SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ૨૮ आराधनासारः अभिलाषरहितः । पुनः किंविशिष्टः । पत्तो प्राप्तः । किं । वेरग्गं वैराग्यं शरीरादौ परस्मिन्निष्टवस्तुनि प्रीतिरूपो रागः विनष्टो रागो यस्यासौ विरागः विरागस्य भावो वैराग्यं संसारशरीरभोगेषु निर्वेदलक्षणं । न केवलं वैराग्यं प्राप्तः परमउवसमं परमोपशमं च । अत्र रागादिपरिहारलक्षणमुपशमं आगमभाषया तु अनंतानुबंधिचतुष्टयमिथ्यात्वत्रयस्वरूपाणां मोहनीयकर्मणः सप्तप्रकृतीनामुपशमनादुपशमः परमश्चासौ उपशमश्च परमोपशमः तं परमोपशमं समुद्रे वाता नाववत् स्वभावे रागिणो रागादिजनितविकल्पोत्पत्तेरभावलक्षणं । पुनः कथंभूतः । विविहतवतवियदेहो विविधतपस्तप्तदेहः विविधैर्वीतरागसर्वज्ञागमप्रतिपादितैर्बाह्यांभ्यंतरलक्षणैर्मूलगुणोत्तरविशेषैर्नानाविधैस्तपोभिस्तप्तो देहः शरीरं यस्यासौ विविधतपस्तप्तदेहः । क । मरणे मरणपर्यंतं । एवं गुणविशिष्टलक्षण आराधको मरणपर्यंतं भवतीति तात्पर्यार्थः ॥ १८॥ उक्तानि कामिचिदाराधकलक्षणानि इदानीमन्यान्यपि वर्णयितुकाम आचार्य आह; अप्पसहावे णिरओ वज्जियपरदव्वसंगसुक्खरसो। णिम्महियरायदोसो हवई आराहओ मरणे॥१९॥ आत्मस्वभावे रितो वर्जितपरद्रव्यसंगसौख्यरसः । निर्मथितरागद्वेषो भवत्याराधको मरणे ॥ १९ ॥ हवइ भवति । कोसौ । आराहओ आराधकः । किंविशिष्टः । "णिरओ निरतः तत्परः । क । अप्पसहावे आत्मस्वभावे निर्मलतरपरमचिदानंदलक्षणे स्वस्वरूपे । पुनः कथंभूतः । वज्जियपरदव्वसंगसुक्खरसो वर्जितपरद्रव्यसंगसौख्यरसः वर्जितो निराकृतः सकलसंगरहितपरमात्मपदार्थविलक्षणानां परद्रव्याणां संगेन संयोगेन यानि पंचेंद्रियविषयोद्भवानि सुखानि तेषां रसोभिलाषो येन । पुनः कथंभूतः। णिम्महियरायदोसो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002535
Book TitleAradhanasaraSatika
Original Sutra AuthorDevsen Acharya
AuthorRatnakirtidev
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1973
Total Pages134
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Spiritual
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy