________________
आराधनासारः
कान् । इंदियविलए इंद्रियविषयान पंचेंद्रियाणां विषया गोचराः सप्तविंशतिसंख्याताः । तत्र स्पर्शनेंद्रियस्य अष्टौ विषया भवंति । ते के। गुरुलघुस्निग्धरूक्षशीतोष्णमृदुकर्कशलक्षणाः। रसनायाः कटुकतीक्ष्णमधुराम्लक्षाराः पंच । घ्राणस्य सुगंधदुर्गधौ । चक्षुषोः श्वेतपीतरक्तनीलकृष्णाः पंच । श्रोत्रस्य निषादर्षभगांधारषड्जमध्यमधैवतपंचमलक्षणाः सप्त स्वराः इति सर्वे मिलित्वा सप्तविंशतिविषया भवंति तानिद्रियविषयान्निध्य संकोच्य । एतेन तपोप्यात्मैवेत्युक्तं स्यात् ॥ ९ ॥
इदमेव दर्शयति;तम्हा दंसण णाणं चारित्तं तह तवो य सो अप्पा । चइऊण रायदोसे आराहउ सुद्धमप्पाणं ॥१०॥
तस्मादर्शनं ज्ञानं चारित्रं तथा तपश्च स आत्मा।
त्यक्त्वा रागद्वेषौ आराधयतु शुद्धमात्मानम् ॥ १० ॥ __ भवतीत्यध्याहार्य व्याख्यायते । भवति । कोसौ । सो अप्पा सः पूर्वोक्तः विश्वविख्यातो वा आत्मा। किं भवतीत्याह । दसण णाणं चरित्तं तह तवो य दंसणेति प्राकृतत्वादनुस्वारलोपः । दर्शनं ज्ञानं चारित्रं तथा तपश्च तस्मादर्शनशानचारित्रतपोमयकारणात् क्षपकःआराहउ आराधयतु।कं । अप्पाणं आत्मानं । कथंभूतं । शुद्धं रागादिमलमुक्तं । किं कृत्वा । चइऊण त्यक्त्वा परित्यज्य । को। रायदोसे रागद्वेषौ रागश्च द्वेषश्च रागद्वेषौ तौ रागद्वेषौ
"तवि तं कुणइ अमित्तो सुटुवि सुविराहिओ समत्थोवि ।
जं दोयं आणिगाहिय करंति रागो य दोसो य" ॥ स आत्मा दर्शनज्ञानचारित्रतपोमयः कथमिति चेदुच्यते । यदायमात्मा तं परमात्मानं श्रद्दधाति तदा दर्शनं यदा जानाति तदा ज्ञानं यदानुचरति तदा चारित्रं यदा परद्रव्याभिलाषं परिहरति तदा तपः ॥ यदुक्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org