________________
टीकासहितः।
धयति पश्चान्मनसो दायं प्राप्य क्रमेण निश्चयाराधनामाराधयतीत्यभिप्रायः ॥ १२॥
ननु भगवन् क्षपकः कथं भवं मुंचतीति पृष्टे सत्याचार्य आह;कारणकज्जविभागं मुणिऊणं कालपहुदिलद्धीए । लहिऊण तहा खवओ आराहओ जह भवं मुवइ॥१३॥
कारणकार्यविभागं मत्त्वा कालप्रभृतिलब्धीः ।
लब्ध्वा तथा क्षपक आराधयतु यथा भवं मुंचति ॥ १३ ॥ आराधयतु ध्यायतु । कोसौ । खवओ क्षपकः । कं । अर्थात् परमात्मानमेव । कथं । तहा तथा तेन प्रकारेण जह यथा येन प्रकारेण मुवइ मुंचति त्यजति । कं । भवं संसारं । किं कृत्वाराधयतीत्याह । मुणिऊण मत्त्वा ज्ञात्वा । कं । कारणकज्जविभागं कारणकार्यविभागं विभजनं विभागः कारणं च कार्य च कारणकार्ये तयोविभागः कारणकार्यविभागस्तं कारणकार्यविभागं । कारणकार्ये हि पूर्वोत्तरगुणवैशिष्ट्यापेक्षयोत्पद्यते यथा कारणं व्यवहाराराधना कार्यरूपनिश्चयाराधनाया उत्पादकत्वात् । कार्य निश्चयाराधना कारणरूपव्यवहाराराधनाया उत्पाद्यत्वात् । तथा कारणं निश्चयाराधना कार्यरूपमोक्षस्योत्पादकत्वात् । कार्य मोक्षः कारणरूपनि. श्चयाराधनाया उत्पाद्यत्वात् । तथा कारणं मोक्षः कार्यरूपानंतचतुष्टयस्वरूपशुद्धपरमात्मोत्थातींद्रियानंतसुखस्योत्पादकत्वात् । न केवलं कारणकाविभागं ज्ञात्वा । किं च लहिऊण लब्ध्वा प्राप्य। का । कालपहुदिलद्धीए कालप्रभृतिलब्धीः कालादिलब्धीः । ननु कारणकार्यविभागे ज्ञाते किमेताभिः कालप्रभृतिलब्धिभिः । मैवं वादीः। कारणकार्यविभागज्ञा कालप्रभृतिलब्धिः कारणद्वयसाध्यस्य मोक्षकार्यस्यान्यथानुपपत्तेः । यदुक्तं
कारणद्वयसाध्यं न कार्यमेकेन जायते । बंदोत्पाद्यमपत्यं किमेकेनोत्पयते कचित् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org