________________
टीकासहितः ।
२९
निर्मथितरागद्वेषः आत्मसमानसमस्तजीवराशिविलोकनतया निर्मथितौ स्फेटितौ रागद्वेषौ इष्टानिष्टयोः प्रीत्यप्रीतिलक्षणौ येन । क । मरणे मरणपर्यंतं । एवंगुणविशिष्टो मरणं मर्यादीकृत्य आराधयतीति तात्पर्यार्थः ॥ १९ ॥
ननु रत्नत्रितयमयमात्मानं मुक्त्वा परद्रव्यचितां करोति यः कथंभूतो भवतीति पूच्छंतं प्राहुः—
जो रयणत्तयमइओ मुत्तूर्णं अप्पणो विसुद्धप्पा | चिंतेइय परदव्वं विराहओ णिच्छयं भणिओ ॥२०॥
यो रत्नत्रयमयं मुक्त्वात्मनो विशुद्धात्मानम् । चिंतयति च परद्रव्यं विराधको निश्चितं भणितः ॥ २० ॥
1
भणिओ भणितः प्रतिपादितः । केन । णिच्छयं निश्वयेन परमार्थल-क्षणेन । कोसौ । विराहओ विराधकः हेयोपादेयवस्तुपरिज्ञानविकल्पतया यथोक्तलक्षणाराधकः पुरुषविलक्षणः स पुरुषो विराधको भवतीत्यर्थः । यः किं करोति । जो चिंतेइ यश्चिंतयति । किं तत् । परदव्वं परद्रव्यं निजात्मनो भिन्नं यद्वस्तुस्वरूपं इह निजात्मन एवोपादेयत्वात् । ननु निजात्मन एवोपादानेन पंचपरमेष्टिनामप्याराधको विराधकः स्यात् निजात्मभिन्नात्मं-द्रव्यत्वादिति चेत्सत्यं । यः कश्विद्यथावद्वस्तुस्वरूपं परिज्ञाय स्वशुद्धात्मानमाराधयितुं प्रवृतोपि अदृष्टाश्रुताननुभूतत्वात्तत्राशु स्थितिमलभमानः सन् तन्निमित्तं विषयकषायवचनार्थे च तदाराधकानां भिन्नात्मस्वरूपाणां पंचपरमेष्ठिनां स्वरूपमाराधयन्न विराधकः । कुत इति चेत् । आत्मस्वरूपसाधकत्वात् । संसारपरिभ्रमणहेतुभूतै हलौकिकपारलौकिकख्यातिपूजालाभभोगेंद्रियविषयजन्यसुखामिलाषाभावात् । यस्तु इतरः । निजात्मस्वरूपस्यानुपादानेन निदाने नवग्रैवेयक मुखपर्यंत विपुलधिंदा यिविशिष्टपुण्यकारणं पंचपरमेष्ठिस्वरूपमाराधयन्नपि विराधकः पुनरपि संसारकारणत्वात् । यस्तु संसारकारणं तत्पुण्यमपि न भव्यं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org