________________
टीकासहितः।
१०७
जह उपज्जइ यदि उत्पद्यते संजायते । किं तत् । दुःखं । कस्य । तव । केन । कर्कशसंस्तरग्रहणदोषेण कर्कशसंस्तरस्य ग्रहणं स्वीकरणं कर्कशसंस्तरग्रहणं तदेव दोषस्तेन वा दोषः कर्कशसंस्तरग्रहणदोषः तेन कर्कशसंस्तरग्रहणदोषेण । कथंभूतस्य तव । क्षुत्तृड्जनिततीव्रतरपीडाबशात् क्षीणं सामर्थ्यविरहितशरीरं यस्य स क्षीणशरीरस्तस्य क्षीणशरीरस्य दुर्बलीभूतकायस्य । तुमं सहतं त्वं तदुःखं सहस्व । कीदृशस्त्वं । समभावसंजुत्तो समभावसंयुक्तः समः अहौ हारे मित्रे शत्रौ तृणे स्त्रैणे समानो यो भावः परिणामः समभावस्तेन युक्तः समभावसंयुक्तः यतो मणौ लोष्ठे. समभावपरिणतो सूरिरात्मानमेव पश्यति । यदुक्तं
“ एकस्यापि ममत्वमात्मवपुषः स्यात्संसृतेः कारणं का बाह्यार्थकथा प्रथीयसि तपस्याराध्यमानेपि च। तद्वास्यां हरिचंदनेऽपि च समः संश्लिष्टतोऽप्यंगतो भिन्नं स्वं स्वयमेकमात्मान धृतं पश्यत्यजस्रं मुनिः ॥ तृणं वा रत्नं वा रिपुरथ परं मित्रमथवा सुखं वा दुःखं वा पितवनमहो सौधमथवा । स्तुतिर्वा निंदा वा मरणमथवा जीवितमथ
स्फुटं निग्रंथानां द्वयमपि समं शांतमनसाम् " ॥ ९४ ॥ यावत्परीषहान् सहमानः संस्तरे वससि तावदात्मज्ञानपरिणतस्त्वं कर्माणि क्षपयसीति क्षपकमुत्सायन्नाह;
तं सुगहियसण्णासे जावकालं तु वससि संथारे । तण्हाइदुक्खतत्तो णियकम्मं ताव णिज्जरसि ॥९५॥
त्वं सगृहीतसंन्यासो यावत्कालं तु वससि संस्तरे ।
तृष्णादिदुःखतप्तो निजकर्म तावन्निर्जरयसि ॥ ९५ ॥ भो क्षपक जावक्कालं तु वससि तं त्वं यावत्कालं यावंतं कालं वससि निवासं करोषि । क । संथारे संस्तरे। तावत् किं करोषीत्याह । ताम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org