________________
टीकासाहितः।
क्षुदादयः क्षुदादयश्च ते परीषहास्तैः क्षुदादिपरीषहैः तथा तथा कर्माणि विलीयते इत्याह । तहं तहं गलंर्ति पूणं तथा तथा गलति तेन तेन प्रकारेण विलयं प्रपद्यते नूनं । कानि । कम्माइं कर्माणि । कथंभूतानि कर्माणि। चिरभवबद्धानि अनेकभवांतरोपार्जितानि । यद्यपि सिद्धांते तपसा निर्जरेत्युक्तं तथापि भेदविज्ञानमंतरेण न कर्मनिर्जरा । ततः क्षपकेन तदेवाश्रयणीयं । यदुक्तं
"कर्मशुष्कतृणराशिरुन्नतोप्युद्गते शुचिसमाधिमारुतात् ।
भेदबोधदहने हृदि स्थिते योगिनो झटिति भस्मसाद्भवेत् ॥ ९६॥ अनिसंसर्गाजलमिवाहं दुःखैस्तप्तोस्मीति क्षपकश्चितयेदित्याह;तत्तोहं तणुजोए दुक्खेहिं अणोवमेहिं तिब्वेहि । णरसुरणारयतिरिए जहा जलं अग्गिजोएण ॥९॥
तप्तोहं तनुयोगे दुःखैरनुपमैस्तीत्रैः ।
नरसुरनारकतिरश्चि यथा जलमग्नियोगेन ॥ ९७ ॥ तत्तोहं तप्तोऽहं यद्यप्यहं शुद्धनिश्चयनयापेक्षया अनंतज्ञानामृतवापीमध्यमध्यासीनः सदैवानंतसुखस्वभावः तथापि व्यवहारेण अहं तप्तोस्मि कदथितोस्मि । कैः । दुक्खेहिं दु:खैः । कीदृशैः । अनुपमैः उपमारहितैः तथा तीरैः दुस्सहतरैः । कदा । तनुयोगं वपुःसंयोगं शरीरसंयोगमासाद्य दुःखपरंपरां परिगतोस्मीत्यर्थः । कस्मिन् । णरसुरणारयतिरिए नरश्च सुरश्च नारकश्च तिर्यङ् च नरसुरनारकतिर्यङ् 'वंद्वैकत्वमत्र' तस्मिन् नरसुरनारकतिर्यश्चि । तत्र मनुष्यगतौ इष्टवियोगानिष्टसंयोगविपदागमाधिव्याधिसंभवैर्दुःखैरुपद्रुतः । देवगतौ इंद्रादिविभूतिदर्शनसंभूतैर्मानसैर्दुःखैः । नरकगतौ--
असुरोदीरियदुक्खं सारीरं माणसं तहा विविहं । खित्तुभवं च तिव्वं अण्णोण्णकयं च पंचविहं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org