________________
आराधनासारः
णिज्जरसि तावन्निर्जरयसि । किं तत् । णियकम्मं निजकर्म बहुभवांतरोपार्जितकर्मसंतानं अवश्यमयमात्मा परात्मध्यानज्वलनज्वालाजालानदग्धमनाः क्षणादेव विविधानां कर्मणां निर्जरामारचयति न पुनरात्मज्ञानविहीनः । यदुक्तम्
अज्ञो यद्भवकोटिभिः क्षपयति स्वं कर्म तस्माद्बहु स्वीकुर्वन् कृतसंवरः स्थिरमना ज्ञानी तु तत्तत्क्षणात् । तीक्ष्णक्लेशहयाश्रितोपि हि पदं नेष्टं तपःस्यंदने
नीयंतं नयति प्रभुः स्फुटतरज्ञानकसूतोज्झितः ॥ कीदृशः सन् कर्मनिर्जरां करोषि त्वमित्याह । तण्हाइदुक्खतत्तो तृष्णाक्षुदंशमशकादिभिर्यदुःखं दुस्सहतरयातना तृष्णादिदुःखं तेन तप्तः कदर्थितः तृष्णादिदुःखतप्तः। किमिति सर्वपरीषहान् सहमानः क्षपकः संस्तरमास्थितः । यस्मात् सुगृहीतसंन्यासः सु अतिशयेन गृहीतः संन्यासोऽन्नपानादिनिवृत्तिलक्षणो येन स सुगृहीतसंन्यासः गृहीतसंन्यासः स्वात्मभावनापरः तृष्णादिदुःखमनुभवन्नपि कर्मनिर्जरालक्षणं फलमवामोतीत्यसंदेहमिति ॥ ९५ ॥
यथा यथा तृष्णादिबाधा जायते क्षपकस्य तथा तो समभावनया सहमानस्य कर्मनिर्जरेव फलं भवतीत्याचष्टे,
जहं जहं पीडा जायइ भुक्खाइपरीसहेहिं देहस्स । तहं तहं गलति णूणं चिरभवबद्धाइं कम्माई ॥१६॥ यथा यथा पीडा जायते क्षुदादिपरीषहर्देहस्य । तथा तथा गलंति नूनं चिरभवत्रद्धानि कर्माणि ॥ ९ ॥
जहं जहं पीडा जायइ यथा यथा येन येन प्रकारेण पीडा तीवतरवेदना जायते । कस्य । देहस्य जीवाविष्टस्य शरीरस्य । कैः कृत्वा व्यथा जायते । भुक्खाइपरीसहेहिं क्षुत् आदिर्येषां शीतोष्णदंशमशकादीनां ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org