसकलतत्त्वस्य चिरंतनवतिनो अद्यापि मे ज्ञानातिशयो नोत्पद्यते महोपवासाद्यनुष्ठायिनां प्रातिहार्यविशेषाः प्रादुरभूवनिति प्रलापमात्रमनार्थकेयं प्रवज्या विफलं व्रतपालनमित्येवमचिंयतो दर्शनविशुद्धियोगाददर्शनपरीषहसहनम् ॥ २२ ॥ न केवल परीषहसुभटा ज्ञातव्या किंतु ते परीषहा जेयव्वा जेतव्याः । केन । मुणिणा मुनिना । केन करणभूतेन । वरउबसमणाणखग्गेण वरोपशमज्ञानखड्नेन वरोपशम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org