________________
१८
आराधनासारः
कासौ । जो यः । य इति कः । उज्जमो उद्यमः उपक्रमः । कस्मिन् । बारसविहतवयरणे द्वादशविधतपश्चरणे षड़ाह्यषडभ्यंतरलक्षणे । कया। ससत्तीए स्वशक्त्या शक्त्या विना हि क्रियमाणतपोनिषेधत्वात् । तदुक्तं
"तं चि तवो कायव्यो जेण मणोऽमंगलं ण चिंतेइ ।
जेण ण इंदियहाणी जेण य जोगा ण हायंति" ॥ तत्रानशनावमौदर्यवृत्तिपरिसंख्यानरसपरित्यागविविक्तशय्यासनकायक्लेशा बाह्यं तपः, प्रायश्चित्तविनयवैयावृत्त्यस्वाध्यायव्युत्सर्गध्यानान्युत्तरमाभ्यंतरं तपः इति द्वादशविधतपश्चरणे यः उद्यमः सा तपस्याराधना भवति। इयमपि दर्शनज्ञानचरित्राराधनावदाराधनीयैव यतो नैनामंतरेण निकाचितकर्मभ्यो मोक्षः ॥ यदुक्तं--
“निकाचितानि कर्माणि तावद्भस्मीभवंति न ।
यावस्प्रवचनप्रोक्तस्तपोवह्निर्न दीप्यते " ॥ तथाच निश्चयनयं जिज्ञासुनापि पाक्षिकेण पूर्वमप्रमत्तेनेयं व्यवहाराराधना सम्यगुपास्या यतो नैनां विना निश्चयनये प्रवृत्तिः । यदुक्तं“जीवोऽप्रविश्य व्यवहारमार्ग न निश्चयं ज्ञातुमुपैति शक्तिम् ।
प्रभाविकाशेक्षणमंतरेण भानूदयं को वदते विवेकी " ॥ एवं चतुर्विधाराधना भव्येनाराधनीयेति तात्पर्यार्थः ।
षोढाभ्यंतरषड्डिधोत्तरतपस्यहरैर्भाषिते शक्तिं स्वामनुपेक्ष्य यो वितनुते चारित्रपानोद्यमं । __ भक्त्या स प्रसभं कुकर्मनिचयं भक्त्वा च सम्यक् पर
ब्रह्माराधनमद्भुतोदितचिदानंदं पदं विंदते ॥ ॥ ७ ॥ व्यवहाराराधनास्वरूपं प्रतिपाद्य निश्चयाराधनास्वरूपं प्रतिपादयति:सुद्धणये चउखंधं उत्तं आराहणाइ एरिसियं । सव्ववियप्पविमुक्को सुद्धो अप्पा णिरालंबो ॥८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org