________________
टीकासहितः।
५१
पराधीनता कापीह । पूर्व तावदेव योनिषु संसारे पराधीनतां गतेन स्वसामर्थ्याभावादनेकभेदानि दुःखानि भुक्तानि अधुना हठयाहितचारित्वात् स्ववशः सन् शुद्धभावे मनो विधाय परीषहान् सहस्वेति भावः ॥ ४२ ॥
तीब्रवेदनाक्रांतो यदि परमोपशमशालिनी भावनां करोषि तदा कर्माणि हंतीत्याचष्टे;अइतिव्ववेयणाए अकंतो कुणसि भावणा सुसमा । जइ तो णिहणसि कम्मं असुहं सव्वं खणद्धेण ॥४३॥ अतितीव्रवेदनाया आक्रांतः करोषि भावनां सुसमां । यदि तदा निहंसि कर्म अशुभं सर्व क्षणार्धेन ॥ ४३ ॥ ____ अइतिव्ववेयणाए अतितीव्रवेदनया अतिशयेन तीवा कठोरा दुस्सहवेदना क्षुत्पिपासादिपरीषहसमुत्पन्नमनोवाक्कायकदर्थनासातया अकंतो आक्रांतः पीडितः यदि त्वं भो क्षपकपुरुष सुसमा सुसमां सुष्ठु अतिशयेन समा विग्रहादिषु ममेदमस्याहमित्याग्रहासंग्रहीतपरिणामनिग्रहणेन रुग्जरादिविकृतिर्न मेंजसा सा तनोरमितः सदा पृथक् मिलितेपि सति खेऽविकारिता जायते न जलदैर्विकाशिभरित्यादिसूक्तिपरंपराविचारिनीरपूरणरागद्वेषमोहसंभवसमस्तविभावपरिणामसंकल्पविकल्पलक्षणजाज्वल्यमानानिनिःशेषेणोपशम्य चित्तस्य चिद्रूपे शुद्धपरमात्मनि स्थितिलक्षणा या सुसमा तां सुसमां भावणा भावनां मुहुर्मुहुश्चेतसि अनित्याद्यनुप्रेक्षाचिंतनलक्षणां जइ कुणसि यदि करोषि तो तदा काले असुहं अशुभं सव्वं सर्व कम्मं घातिकर्मचतुष्टयस्वरूपं सर्वमशुभं कर्म खणद्धेण क्षणार्धेन अंतर्मुहूर्तेन णिहणसि निहंसि क्षपयसि यावदत्र रागद्वेषोत्पादकेष्विष्टानिष्टशुद्धपरमात्मपदार्थनिरंतरचिंतनानुरागबलेन सुसमां भावनां न करोषि तावत् कर्माणि क्षपयितुं परीषहजानततीव्रवेदनां सोढुं च न शक्नोषि । एवं ज्ञात्वा परीषहदुःखेषूत्पद्यमानेष्वपि 'परमात्मनि भावना कर्तव्या इति ॥४३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org