________________
टीकासहितः।
"येनेदं त्रिजगद्वरेण्यविभुना प्रोक्तं जिनेन स्वयं
सम्यक्त्वाद्भुतरत्नमेतदमलं चाभ्यस्तमप्यादरात् । भक्त्वा सप्रसभं कुकर्मनिचयं शक्त्या च सम्यक् पर
ब्रह्माराधनमद्भुतोदितचिदानंदं पदं विंदते" ॥ इति सम्यग्दर्शनाराधनालक्षणप्रतिपादनेन चतुर्थगाथासूत्रं गतं ॥ ४ ॥ अथ व्यवहारज्ञानाराधनां प्रतिपादयति;सुत्तत्थभावणा वा तेसिं भावाणमहिगमो जो वा। णाणस्स हवदि एसा उत्ता आराहणा मुत्ते ॥५॥
सूत्रार्थभावना वा तेषां भावानामधिगमो यो वा।
ज्ञानस्य भवत्येषा उक्ता आराधना सूत्रे ॥५॥ हवदि भवति । कासौ । आराहणा आराधना । कस्य । णाणस्य ज्ञानस्य । कासावाराधना। एसा एषा । किंविशिष्टा । उत्ता उक्ता प्रोक्ता । कस्मिन् । सुत्ते सूत्रे परमागमे । एति का । सुत्तत्थभावणा वा सत्रार्थभावना परमागमभावना । अथवा यः । य इति कः । अहिगमो अधिगमः सम्यक् परिज्ञानं केषां । भावाणं भावानां । तेसिं तेषां पूर्वोतानामिति योजनिकाद्वारः । सूत्रार्थभावाना वा तेषां भावनां यो वा अधिगमः एषा सूत्रे उक्ता ज्ञानस्याराधना भवतीति संक्षेपान्वयद्वारः ।
“काले विणये उवहाणे बहुमाणे तहेव णिण्हवणे । वंजण अत्थे तदुभय णाणाचारो दु अहविहो" ॥ इति गाथा कथितलक्षणाष्टविनयादिना ज्ञानमाराधनीयमिति भावार्थः ॥ "सिद्धांते जिनभाषिते नवलसत्तत्त्वार्थभावाद्भुते
भावं यो विदधीत वाधिगमनं कुर्वीत तस्यानिशं । भक्त्या सप्रसभं कुकर्मनिचयं भक्त्वा च सम्यक्परब्रह्माराधनमद्भुतोदितचिदानंदं पदं विंदते ॥ ५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org