________________
टीकासहितः।
२१
" विशुद्ध स्वस्वभावे यच्छ्रद्धानं शुद्धिबुद्धितः । तन्निश्चयनये सम्यग्दर्शनं मोक्षसाधनं ॥ आत्मानमात्मसंभूतं रागादिमलवर्जितं । यो जानाति भवेत्तस्य ज्ञानं निश्चयहेतुजं ॥ तमेव परमात्मानं पौनःपुन्यादयं यदा । अनुतिष्ठेत्तदा त्वस्य ज्ञानं चारित्रमुत्तमं ॥ परद्रव्येषु सर्वेषु यदिच्छाया निवर्त्तनं । .
ततः परममात्मानं तन्निश्चयनयस्थितैः ॥ इति निश्चयाराधनास्वरूपं परिज्ञाय क्षपकेण संसारशरीरभोगेभ्यो विरज्य शुद्धात्मस्वरूपमेवाराधनीयमिति तात्पर्यार्थः ॥ १०॥
ननु भगवन् निश्चयाराधनायात्मात्मस्वरूपे आराधिते आराधनाराध्याराधकफसमिति चत्वारो भेदाः कथं घटत इति पृष्टः स्पष्टमाचष्टे आचार्यः,
आराहणमाराहं आराहय तह फलं च जं भणियं । तं सब्वं जाणिज्जो अप्पाणं चेव णिच्छयदो ॥११॥
आराधनमाराध्यं आराधकस्तथा फलं च यद्भणितम् ।
तत्सर्व जानीहि आत्मानं चैव निश्चयतः ॥ ११ ॥ हे क्षपक जाणिज्जो जानीहि । किं तत् । तं सव्वं तत्सर्वं पूर्वोक्तं निखिलं । कं । अप्पाणं चेव आत्मानमेतत् शुद्धात्मानमव । कस्मात् णिच्छयदो निश्चयतः परमार्थतः। तत् किमित्याह । जं भणियं यद्भणितं यत् उक्तं । किं स्वरूपं । आराहणं आराहं आराहय तह फलं च आराधनं सम्यग्दर्शनादिचतुष्टयोद्योतनोपायरूपं आराध्यं सम्यग्दर्शनादिकं आराधकः पुरुषविशेषः क्षपकः तथा फलं च सकलकर्मप्रक्षयो मोक्षः संवरनिर्जरे च, चकारोऽनुक्तसमुच्चयार्थः । कथमिति चेत् । आराधनं उद्योतनोपायरूपः स एवात्मा जीवः आराध्यं च तदेव परमात्मस्वरूपं आराधकच
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org