________________
२६
आराधनासारः
भेयगया जा उत्ता चउविहाराहणा मुणिंदेहिं । पारंपरेण सावि हु मोक्खस्स य कारणं हवइ ॥१६॥
भेदगता या उक्ता चतुर्विधाराधना मुनींदैः ।
पारंपर्येण सापि हि मोक्षस्य च कारणं भवति ॥ १६ ॥ हवइ भवति । किं । कारणं कार्यस्य साधनं कारणमित्युच्यते । कस्य। मोक्खस्स मोक्षस्य कृत्स्नकर्मविप्रमोक्षस्वरूपस्य च । पुनः का। सावि सापि । सापीति का । चउव्विहाराहणा चतुर्विधाराधना चतस्रो विधाः प्रकारा यस्याः सा चतुर्विधा चतुर्विधासावाराधना च चतुर्विधाराधना सम्यग्दर्शनादिचतुष्टयोद्योतनोपायस्वरूपा चतुर्विधाराधनैव । का । या । किं कृत्वा । उत्ता उक्ता प्रतिपादिता । कैः । मुर्णिदेहिं मुनींद्रैः मुनीनामिंद्रा मुनींद्राः सर्वज्ञास्तैः मुनींद्रैः। किंविशिष्टा । भेयगया भेदगता सम्यग्द. शनादीन् चतुरो भेदान् गता प्राप्ता हु खलु स्फुटं । केन करणेन भूतेन मोक्षस्य कारणं भवति । पारंपरेण पारंपर्येण अनुक्रमेण । कुतः । यथा निश्चयाराधना साक्षान्मोक्षफलरूपकार्यसाधिका भवति तथैव या न भवति किंतु बीजत्वात् । बीजो हि क्रमेण वृक्षफलत्वापन्नो दृष्टः । कश्चिद्भव्यजीवः काललब्धिं समवाप्य कर्मणः क्षयोपशमत्वात् गुरुचरणकमलसमीपं संप्राप्योपदेशं लब्ध्वा आराधयितुं प्रवृत्तः प्रथमं भेदाराधनया अभ्यासं विधाय पश्चादभेदेन परमात्मानं सम्यग्दर्शनादिचतुष्टयमयं समाराध्य घातिकमैचतुष्टयक्षयं कृत्वा केवलज्ञानं समुत्पाय मोक्षं गच्छतीत्यभिप्रायः ॥ १६ ॥
नन्वाराधकः पुमान् किंलक्षणः कियत्कालं कृत्वा समाराधयतीति वदंतं प्रत्याह;णिहयकसाओ भव्वो दंसणवंतो हु णाणसंपण्णो। दुविहपरिग्गहचत्तो मरणे आराहओ हवइ ॥१७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org