________________
टीकासहितः।
२५
लभमानः सन् संसाराटव्यां भ्रांतः भ्रमति भ्रमिष्यति च इति मत्वा क्षपकेण निजशुद्धात्मस्वरूपमाराधनीयमिति भावार्थः ॥ १४ ॥
ननु भगवन् पूर्व किं विधाय सा निश्चयाराधनाराधनीयेति पृष्ठे आचार्य अनुशास्ति
संसारकारणाई अस्थि हु आलंबणाइ बहुयाई। · चइऊण ताई खवओ आराहओ अप्पयं सुद्धं॥१५॥
संसारकारणानि संति हि अलंबनानि बहुकानि ।
त्यक्त्वा तानि क्षपक आराधयतु आत्मानं शुद्धम् ॥ १५ ॥ अस्थि अस्तीत्यव्ययक्रियापदं संत्यर्थे बह्वर्थ प्रतिपादयति । उक्तं च । सदृशं त्रिषु लिंगेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तदव्ययमिति ॥ अस्ति संति । कानि । आलंबणाइ आलंबनानि स्रक्चंदनवनितागीतनृत्यवादित्रादीनि । बहुयाइं बहुकानि प्रचुराणि । कथंभूतानि । संसारकारणाई संसारकारणानि नरकतिर्यग्मनुष्यदेवचतुर्गतिनिबद्धस्य संसारस्य कारणानि हेतुभूतानि । कथं । हु निश्चितं ताइ तानि आलंबनानि चइऊण त्यक्त्वा आराहउ आराधयतु । कोसौ । खवओ क्षपकः। कं । अप्पाणं आत्मानं किंविशिष्टं । सुद्धं रागादिमलमुक्तं । अनादिकाले हि स्रक्चंदनवनितागतिनृत्यायनेकविधपंचेंद्रियविषयसुखाभिलाषुकेण निजशुद्धात्मोत्पन्नातींद्रियसुखात्पराङ्मखेन जीवेन संसाराटव्यां पर्यटितं संप्राप्तं संसारशरीरभोगवैराग्यभावनाबलेन तानि विषयसुखानि निरस्य निश्चयाराधनारूपं निजपरमात्मतत्त्वमाराधनीयमिति भावार्थः ॥ १५॥
ननु निश्चयाराधनैव मोक्षसाधिका किमनया भिन्नया चतुर्विधया व्यवहाराराधनया साध्यमिति वदंतं प्रत्याह;
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org