SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ टीकासहितः । कीयविषयेषु स्वेच्छाप्रचारः स इंद्रियासंयमः कथ्यते । यच्च पृथिव्यप्तेजो वायुवनस्पतिलक्षणपंचस्थावराणां द्वींद्रियत्रींद्रियचतुरिंद्रयपंचेंद्रियलक्षणत्रसानां च प्रमादचारित्रत्वाज्जीवितव्यपरोपणं स प्राणासंयमः । यदुक्तं " मनसचेंद्रियाणां च यत्स्वस्वार्थे प्रवर्तनम् । यदृच्छयेव तत्तज्ज्ञा इंद्रियासंयमं विदुः " ॥ " स्थावराणां त्रसानां च जीवानां हि प्रमादतः । जीवितव्यपरोपो यः स प्राणासंयमः ," ॥ स्मृतः तस्य द्विविधासंयमस्य त्यागः परिहार इतियोजनिकाद्वारः । त्रयोदशविधस्य चारित्रस्य इह भावशुद्धयाचरणम् द्विविधासंयमत्याग, एषा चारित्राराधना भवतीति संक्षेपान्वयद्वारः । एवमसंयमं परिहृत्य पंचेंद्रियनिरोधसकलप्राणिदयालक्षणे संयमे स्थित्वा त्रयोदशविधं चारित्रमाराधनीयमिति भावार्थः ॥ द्वेधासंयमवर्जितं गुरुपदद्वंद्वाब्जसंसेवना 66 दाप्तं यश्चिनुते त्रयोदशविधं चारित्रमत्यूर्जितम् । भक्त्या सप्रसभं कुकर्मनिचयं भक्त्वा च सम्यक् परब्रह्माराधनमद्भुतोदितचिदानंदं पदं विंदते " ॥ ६ ॥ १७ चारित्राराधना व्याख्याय तप आराधनां प्रतिपादयति ;बारहविहतवयरणे कीरइ जो उज्जमो ससत्तीए । सा भणिया जिणसुत्ते तवम्मि आराहणा णूणं ॥ ७ ॥ द्वादशविधतपश्चरणे क्रियते य उद्यमः स्वशक्त्या । सा भणिता जिनसूत्रे तपसि आराधना नूनम् ॥ ७ ॥ भणिया भणिता प्रतिपादिता । कासौ । आराहणा आराधना । क । तवमि तपसि । कस्मिन् भणिता । जिणसुत्ते जिनसूत्रे सर्वज्ञागमे । कथं । पूर्ण नूनं निश्चितं । का । सा आराधना । सा इति का। कीरह क्रियते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002535
Book TitleAradhanasaraSatika
Original Sutra AuthorDevsen Acharya
AuthorRatnakirtidev
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1973
Total Pages134
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Spiritual
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy