________________
आराधनासारः
दुःखजलसंभारभरितकृषिवाणिज्यादिगृहव्यापारपारावारकल्लोलं दोलायमानाः कापि कापि पंचेंद्रियविषयजनितसुखजलगतस्थलेषु विश्रमंति पुनरपि तत्फलेनानंतसंसारं पर्यटन्ति । एवं चेतसि विज्ञाय संसारभीतिं चित्ते समारोप्य जिनराजदीक्षा नीत्वा देहममत्वपरिहारेण दुर्धरपरीद्वषजयं कृत्वा परमात्मानमाराधयत इति तात्पर्यम् ।। ४१ ।।
ननु परिषहसुभटैः पराभूयमानो मुनिः केनोपायेन तान् जयतीति पृष्टः सन्निमां भावानां सद्धेतुमंतरंगकरे कारयति;दुक्खाइं अणेयाई सहियाई परवसेण संसारे । इण्हं सवसो विसहसु अप्पसहावे मणो किच्चा ॥४२॥
दुःखान्यनेकानि सोढानि परवशेन संसारे ।
इदानी स्ववशो विषहस्व आत्मस्वभावे मनः कृत्वा ॥ ४२ ॥ भो आत्मन्, अस्मिन् संसारे भवे जन्मजरामरणपरिवर्तने परवशेन निजचिरदुरार्जितकर्मविपाकत्वादन्याधीनतावस्थाविशेषेण अणेयाइं अनेकानि चतुर्गतिषु संभवत्वेन घोरासुरोदीरिततिलमात्रगावकर्तनतप्ततैलकटाहावर्तनासिपत्रवनांतरालवर्तनप्रज्वलितवालुकास्थलविहित-नर्तनपरस्परप्रक्षिप्तघातछेदनक्रकचविदारणातिभारारोपणबंधदाहशीतोष्णयात-दारिद्रपुत्रशोकप्रियावियोगनृपराभवसुतविहितद्यूतक्रीडादिदुर्व्यसनसंभवपरपरमार्द्धिदर्शनोद्भवमानसिकादिभेदात् अनेकभेदानि दुखाइ दुःखानि । किंकृतानि । सहियाई सोढानि त्वया अनुभूतानि आस्वादितानि सेवितानीति यावत् । इण्हं इदानीं संप्रति तपश्चरणावस्थायां सवसो स्ववशः आत्माधीनःसन अप्पसहाबे आत्मस्वभावे स्वस्वरूपे मणो मनश्चित्तं किच्चा कृत्वा विसहसु विषहस्व विशेषेण सहस्व भो आत्मन त्वमिह तपोनुष्ठाने हठात्केनापि न नियुक्तस्त्वमेवं कुरु त्वं स्वयमेव संसारशरीरभोगषु विरज्य तपसि परायणो जातोसि अतस्तावकीना स्वाधीना प्रवृत्तिः न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org