________________
आराधनासारः
मं पुणु पुण्णइ भल्लाइ णाणिय ताइ भणंति ।
जीवहं रज्जइ देवि लहु दुक्खइ जइ पाडंति ।. . परमात्मप्रकाशे इत्युक्तत्वात् । उक्तं च
तेनापि पुण्येन कृतं कृतं यज् जंतोर्भवेत् संमृतिवृद्धिहेतुः । - तच्चार्वपीच्छेन्ननु हेम को वा क्षिप्तं श्रुती त्रोटयते यदाशु ॥ किं कृत्वा विराधको भवति। मुत्तूणं मुक्त्वा परित्यज्य। कं। विसुद्धप्पा विशुद्धात्मानं विशुद्धो रागादिरहित आत्मा तं । कथंभूतं ।रयणत्तयमइओ रत्नत्रयमय विषयभेदेन सम्यग्दर्शनादिरत्नत्रितयेन निवृतं । कुतः । अप्पणो आत्मनः निजात्मस्वरूपापादानभूतत्वात् । एवं ज्ञात्वा समस्तपरद्रव्यं विमुच्य भो भव्या निजदेहे निवसंतं परमात्मानमाराधयंतु इति तात्पर्यार्थः ॥ २० ॥ ___ नन भगवन् परमात्मानं मुक्वा परद्रव्यं चिंतयति यः स मया विराधको ज्ञातः यस्तु आत्मानं परमपि न बुध्यते तस्याराधना घटते न वेति पृष्टे आचार्यः प्राह;जो णवि बुज्झइ अप्पा णेय परं णिच्छयं समासिज्ज । तस्स ण बोही भणिया सुसमाही राहणा णेय ॥२१॥
यः नैव बुध्यते आत्मानं नैव परं निश्चयं समासृत्य । तस्य न बोधिः भाणिता सुसमाधिराराधना नैव ॥ २१ ॥
णवि बुज्झइ नैव बुध्यते न जानाति । कोसौ । जो यः कश्चिदपि पुरुषविशेषः । कं । अप्पा आत्मानं सम्यग्दर्शनज्ञानचारित्राणि अततीति आत्मा तं । न केवलं आत्मानं बुध्यते । णेय परं परं नैव आत्मनो विलक्षणं देहादिपरद्रव्यं नैव । किं कृत्वा । समासिज्ज समासृत्य अवलंब्य। कं । णिच्छयं निश्चयं परमार्थ तस्स ण भणिया तस्य न भाणता . आत्मपरभेदपरिज्ञानशून्यस्य न प्रतिपादिता । कासौ । बोही बोधिः । बोधेः किं लक्षणं । सम्यग्दर्शनज्ञानचारित्राणामप्राप्तिप्रापणं बोधिः। न केवलं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org