________________
१४
आराधनासारः
सौधर्मशानकल्पवासिनीनां च क्षायिकं नास्ति तेषां पर्याप्तकानामौपशमिकं क्षायोपशमिकं चास्ति । अस्य साधनमपि कथ्यते । साधनं द्विविधमाभ्यंतरं बाह्यं च । आभ्यंतरं दर्शनमोहस्योपशमः क्षयःक्षयोपशमो वा । बाह्यं नारकाणां प्राक् चतुर्थ्याः सम्यग्दर्शनस्य साधनं केषांचिज्जातिस्मरणं केषांचिद्धर्मश्रवणं केषांचिद्वेदनाभिभवः, चतुर्थीमारभ्य आसप्तम्या नारकाणां जातिस्मरणं वेदनाभिभवश्च । तिरश्चां केषांचिज्जातिस्मरणं केषांचिद्धर्मश्रवणं केषांचिज्जिनविंबदर्शनं । मनुष्याणामपि तथैव । देवानामपि केषांचिज्जातिस्मरणं केषांचिद्धर्मश्रवणं केषांचिन्जिनमहिमदर्शनं केषांचिद्देवर्धिदर्शनं । एवं प्रागानतात् । आनतप्राणतारणाच्युतदेवानां देवर्धिदर्शनं मुक्त्वा अन्यत्रितयमप्यस्ति । नवौवेयकवासिनां केषांचिजातिस्मरणं केषांचिद्धर्मश्रवण । अनुदिशानुत्तरविमानवासिनामियं कल्पना न भवति प्रागेव गृहीतसम्यक्त्वानां तत्रोत्पत्तेः । अस्याधिकरणमपि कथ्यते ! अधिकरणं द्विविधं आभ्यंतरं बाह्यं च । आभ्यंतरं स्वामिसंबंधार्ह एवात्मा 'विवक्षातः कारकप्रवृत्तेः' बाह्यं लोकनाडी। सा कियती । एकरज्जुविष्कंभा चतुर्दशरज्ज्वायामा । स्थितिरप्यस्य कथ्यते । औपशमिकस्य जघन्योत्कृष्टा चांतहूिर्तिकी । क्षायिकस्य संसारिणः जघन्यांतर्मोहूर्तिकी उत्कृष्टा त्रयस्त्रिंशत्सागरोपमाणि सांतर्मुहूर्ताष्टवर्षहीनपूर्वकोटद्वियाधिकानि । मुक्तस्य सादिरप्यपर्यव. साना । क्षायोपशमिकस्य जघन्यांतमौहूर्तिकी उत्कृष्टा षट्षष्ठिसागरोपमाणि ॥ विधानमप्यस्य । विधानं सामान्यादकं सम्यग्दर्शनं द्वितयं निसर्गजाधिगमजभेदात् । त्रितयं औपशमिकक्षायिकक्षायोपशमिकभेदादेवं संख्येया विकल्पा असंख्येया अनंताश्च भवंति श्रद्धातृश्रद्धातव्यभेदात् । इत्युक्तलक्षणा नानाविधाः सूत्रोक्तयः संति अत्र तूपदेशो मुख्यवृत्त्या मनुव्यगतौ कथ्यते तद्भवमुक्तिसाधनत्वात् । मूढत्रयादिपंचविंशतिमलपरिहारेण हयस्य त्यागेनोपादेयस्योपादानेन जीवादितत्त्वश्रद्धानं विधीयते यत्र सा व्यवहारसम्यग्दर्शनाराधना सा च क्षपकेणाप्रमत्तेनाराधनीया भवतीति तात्पर्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org