SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ टीकासहितः। ज्ञान एव रागद्वेषाभाव एव खड्गस्तेन । एतेन परीषहान् सर्वान् जित्वा क्षपकः शुद्धात्मानं ध्यायतीति रहस्यं ॥ ४० ॥ संन्याससंग्रामांगणे परीषहसुभटैर्निराकृताः केचिद्धीनसत्त्वाः शरीरसुखं शरणं प्रविशंतीत्यादिशति;परिसहसुहडेहिं जिया केई सण्णासाहवे भग्गा । सरणं पइसंति पुणो सरीरपडियारसुक्खस्स ॥ ४१ ॥ परीषहसुभटर्निता केचित् संन्यासाहवाद्भग्नाः । शरणं प्रविशति पुनः शरीरप्रतीकारसुखस्य ॥ ११ ॥ परिसहसुहडोहं जिया परीषहसुभटैर्जिताः विनिर्जिताः केचित् चरित्रमोहोदयेन प्रच्छादितवृत्ता रुद्रादयो मुनयः सण्णासाहवे संन्यासाहवात् सर्वसंगपरित्यागलक्षणः संन्यासः चरित्रानुष्ठानं स एवाहवः संग्रामः ऋषभादिभिर्वीरपुरुषैः समाश्रितत्वात् तत्सहदीक्षितचतुःसहस्रनरेंद्रादिकातरपुरुषैः परित्यजनत्वात् सामान्यैः श्रवणमात्रत्रासोत्पादकत्वात् नानानशनरसपरित्यागादिवतानुष्ठानकांडायस्त्रैः कायकदर्थनत्वात्, तस्मात्संन्याससंप्रामात् भग्गा भग्नाः पलायिताः परीषहान् सोढुमशक्ताश्चारित्ररणभूमिं परित्यज्य गता इत्यर्थः । ततो नष्टास्ते क गच्छंतीति पृष्टे प्रत्युत्तरमाह । सरीरपडियारसुक्खस्स शरीरप्रतीकारसुखस्य शरीरस्य निजदेहस्य प्रतीकारः प्रावरणभोजनादिविषयस्तदेव सुखं तस्य सरणं शरणमाश्रयं पुनः पविसंति प्रविशंति गच्छंति पूर्व तावत्किमपि वैराग्यमांत्रं प्राप्य समस्तदेहद्रियविषयजन्यसुखपुत्रमित्रकलत्रं परित्यज्य ख्यातिपूजालाभापहलौकिकस्वर्गापवर्गरूपपारलौकिककमनीयसुखसंपत्तिदायिनी जिनराजदीक्षा प्राप्ता ये तत्र दुर्धरतपोनुष्ठानं विलोकयंतो भीता वयमीदृशमाचरितुमक्षमाः पुनस्ते देवशास्त्रगुरुचतुर्विधसंघविद्यमानात्तप्रतिज्ञां परिहाय चतुर्गातकसंसारकूपपतनभीतमगणयंतः पुनरपि मनोवाक्कायकदर्थनसमर्थनानाविध Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002535
Book TitleAradhanasaraSatika
Original Sutra AuthorDevsen Acharya
AuthorRatnakirtidev
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1973
Total Pages134
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Spiritual
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy