________________
आराधनासारः
कृषिते तनुसंघाते चेष्टारहितस्य विगतधान्नः ।
क्षपकस्य भवति दुःखं तत्काले कायमनउद्भूतम् ॥ ९३ ॥ हवइ भवति । किं तत् । दुक्खं दुःखं । कस्य भवति । खवयस्स क्षपकस्य स्वीकृतसंन्यासस्य । कीदृशं दुःखं कायमणहूयं कायः शरीर मनश्चित्तं कायश्च मनश्च कायमनसी ताभ्यां सकाशादुद्भूतं तत् कायमन उद्भूतं । तत्र कायजं दुःखं शिरःकर्णनेत्रतीव्रतरवेदनाज्वरावेशदाहायनेकप्रकारं, मनःसंभवं दुःखं च एतद्गृहमिमे दारा एते बांधवा इयं कमला मम पुनः क्वेत्यादि संकल्पविकल्परूपं । कदा भवति दुःखं । किसिए तणुसंघाए कृषिते तनुसंघाते तनोः शरीरस्य संघातः परमाणुसंचयरूपो हस्तपादायंगुल्यवयवरूपो वा तनुसंघातस्तस्मिन् तनुसंघाते लंघनवशादथवा तीव्रवेदनावशात् कृशतां क्षीणतां गते सति । कीदृशस्य क्षपकस्य । विगयधामस्स विगतबलस्य अत एव चिहारहियस्स चेष्टारहितस्य चलनबलनादिका चेष्टा तया रहितस्य चेष्टाविवर्जितस्य । ततः क्षपकेण संविशुद्धपरमात्मभावनाबलेन वाग्मनःकायादिकं कर्म च स्वात्मस्वरूपात् पृथक् दृष्टव्यं तेन च दुःखोपशांतिर्भवति । यदुक्तम् -
“ कर्मभिन्नमनिशं स्वतोखिलं पश्यतो विशदबोधचक्षुषा। तत्कृतेपि परमार्थवेदिनो योगिनो न सुखदुःखकल्पना " ॥ ९३ ॥ कठिनतरसंस्तरशयनदोषेण यदि दुःखमुपजायते तदा समभावेन सहस्वेति शिक्षा ददन्नाह;
जइ उप्पज्जइ दुक्खं कक्कससंथारगहणदोसेण । खीणसरीरस्स तुमं सहतं समभावसंजुत्तो ॥ ९४ ॥
यद्युत्पद्यते दुःखं कर्कशसंस्तरग्रहणदोषेण । क्षीणशरीरस्य त्वं सहस्व समभावसंयुक्तः ॥ ९४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org