________________
टीकासहितः ।
निहतकषायो भन्यो दर्शनवान् हि ज्ञानसंपन्नः । द्विविधपरिग्रहत्यक्तो मरणे आराधको भवति ॥ १७ ॥
1
हवइ भवति । कोसौ | आराहओ आराधकः ध्याता पुरुषः । कथंभूतः । णिहयकसाओ निहतकषायः निहताः कषायाः येनासौ कदाचिदपि कषायैराविष्टो न भवतीत्यर्थः । पुनः कथंभूतः । भव्वो भव्यः मुक्तियोग्यः । पुनः कथंभूतः । दंसणवंतो दर्शनवान् सम्यग्दर्शन विराजमानः । पुनः किंविशिष्टः । णाणसंपण्णो ज्ञानसंपन्नः शुद्धपरमात्मपदार्थविलक्षणानि परद्रव्याणि हेयरूपाणि जानाति समस्तदेहादिपरद्रव्येभ्यो विविक्तं परमात्मनः स्वरूपमुपादेयं मनुते इति स्वसंवेदनज्ञानसंपन्नः । पुनः कथंभूतः । दुविहपरिंग्गचत्तो द्विविधपरिग्रहत्यक्तः द्विविधेन बाह्याभ्यंतरलक्षणपरिग्रहेण त्यक्त रहितः । क । मरणे मरणपर्यंतं । अत्र अभिव्याप्यार्थे सप्तमी निर्दिष्टा तिलेषु तैलवत् । कथं । हु खलु निश्वयेन एवंगुणविशिष्टः पुरुषो मरणकालपर्यंतमाराधको भवतीति तात्पर्यार्थः ॥ १७ ॥
नन्वाराधकपुरुषस्येमान्येव लक्षणानि किमन्यान्यपि भविष्यंति वा इति पृष्टे अपराण्यपि संतीत्याह ;
Superio
२७
संसारसुहविरत्तो वेरग्गं परमउवसमं पत्तो । विविहतचतवियदेहो मरणे आराहओ एसो ॥ १८ ॥
संसारसुखविरक्तो वैराग्यं परमोपशमं प्राप्तः ।
विविधतपस्तप्तदेहो मरणे आराधक एषः ॥ १८ ॥
अत्र क्रियाया अध्याहारः । भवति । कोसौ । आराहओ आराधकः । कः । एसो एषः । किं लक्षणः । संसारसुहविरत्तो संसारसुखविरक्तः संसारे यानि निर्मलचिदानंदानुभवनोत्थानुपमानिंद्रियसुखविलक्षणानि केवलमाकुलत्वोत्पादकत्वाद्दुःखरूपाणि इंद्रियविषयोत्पादित सुखानि तेषु विरक्तः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org