________________
आराधनासारः
स एव जीवः फलं च यस्मिन् काले तस्यैव परमात्मस्वरूपस्योपलब्धिः स्यात्तदेव फलमिति भावार्थः । तथा च
आराध्यश्चित्स्वरूपो यदयमयमुपायायितस्तस्य सम्य__ ग्बोधे चाराधनं च स्फुटं तदनुचरीभूत आराधकोऽयम् । कर्मप्रध्वंसभावाच्छिवपदमयितोयं च काम्यं फलं तत्
ह्याराध्याराधनाराधकफलमखिलं प्रोक्त आत्मैक एव ॥ ११ ॥ ननु निश्चयाराधनायां सत्यां किमनया व्यवहाराराधनया साध्यमिति बदंतं प्रत्याह;
पज्जयणयेण भणिया चउम्विहाराहणा हु जा सुत्ते। सा पुणु कारणभूदा णिच्छयणयदो चउक्कस्स॥१२॥ पर्यायनयेन भणिता चतुर्विधाराधना हि या सूत्रे ।
सा पुनः कारणभूता निश्चयनयतश्चतुष्कस्य ॥ १२ ॥ हे क्षपक भणिया भणिता । कासौ । जा आराहणा या आराधना । क । सुत्ते सूत्रे परमागमे । केन कारणभूतेन । पज्जयणयण पर्यायनयेन पर्यायो भेदः स चासौ नयश्च तेन पर्यायनयेन । कथंभूता। चउविहा चतुर्विधा चतस्रो विधाः प्रकारा यस्याः सा चतुर्विधा दर्शनज्ञानचारित्रतपोरूपा । कथं । हु खलु सा पुणु सा पुनः । अत्र पुनःशब्द एवार्थे अव्ययानामनेकार्थत्वात् । ततः सैव आराधना कारणभूदा कारणभूता हेतुरूपा । कस्य । चउक्कस्स चतुष्कस्य आराधनाचतुष्कस्य । कस्मात् । णिच्छयजयदो निश्चयनयतः शुद्धनयात् अर्थान समीलिते तु निश्चयनयाराधनाचतुकस्य । ननु चतुष्कस्य इत्युक्ते आराधनापदं कुतो लभ्यते । प्रसंगत्वात् । अत्र तावदराधनायाः प्रसंगः पूर्वोक्तत्वात् । तथाहि । कश्चिद्भव्यः प्राथमिकावस्थायां निश्चयाराधानायां स्थितिमलभमानस्तावक्ष्यवहाराराधनामारा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org