________________
आराधनासारः
ज्ञानाराधना व्याख्याय चारित्राराधनां प्रतिपादयति;तेरहविहस्स चरणं चारित्तस्सेह भावसुद्धीए । दुविहअसंजमचाओ चारित्ताराहणा एसा ॥६॥
त्रयोदशविधस्य चरणं चारित्रस्येह भावशुद्धया । द्विविधासंयमत्यागश्चारित्राराधना एषा ॥ ६॥ अत्र भवतीति क्रिया अध्याहार्या । भवति । कासौ । चारित्ताराहणा चारित्राराधना । का । एसा एषा । एषेति का । चरणं चरण अनुष्ठानं । कस्य। चरित्तस्स चारित्रस्य । कतिविधस्य ।तेरसविहस्स त्रयोदशविधस्य त्रिभिराधिका दश तस्य पंचमहाबतपंचसमितित्रिगुप्तिलक्षणस्य । उक्तं च
" महाव्रतानि पंचैव पंचैव समितीस्तथा ।
गुप्तीस्तिस्रश्च चारित्रे त्रयोदशविधे विदुः ॥" क । इह इहाराधनायां । कया । भावसुद्धीए भावशुद्ध्या भावश्चित्तानुरागस्तस्य शुद्ध्या नैर्मल्येन तामंतरेण चारित्रं गगनारविंदमकरंदवत्प्रतिभासते । यदुक्तम्- .
" मावशुद्धिमबिभ्राणाश्चारित्रं कलयंति ये। त्यक्त्वा नावं भुजाभ्यां ते तितीर्षति महार्णवम् ॥" इति । अस्य त्रयोदशविधस्य चारित्रस्य यथावदनुष्ठानं कदा करिध्यामीति चित्तोल्लासेन शीतवातादिजनितशरीरखेदे सति मनसः संक्लेशरहितत्वेनेत्यर्थः । न केवलं चारित्रस्य चरणं चारित्राराधना भवति अन्यदपीत्याह । दुविहअसंजमचाओ द्विविधासंयमत्यागः । दो भेदौ प्रकारौ यस्यासौ द्विविधः द्विविधश्चासावसंयमश्च द्विविधासंयम द्विविधासंयमस्य त्यागः द्विविधासंयमत्यागः। द्विविधासंयमस्य किं लक्षणं । एकस्तावदिद्रियासंयमः अन्यः प्राणासंयमः । द्वयोर्लक्षणं निरूप्यते। यः स्पर्शनरसनघ्राणचक्षुःश्रोत्रलक्षणानां मनसश्च स्पर्शरसगंधवर्णशब्दलक्षणेषु स्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org