________________
११०
आराधनासार:
इत्युक्तलक्षणैः पंचप्रकारदुखैः तिर्यग्गतौ अतिभारारोपणनासाछेदनमेदनविदारणक्षुत्तृष्णाजनितैरनेकविधैर्दुःखैस्तप्तो अयमात्मा । अमुमेवार्थ दृष्टांतेन व्यक्तीकरोति । जहा जलं अग्गिजोएण यथा जलं पानीयं शीतस्वभावमपि ज्वलनसंयोगेन तप्ती भवति तथाहमपीति विमृश्य । तथा
जानासि त्वं मम भवभवे यच्च यादृक् च दु:ख जातं यस्य स्मरणमपि मे शस्त्रवन्निपिनष्टि । त्वं सर्वेशः सकृप इति च त्वामुपेतोऽस्मि भक्त्या
यत्कर्तव्यं तदिह विषये देव एव प्रमाणम् ॥ इति स्तुत्वा च देवं शरणं या या इति यावत् ॥ ९७ ॥ इति चिदानंदभावनापरिणतः स्वस्वभावास्तित्वं ध्रुवाणो ज्ञानामृते तत्सौख्यवान् भवतीत्याह;ण गणेइ दुक्खसलं इयभावणभाविओ फुडं खवओ। पडिवज्जइ ससहावं हवइ सुही णाणसुक्खण ॥ ९८॥
न गणयति दुःखशल्यं इतिभावनाभावितः स्फुटं क्षपकः । प्रतिपद्यते स्वस्वभावं भवति सुखी ज्ञानसौख्येन ॥ ९८ ॥
ण गणेइ न गणयति । कोऽसौ । खवओ क्षपकः । किं न गणयति । दुःखसल्लं दुःखशल्यं । कथं । फुडं स्फुटं प्रकटं । कीदृशः क्षपकः । इयभावणभाविओ इतिभावनाभावितः यदहमनादिकाले चतुर्गतिक्लेशगर्तवर्तस्थपुटे पंचप्रकारे संसारे भ्रामं भ्रामं यानि दुस्सहानि दुःखान्यनुभूतवानस्मि तेभ्योऽमूनि क्षुत्तट्प्रभवानि न किंचिदिव प्रतिभांत्येवंरूपा भावना इतिभावना तया भावितः पुनः पुनः संस्कृतः इतिभावनाभावितः, अथवा ' मम जरामरणादिराहतस्य विशुद्धस्य निश्चयेन दुःखं नास्तीत्येवंरूपा भावना तया भावितः इतिभावनाभावितः क्षपकः । किं करोतीत्याह । पडिवज्जइ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org