________________
२४
आराधनासारः
newmom
यदा क्षपकः क्षपितकर्मा भव्यः कारणकार्यविभागं ज्ञात्वा कालप्रभृतिलब्धीश्च लब्ध्वा शुद्धपरमात्मानमाराधयति तदा सकलकर्मप्रक्षयं कृत्वा मोक्षं गच्छतीत्यभिप्रायः ॥ १३ ॥
ननु यद्यात्मानमाराधयितुं न लभते जीवस्तदा किं करोतीत्याशंक्याह;जीवोभमइ भमिस्सइ भमिओ पुव्वं तु णरयणरतिरियं । अलहंतो णाणमई अप्पाआराहणा णाउं ॥ १४ ॥ जीवः भ्रमति भ्रमिष्यति भ्रांतः पूर्व तु नरकनरतिर्यक् । अलभमानो ज्ञानमयीमात्माराधनां ज्ञातुम् ॥ १४ ॥ भमइ भ्रमति । कोसौ । जीवो जीवः वर्तमानकालापेक्षया चतुर्गतिसंसारं पर्यटति तथा भविष्यत्कालापेक्षया भमिस्सइ भ्रमिष्यति पर्यटिष्यति । ननु कथं भ्रमति भ्रमिष्यतीति संभाव्यते । तदेवाह । पुव्वं तु पूर्व तु भमिओ भ्रांतः । यदि पूर्व भ्रांतो नाभविष्यत् तदा वर्तमानं भाव्यं च भ्रमणं नाकरिष्यत् पूर्व भ्रांतश्चायं तस्मात् वर्तमाने भाविनि काले च भ्रमणं सिद्धमेवास्य । अलमिति विस्तरेण । यदुक्तं
कालास्त्रयोप्यतीताद्या तानपेक्ष्य मिथोप्यमी ।
प्रवर्तेरन् यतो नैक: केवलं कापि दृश्यते ॥ क । णरयणरतिरियं नरकनरतिर्यग्गतौ अर्थत्वादनुक्तोऽपि गतिशब्दो लभ्यते सुखावबोधार्थ । यहा शब्दस्य लाक्षणिकत्वादपि, यथा गंगायां घोष इत्युक्ते तटो लभ्यते । तथा नरक इत्युक्ते नरकगतिः नर इत्युक्ते नरगतिः एवं सर्वत्र उपलक्षणाद्देवगतौ च । किंकुर्वाणः ।अलहतो अलभमानः अप्राप्नुवन् । कां । आत्माराधनां शुद्धात्मध्यानं । किं कर्तुं । जाउं ज्ञातुं मंतुं अनुभवितुमित्यर्थः । कथंभूतामात्माराधनां । णाणमई ज्ञानमयीं चिन्मयीं । अनादिकाले हि अयं जीवः अनंतज्ञानमयनिश्चयाराधनालक्षणं परमात्मस्वरूपम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org