SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ टीकासहितः। - शुद्धनये चतुःस्कंधमुक्तं आराधनाया ईदृशम् । . सर्वविकल्पविमुक्तः शुद्ध आत्मा निरालंबः ॥ ८॥ उत्तं प्रोक्तं । किं तत् । चउर्खधं चतुःस्कंधं चतुर्णा सम्यग्दर्शनादीनां समुदायः । कस्याः । आराहणाए आराधनायाः । कस्मिन् । सुद्धणये निश्चयनये । कीदृशमुक्तं । एरिसियं ईदृशं । ईदृशमिति कीदृशं । अप्पा आत्मा जीवः । कथंभूतः । सव्ववियप्पविमुक्को सर्वविकल्पविमुक्तः सर्वे च ते विकल्पाश्च कर्तृकर्मादयस्तैर्विमुक्तः विशेषेण मुक्तो रहितः । पुनः कथंभूतः । शुद्धः कर्ममलकलंकविवर्जितः । पुनरपि कथंभूतः । णिरालंबो निरालंबः पंचेंद्रियविषयसुखाद्यालंबनरहितः । किंतु चिच्चमत्कारशुद्धपरमात्मस्वरूपालंबन इत्यर्थ इति विशेषः ॥ ८॥ तस्या निश्चयाराधनाया विशेषमुपदर्शयन्नाह;-- सद्दहइ सस्सहावं जाणइ अप्पाणमप्पणो सुद्धं । तं चिय अणुचरइ पुणो इंदियविसए णिरोहित्ता॥९॥ श्रद्दधाति स्वस्वभावं जानाति आत्मानमात्मनः शुद्धम् । तमेवानुचरति पुनरिंद्रियविषयानिरुध्य ॥ ९ ॥ सद्दहइ श्रद्दधाति प्रत्योति । कं । सस्सहावं स्वस्वभावं शुद्धात्मानं । यदा स्वस्वभावं परमात्मस्वरूपं श्रद्धत्ते तदा दर्शनं भण्यते । पुनः किं करोतीत्याह । जाणइ जानाति । कं । अप्पाणं आत्मानं । कथंभूतं । शुद्ध रागादिमलरहितं । कस्मात् सकाशात् । अप्पणो आत्मनः निजात्मस्वरूपात् । यदा तु आत्मनः सकाशात् आत्मानं जानाति तदा ज्ञानं भण्यते पुणो पुनः पश्चात् तं चिय तमेव अणुचरइ अनुचरति तमेव शुद्धात्मानमनुचरति पुनः पुनराचरति अनुतिष्ठतीत्यर्थः। यदा तु तमेव शुद्धपरमात्मानमनुचरति तदा चारित्रं भण्यते । किं कृत्वा । णिराहिता निरुध्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002535
Book TitleAradhanasaraSatika
Original Sutra AuthorDevsen Acharya
AuthorRatnakirtidev
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1973
Total Pages134
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Spiritual
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy